विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 264, कुल 1001 में से
संदर्भ में पढ़ेंशय्यां निविष्टस्तु कुशपाणिर्जितेन्द्रियः ॥ अर्कमध्यगतं ध्यायेत्पुरुषं तं महाद्युतिम् ॥ १९ ॥ अथवाकं महीपाल बहिः स्नातस्त्वतन्द्रितः ॥ अनन्यचित्तो मेधावी पूर्वाद्धे तु विशेषतः ॥ २० ॥ भैक्ष्यवाक्त्वावकाशो पर्णमूलशनोऽथवा ॥ फलपुष्पाशनो वापि नक्तं वापि हविष्य भुक् ॥ २१ ॥ अनेन विधिना जप्यं यः करोति महीपते ॥ स याति परमं स्थानं वायुभूतः खमूर्त्तिमान् ॥ २२ ॥ अकामः कामकामस्तु काममाप्नोत्यभीप्सितम् ॥ सव्याहृतिकप्रणवाः प्राणायामास्तु षोडश ॥ २३ ॥ अपि भ्रूणहणं पासात्पुनन्त्यन्वरहः कृताः ॥ सव्याहृतीकप्रणवां गायत्रीं शिरसा सह ॥ २४ ॥ त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ॥ प्राणायाममयं कायं कल्पयित्वाय वै द्विजः ॥ २५ ॥ अहोरात्रकृतं त्यापात्तक्षणादेव मुच्यते ॥ सर्वेषामेह प्रोक्तं प्राणायामं द्विजन्मनाम् ॥ २६ ॥ ततस्त्वभ्यधिकं नास्ति गजनपरमापवनम् ॥ प्राणस्यायामं मांमं कुशाग्रेच्युतविन्दुना ॥ २७ ॥ यः कुर्यादम्भसां पानं प्राणायामं तु तत्समम् ॥ निरोधाज्जायते वायुस्तस्मादग्निश्चतित्तो जलम् ॥ २८ ॥ त्रिभिः शरीरं सकलं प्राणायामैश्च शुध्यति ॥ आर्केक्षायास्त्राक्षायाच तपस्तप्येत्स उत्तमम् ॥ २९ ॥ आत्मानं शोधयेद्यस्तु पणायामः पुनःपुनः ॥ श्रावण्यां पौर्णमास्यां तु सोपवासो जितेन्द्रियः ॥ ३० ॥ प्राणायामाश्रतं कृत्वा मुच्यते मर्वकिल्विषैः ॥ अन्तर्जले त्रिरावर्त्य गायत्रीं प्रयता जपन् ॥ ३१ ॥ मुच्यते पातकैः सर्वैर्याद न ब्रह्महा भवेत् ॥ नास्ति सत्यात्परो धर्मो नास्ति कृणसमा गतिः ॥ ३२ ॥ गायत्र्याश्च परं नास्ति दिवि चेह च पावनम् ॥ हुता च वरदा देवी सर्वकामफलप्रदा ॥ ३३ ॥ गायत्र्याः सत्तिलेहैामः मर्वपापप्रणाशनः ॥ शान्तिकामो यवैः कुर्या द्युकामो घृतेन च ॥ ३४ ॥ कर्मणां सिद्धिकामस्तु कुर्यात्तिलक्षीरैर्नरैः ॥ ब्रह्मवर्चसकामस्तु पयसा म ममाचरेत् ॥ ३५ ॥ पुत्रकामस्तथा दध्ना धान्यकामस्तु शालिभिः ॥ श्रीवृक्षसमिद्भिश्च ग्रहपीडाप्रशान्तये ॥ ३६ ॥ धनकामस्तथा विल्वैः श्रीकामः कमलैस्तथा ॥ आग्नेयकामः क्षीरार्वैः कुर्याद्दूर्वाङ्कुरैः शुभैः ॥ ३७ ॥ देशोपमृगे मप्राप्ते तदेव च विधीयते ॥ गुग्गुलोर्गुलिकामिश्च कृत्वा हेममतेन्द्रियः ॥ ३८ ॥ मोभागार्यं महद्दोप्रीति नात्र कार्या विचारणा ॥ पायमेन तथा हुत्वा विद्यां समभिगच्छति ॥ यन्तून् तु कामन लभतेमं ममाचरेत् ॥ ३९ ॥ तदेव काममाप्नोति नात्र कार्या विचारणा ॥ कृच्छ्रेण शुद्धिसुतप्याच प्राणायामशतेन च ॥ ४० ॥ अन्तर्जलेन वा जत्वा वातो नित्यमर्तन्द्विनः ॥ प्राणायामास्ततः कृत्वा विधिनेव स षोडश ॥ ४१ ॥ पूर्वान्देऽभ्युदाद्दतौ समिद्भिर्यथाविधि ॥ भैक्ष्यावक्कावकाशाशी फलमूलाशनोऽथवा ॥ ॥ ४२ ॥ क्षीरसक्तुहारी भवेद्वा विचक्षणः ॥ आहरणां यथोक्तानामकाहारं समाश्रयेत् ॥ ४३ ॥ यावत्समाप्तिर्भवति लक्षहेमस्य पार्थिव ॥