भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 268, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 268

श्रुत्वा यथावत्सततं तु देया दीपास्त्वनघ्रा विप्रसुरालयेषु ॥ ३८ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे दीपदानप्रशंसानाम षष्ट्यधिकशततमोऽध्यायः ॥ १६६ ॥ मार्कण्डेय उवाच ॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् ॥ दीपदानाल्ललितिका यदवाप पुरा नृप ॥ १ ॥ आसीच्चित्ररथो नाम विदर्भेषु महीपतिः ॥ तस्य पुत्रशतं राज्ञो जज्ञे पञ्चदशोत्तरम् ॥ २ ॥ एकैव कन्या तस्यासील्ललिता नाम नामतः ॥ सर्वलक्षणसम्पूर्णा रूपेणाप्रतिमा भुवि ॥ ३ ॥ तां ददौ काशिराजाय स पिता चारुभाषिणी ॥ शतानि तस्य भार्याणां त्रीण्यासंश्च धर्मिणः ॥ ४ ॥ तासां मध्येऽभवन्महिषी ललितास्य तदाऽभवत् ॥ विष्णोरायतने तस्याः सहस्रं राजसत्तम ॥ ५ ॥ प्रदीपानां प्रज्वलति दिवारात्रमरिन्दम ॥ तामिश्रमाश्वयुक्कृष्णं शुक्लपक्षं च कार्तिकात् ॥ ६ ॥ तस्याः प्रज्वलितं दीपकुञ्जस्थानकृतं तथा ॥ तस्मिन्काले तथा नित्यं ब्राह्मणावसथेषु सा ॥७॥ नित्यं भवति सायाह्ने दीपप्रद्योततत्परा ॥ चतुष्पथेषु रथ्यासु देवतायतनेषु च ॥ ८ ॥ चैत्यवृक्षेषु गोष्ठेषु पर्वतानां च मूर्धसु ॥ पुलिनेषु नदीनां च कूपमूलेषु यादव ॥ ९ ॥ तस्मिन्भवति साकाले दीपदानपरायणा ॥ तां सपत्न्योऽथ संद्रक्ष्य पप्रच्छुरिदमार्हताः ॥ १०॥ सपत्न्य ऊचुः ॥ सर्वान्धर्मान्परित्यज्य ललिते त्वं सदैव तु ॥ विष्णोरायतने सुभ्रूदीपदानपरायणा ॥ ११ ॥ तदेतत्कथयस्वास्माकं ललिते कौतुकं परम् ॥ मन्यामहे त्वयावश्यं दीपदानफलं श्रुतम् ॥ १२ ॥ ललितोक्तवाच ॥ नाहं मत्सरिणी भद्रा न च रागाद्दिदापिता ॥ एकपत्न्याश्रया याता भवत्यो मम मानदाः ॥ १३ ॥ अपृष्टधर्मग्रणाः शृण्वन्तु गदितं मम ॥ मयैतद्दीपदानस्य यथा वै भुज्यते फलम् ॥ १४ ॥ हरस्य दयिता भार्या शैलराजसुता वरा ॥ उमादेवेति मद्रेषु देविका या सरिद्वरा ॥ १५ ॥ नराणामनुकम्पार्थं ब्राह्मणैर्वतारिता ॥ तयोरुभयोस्तस्याः क्षेत्रं क्रोशचतुष्टयम् ॥ १६ ॥ तस्मिंस्तीर्थे तु पानीयं सर्वतीर्थप्रकल्पितम् ॥ तस्मिंस्तीर्थे मृता मर्त्याः प्राप्नुवन्ति शुभां गतिम् ॥ १७॥ अत्रामिलापिता दृष्टा देविका पापनाशिनी ॥ तन्त्यां स्नात्वा मुकुन्मर्त्यो गाणपत्यमवाप्युयाता ॥१८॥ तस्यास्तीर्थं तुसिंहारव्यं सर्वकल्मषनाशनम्॥ तुसिंहवपुषा स्नाने कृतं यत्र पुरा शुभा॥१९॥ सौवीर्वागराजस्य पुरा मन्त्र्याऽभूत्पुंगोहितः॥ तस्मिंस्तीर्थे तदा तेन विष्णोरायतनं कृतम् ॥ २० ॥ अहन्त्यहनि शुश्रापं पुष्पधूपादिलेंपनैः ॥ दीपदानादिभिर्भक्त्या चक्रे तत्र सु दै द्विजः ॥ २१ ॥ कार्तिके दीपकास्तत्र प्रदास्तंतेन चैकदा ॥ आसन्ननिर्वाणमुषिश्रो देवाच्चोग्रन्तो निशि ॥ २२ ॥ दूतायतने चासं तथाहमपि मूषिका ॥ प्रदीपं वर्तिहरणे कृत्बुद्धिर्रवरानना ॥ २३॥ गृहीता च मया वर्तिर्वृद्धेशो रुराव च ॥ नदा चाहं तदा तस्य मार्जारस्य भयात्तदा ॥ २४ ॥ वर्तिप्रान्तन्त

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण) · पृष्ठ 268, कुल 1001 में से · BharatKosha