विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 282, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० ॥११७॥ प्र० खं० अ० १८७
संग्रामे कालकाक्षं रणोत्कटम् ॥ नरवध्यं महातेजाः पञ्चानामो वधिष्यति ॥ ८॥ शरेण जाम्बूनदभूषितेन ब्रह्मास्त्रयुक्तेन रणप्रचण्डम् ॥ हत्त्वासुरं कालसमप्रभावं राजा स लोकस्य भयं निहन्ता ॥ ९ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शक्राशम्बरायणीसंवादे नवमब्रह्मपुत्रमन्वन्तरवर्णनन्नाम चतुरशीत्यधिकशततमोऽध्यायः॥ १८४॥ शाम्बरायण्युवाच ॥ धर्मपुत्रस्य तु मनोर्दशमस्य सुताञ्छृणु ॥ सुक्षेत्र उत्तमोऽजाश्च भूरिशेणश्च वीर्यवान् ॥ १ ॥ शतानिको निर्ममित्रो वृषसेनो जयद्रथः ॥ भूरिद्युम्नः सुवर्मा च धर्मपुत्रमनोः सुताः ॥ २ ॥ आपोमूर्त्तिहविष्मांश्च सुतिक्ष्णिाव्यस्तथा ॥ नामानः प्रमितश्चैव सौरभा ऋषयस्तथा ॥ ३ ॥ प्राणाख्याः शतसंख्याश्च देवतानां गणास्तथा ॥ भविता तस्य भविता शान्तिरिन्द्रः प्रतापवान् ॥ ४ ॥ दायादा वान्यथास्तस्य भविष्यन्त्यसुराश्च ये ॥ तेषां च भविता राजा बली नाम महासुरः ॥ ५ ॥ द्योतयिष्यति तं विष्णुर्गदया भीमवेगया ॥ देवासुरे तु संग्रामे देवानां हितकाम्यया ॥ ६ ॥ गदानिपाताभिहते सुरेन्द्रे महावले देववरेण तेन ॥ त्रैलोक्यमेतद्द्रविता समग्रं विनष्टदोषं सुरविप्रजुष्टम् ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शक्राशम्बरायणीसंवादे दशमधर्मपुत्रमन्वन्तरवर्णनं नाम पञ्चाशीत्यधिकशततमोऽध्यायः ॥ ॥ १८५ ॥ शाम्बरायण्युवाच ॥ रुद्रपुत्रस्य ते पुत्रान्वक्ष्याम्येकादशस्य तु ॥ धर्मनित्यान्महाभागान्त्रैलोक्यस्य परायणान् ॥ १ ॥ सर्वतुंगः सुशर्मा च सेनानीकः पुरोद्धतः ॥ क्षेमधन्वा दृढेश्चैव चादर्शः पुण्ड्रकस्तथा ॥२॥ मनुपुत्राः स्मृता ह्येते ऋषयश्च निबोध मे ॥ हविष्मांश्च वपुष्मांश्च वरुणास्थिश्च निस्तरः ॥३॥विष्णुश्चैवाभिताजाश्च ऋषयः सप्त कीर्तिताः ॥ निर्मथ्या श्चयश्चैव कामगाश्च गणाह्वयः ॥ ४ ॥ त्रिंशत्त्रिंशत्तथा देवा एकैकस्मिन्गणे स्मृताः ॥ तेषामिन्द्रो वृषो नाम भविष्यति महाबलः ॥ ५ ॥ दायादा बान्धवाश्चैव भविष्यन्ति सुराश्च ये ॥ तेषां तु भविता राजा दशग्रीवः प्रतापवान् ॥ ६ ॥ घातयिष्यति तं विष्णुर्ब्रह्मन् रूपमुपाश्रितः ॥ त्रैलोक्येण विनिर्जित्य रणे देवासुरे तदा ॥ ७ ॥ तमवध्यं दुराधर्षं पुरुषाणां स्वयम्भुवा ॥ गतं तपःप्रभावे सा विष्णुस्तं घातयिष्यति ॥ ८ ॥ नीलोत्पलाभं तपनीयवर्णं सुवृत्तजारूकुरुचं स्वरूपम् ॥ रूपं क्रियांश्चाशतरं स कृत्वा सुराधिगुमं सहसाऽद्विगन्ता ॥ ९॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शक्राशम्बरायणीसंवादे एकादशमन्वन्तरवर्णनन्नाम षडशीत्यधिकशततमोऽध्यायः ॥ १८६ ॥ शाम्बरायण्युवाच ॥ मनोस्त्वं दक्षपुत्रस्य द्वादशस्यात्मजाञ्छृणु ॥ देववानुपदेवश्च देवश्रेष्ठो विदूथः ॥ १ ॥ मित्रवान्मित्रदेवश्च मित्रसेनश्च वीर्यवान् ॥ मित्रबाहुः ॥११७॥
१ 'सपत्तिः' इति ख० । २ 'सौरभः' इति ख० । ३ 'वारि' इति ख० । ४ 'वरुणोष्णिश्च' इति ख० ।