विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 285, कुल 1001 में से
संदर्भ में पढ़ेंशेषं नागेश्वरं तथा ॥ २२ ॥ ग्रहसूर्य्यं बुधं चैव अपः खं पृथिवीं तथा ॥ वायुस्तेजश्च देवेश तथैवान्यानि वासव ॥ २३ ॥ प्रादुर्भावसह- स्राणि तस्य दृष्टानि यानि ते ॥ मन्वन्तरेष्वतीतेषु तस्यातीतान्यनेकशः ॥ २४ ॥ भविष्यन्ति भविष्येषु शतशोऽथ सहस्रशः ॥ मन्वन्तर- मथासाद्य चैकमेकं तथा तवारिहा प्रादुर्भावनिमिदं प्रोक्तं द्विगुणं द्विगुणं यतः ॥ प्रादुर्भावान्यशेषेण वासुदेवस्य चक्रिणः ॥ कः समर्थो भवद्वक्तुमिह वर्षशतैरपि ॥ २५ ॥ एकः स देवो भुवनस्य गोप्ता परः पुराणः पुरुषो महात्मा ॥ तस्यांशमात्रं भुवनं समग्रं भागसहस्रस्त- स्य न वर्णनीयाः ॥ २७ ॥ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शक्राशाम्बरायणीसंवादेऽनेकविष्णुप्रादुर्भाववर्णनं नाम नवत्यधिकशततमोऽध्यायः ॥ १९० ॥ ॥ छ ॥ ॥ शक्र उवाच ॥ ॥ केन कर्मविपाकेन स्वर्गता त्वं वरानने ॥ दीर्घकालमिहस्थासि तथा चैवाप्यनागतान् ॥ १ ॥ कथं मन्वन्तरांश्चेत्सि तन्ममाचक्ष्व पृच्छतः ॥ त्वत्समा दिवि नैवान्या काचिदस्ति चिरं- न्तनी ॥ २ ॥ एकरूपः कथं कर्ता त्वया दृष्टः सुरेश्वरौ ॥ मन्वन्तराणां जानासि भविष्याणां तथा गतिम् ॥ ३ ॥ शाम्बरायण्युवाच ॥ त्रिदिवं सप्तमः कल्पो ममायं त्रिदिवेश्वर ॥ देवदेवप्रसादेन वसन्त्या वर्ततेऽनघ ॥ ४ ॥ परार्धश्च तथा ब्राह्मयो जनलोके गतो मम ॥ एकरूपास्तथा कल्पा मया दृष्टाः सुरेश्वर ॥ ५ ॥ मन्वन्तराणां जानामि भविष्याणां तथा गतिम् ॥ मया मानुष्यमासाद्य मासनक्षत्रपूजनम् ॥ ६ ॥ प्रतिमासं कृतं विष्णोर्यावज्जीवं सुरेश्वर ॥ तेन कर्मविपाकेन त्रिदिवे वसतिश्चिरम् ॥ मयेयं समनुप्राप्ता देवदेवप्रसादजा ॥ ७ ॥ अस्मादपि महाभाग ब्रह्मलोकं नयत्युत ॥ ८ ॥ मार्कण्डेय उवाच ॥ एतदुक्त्वा महाभाग शक्रं सा शाम्बरायणी ॥ जगामादर्शनं राजंस्तत्रैव सुरपूजिता ॥ ९ ॥ मासर्क्षपूजामधिकृत्य विष्णोर्मया तवेदं कथितं समग्रम् ॥ तस्मात्प्रयत्नेन नरेन्द्रचन्द्र मासक्षपूजां प्रयतेत कर्तुम् ॥ १० ॥ श्रोतव्यमेतत्प्रयतेन वज्र पापापहं धर्मविवृ- द्धिदं च ॥ संवादमग्र्यं त्रिदशेश्वरस्य सिद्धाङ्गनायाश्च परं पवित्रम् ॥ ११ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शक्राशाम्ब- रायणीकथानकं नामैकनवत्यधिकशततमोऽध्यायः ॥ १९१ ॥ ॥ वज्र उवाच ॥ श्रुतवानस्मि धर्मज्ञ देववेश्मोपलेपने ॥ फलं गदतो ते ब्रह्मञ्छ्रो- तुमिच्छाम्यहं पुनः ॥ १ ॥ लेपनादपि यत्स्वर्गफलं च यथा भवेत् ॥ तन्मे तथ्यं त्वमाचक्ष्व सर्वज्ञोऽसि भृगूत्तम ॥ २ ॥ मार्कण्डेय उवाच ॥ स्तोतुर्लेपकृतस्तस्य लेपनादपि यादृशी ॥ तथा बहुफला प्रोक्ता तां कुरुष्व यदीच्छसि ॥ ३ ॥ ये स्तुवन्ति महादेवं शङ्खचक्रगदाधरम् ॥ तेषां न
१ 'द्विगुणं तु यथार्थतः' इति ख० ।