विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 286, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० ॥१११॥
प्र० खं० अ० ११४
दुर्लभं किञ्चिदिह लोके परत्र च ॥ ४ ॥ वासुदेवं स्तुवन्मर्त्यः सर्वपापं व्यपोहति ॥ स्वर्गं चानन्यमाप्नोति नात्र कार्या विचारणा ॥ ५ ॥ धर्मार्थी
प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् ॥ कामानाप्नुयात्कामी प्रजार्थी प्राप्नुयात्प्रजाः ॥ ६ ॥ रोगात्तौ मुच्यते रोगाद्वद्धो मुच्येत बन्धनात् ॥
भयान्मुच्येत भीतश्च मुच्येदापन्न आपदः ॥ ७ ॥ दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् ॥ स्तुवन्मनुजशार्दूल नात्र कार्या विचारणा ॥ ८ ॥
तस्मात्सर्वप्रयत्नेन दिव्यैर्ऋषिकृतैः स्तवैः ॥ स्तूयान्नरेन्द्र सततं देवदेवं शुभमतिः ॥ ९ ॥ कमलपत्रशुभामलेलोचनं हरिमग्र्यमचिन्त्यपराक्रमम् ॥
शरणमेत्य महाभयपीडिता भुवि भवन्ति नरा भयवर्जिताः ॥ १० ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे स्तुतिमाहात्म्य-
वर्णनो नाम द्विनवत्यधिकशततमोऽध्यायः ॥ १९२ ॥ ॥ मार्कण्डेय उवाच ॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् ॥ स्तुतेन देवदेवेन
गजेन्द्रस्य तु यत्कृतम् ॥ १ ॥ पुरा वज्र महाबाहू गन्धर्वौ यौ हाहा हूहू ॥ गीतिः परस्परं स्पर्धां चक्रतुस्तौ परन्तप ॥ २ ॥ स्पर्धमानौ परं
राजेन्द्रेकतरौ परस्परम् ॥ आवयोः प्राश्निकः साधुः कोऽस्मिंल्लोके भविष्यति ॥ ३ ॥ तयोरथाहुर्गन्धर्वा देवलोकेऽयं भविष्यति ॥ एवमुक्तौ
ततस्तौ तु नेच्छंतौ देवलं मुनिम् ॥ ४ ॥ नायं जानाति गीतस्य विशेषमिति मोहितौ ॥ तौ शशाप महाक्रुद्धो देवलः सुमहा-
तपाः ॥ ५ ॥ अवज्ञां जानतो यस्माद्भवद्भ्यां मम वै कृता ॥ तस्माच्छापं प्रदास्यामि युवयोर्देवगायनौ ॥ ६ ॥ हाहा भविष्यति करी
हूहू नक्रो भविष्यति ॥ नक्रं च देवदेवेशो गजाकर्षणतत्परम् ॥ ७ ॥ नागमन्तं तु चक्रेण द्विधा कर्ता तदा द्रुतम् ॥
उभौ स्वं लप्स्यथो रूपं शापस्यान्ते तु गायनौ ॥ ८ ॥ शापेन तौ तत्र ततस्तु जातौ मया यथोक्तौ तव गजसिंह ॥
गजस्तु तेनापि जनार्दनेन सम्मोचितो तौ द्विजवर्यशापात् ॥ ९ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे गन्धर्वयोर्गजनक्र-
करणं नाम त्रिनवत्यधिकशततमोऽध्यायः ॥ १९३ ॥ ॥ वज्र उवाच ॥ ॥ भगवञ्छ्रोतुमिच्छामि गजेन्द्रस्य विमोक्षणम् ॥
विस्तरेण महाभाग शापान्नक्रस्य चोभयोः ॥ १ ॥ मार्कण्डेय उवाच ॥ अस्त्यस्मिञ्छृङ्गवान्नाम जम्बूद्वीपे कुलाचलः ॥ महाधातुसुसन्नद्धैर्युतः
शृङ्गैर्महद्भिः ॥ २ ॥ यस्य शृङ्गत्रयं मध्यं भाति गगन्निविशतत् ॥ ब्रह्मार्कसोमनिलयं मनोहारि दिवं गतम् ॥ ३ ॥ तेषामथैकं सौवर्णमपरं
राजतं महत् ॥ सर्वरत्नमयं चैकं मध्यमं ब्रह्मणः क्षयम् ॥ ४ ॥ काञ्चनं सूर्यनिलयं राजतं शशिनः क्षयम् ॥ त्रिकूटं शैलराजानं रत्नपङ्कद्रुमं
१ 'एवमुक्तौ गतौ तौ तु गच्छेताम्' इति क० 'एवमुक्तौ मतौ तौ तु गच्छताम्' इति छ०। २ 'गानवन्तौ' इति क०। ३ 'स्थानम्' इति ख०।