विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 289, कुल 1001 में से
संदर्भ में पढ़ेंगन्धर्वतां प्राप्तो यः कृष्णेन निपातितः ॥ ५२ ॥ तस्यापि देववपुतः शापद्देषोऽभवत्पुरा ॥ प्रीतिंमाख्यायते विष्णुः सद्यः संसारसागरात् ॥ ॥ ५३ ॥ ऊर्द्धोऽपि निध्नन्द्वत्वमरातीनां प्रयच्छति ॥ तौ च स्वं स्वं वपुः प्राप्य प्रणिपत्य जनार्दनम् ॥ ५४ ॥ गन्धर्वाधिपती शीघ्रं परां निर्वृतिमागत्तौ ॥ इदं चैव महाबाहो पुरा देवोऽभ्यभाषत ॥ ५५ ॥ दृष्ट्वा मुक्तौ गजग्राहौ भगवान्मधुसूदनः ॥ योऽमंग्राहेणरागरजं च मां चैव प्रणिधानवान् ॥ ५६ स्मारिष्यति सरंश्रेष्ठं युक्योमोक्षं तथा ॥ गुल्मं कीचकवेणूनामममं शैलवरं तथा ॥ ५७ ॥ अश्वत्थं भास्करं गङ्गां नैमिषारण्यमेव च ॥ प्रयागं ब्रह्मतीर्थं च दण्डकारण्यमेव च ॥ ५८ ॥ संस्मरिष्यन्ति ये मर्त्या सम्यक्छ्रोष्यन्ति चापि ये ॥ न ते दुःस्वप्नपापस्य भोक्तारो मत्परिग्रहात् ॥ ५९ ॥ सर्वपापविमोक्ष्यान्ति कल्याणानां च भागिनः ॥ भविष्यन्ति तथा पुण्यां गतिं यास्यन्ति मानवाः ॥ ६० ॥ दुःस्वप्नं च नृणां तेषां सुस्वप्नत्वं प्रयास्यति ॥ कौर्म्यं मात्स्यं च वाराहं वामनं तार्क्ष्यमेव च ॥ ६१ ॥ नारसिंहं तथा रूपं सृष्टिकल्याणकारकम् ॥ एतानि प्रातरुत्थाय संस्मरिष्यन्ति ये नराः ॥ ६२ ॥ सर्वपापविशुद्धास्ते यास्यन्ति परमां गतिम् ॥ मार्कण्डेय उवाच ॥ एवमुक्त्वा तु राजेन्द्र देवदेवो जनार्दनः ॥ ६३ ॥ अस्पृशद्गजगन्धर्वं ग्राहगन्धर्वमेव च ॥ तेन स्पृष्टौ तु तौ सद्यो दिव्यमाल्याम्बरान्वितौ ॥ ६४ ॥ विमानतेजस्विमते प्राते जगन्मूर्तिद्विशालयम् ॥ ६५ ॥ तत्र देवपतिः कृष्णो मोक्षयित्वा गजोत्तमम् ॥ ६६ ॥ ऋषिभिस्तूयमानस्तु गुह्यैर्वेदपदाक्षरैः ॥ गतः स भगवान्विष्णुर्दुविज्ञेयगतिर्विभुः ॥ ६६ ॥ गजेन्द्रमोक्षणं दृष्ट्वा सर्वे सेन्द्रापुरोगमाः ॥ ब्राह्मणानग्रतः कृत्वा सर्वं प्राञ्जलयोऽभवन् ॥ ६७ ॥ गजेन्द्रमोक्षणं पुण्यं सर्वपापविमोचनम् ॥ श्रावयन्प्रातरुत्थाय सर्वपापैः प्रमुच्यते ॥ ६८ ॥ श्रद्धया हि यदुश्रेष्ठ स्मृतेन कथितेन च ॥ गजेन्द्र- मोक्षणेनेव दीर्घमायुश्चावाप्नुयात् ॥ ६९ ॥ मया ते कथितं दिव्यं पवित्रं पापनाशनम् ॥ ( १कीर्तयस्व महाबाहो महादुःखप्रनाशनम् ॥ ७० ॥ ) कीर्त्यमानं च विप्रेभ्यः शृणु भक्त्या यथोदितम् ॥७१॥ वरं वरेण्यं वरदनामृतं नारायणं पद्मनिधिं सुरेशम् ॥ तं देवगुह्यं पुरुषं पुराणं वरन्दिदं ब्रह्मविद्वां वरिष्ठाः ॥ ७२ ॥ एतत्पुण्यं यदुश्रेष्ठ नराणां पापकर्मणाम् ॥ दुःस्वप्नदर्शने घोरे श्रुत्वा पापात्प्रमुच्यते ॥ ७३ ॥ भक्तिमान्पुण्डरीकाक्षं गजो दुःखद्विमोचितः ॥ तथा त्वमपि राजेन्द्र प्रपद्य शरणं हरिम् ॥ ७४ ॥ विमुक्तः सर्वपापेभ्यः प्राप्स्यसे परमां गतिम् ॥७५॥ इति श्रीविष्णुध- र्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे गजेन्द्रमोक्षणं नाम चतुर्नवत्यधिकशततमोऽध्यायः ॥ १९४ ॥ ॥ छ ॥ ॥ वज्र उवाच ॥ भगवन्केो
१ कोष्ठान्तर्गतः पाठो नास्ति पुस्तके ।