विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 306, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० ॥१२॥
प्र० खं० अ० २०७
शक्तस्त्वं सर्वतीर्थानामाह्वाने द्विजपुङ्गव ॥ इहाद्यैव समायान्तु सर्वतीर्थानि तेऽनघ ॥ २९ ॥ तेजसा च त्वदीयेन तथास्माकं च भार्गव ॥ घटो
दर उवाच ॥ एवमुक्तैः सुरैः सर्वैस्तीर्थानि सरितस्तथा ॥ ३० ॥ सरांसि च समुद्रांश्च तत्राजहुर्मुनीश्विधु ॥ काम्येन महता राजन्योगेन परमेण
च ॥ ३१ ॥ ज्ञात्वा च तेषां सांन्निध्यं तत्र स्नातो द्विजोत्तमः ॥ तर्पणं च तथा कृत्वा सुराणां पितृभिः सह ॥ ३२ ॥ उवाच देवांस्तत्रस्थानिदं
वचनमर्थवत् ॥ दधीच उवाच ॥ अद्य प्रभृति मासान्ते भवद्भिः सततं सुराः ॥ ३३ ॥ सांन्निध्यमिह कर्तव्यं तीर्थैश्चैव यथागतैः ॥ घटोदर
उवाच ॥ एवमुक्तैस्तथेत्युक्तो देवैस्तीर्थेश्च स त्वथ ॥ ३४ ॥ त्यक्त्वा देहं दिवं यातो दधीचः स्वेन तेजसा ॥ विश्वकर्मा च तस्यास्थ्नां भार्गवञ्चमथा
करोत् ॥ ३५ ॥ आयुधानि च देवानां तथैव च पृथक्पृथक् ॥ तेन वज्रेण महता वृत्रं हत्वा महासुरम् ॥ ३६ ॥ जघान दैत्यमुख्यानां नर्वनि
र्नवतिस्तथा ॥ ततः प्रभृति मासान्ते नित्यमेव रघूद्वह ॥ ३७ ॥ सांन्निध्यमिह तीर्थानां देवतानां च कल्पितम् ॥ मार्कण्डेय उवाच ॥
एतच्छ्रुत्वा महातेजा दत्त्वा दानानि राघवः ॥ ३८ ॥ ययौ सैन्येन महता भरताश्रमदण्डकम् ॥ तत्र विष्णुपदं प्राप्य पूजयित्वा च राघवः ॥३९॥
आससाद नदीं गौरीं पुण्यां पापभयापहाम् ॥ विश्वामित्राज्ञया रक्षः प्रविवेश पुरा नृपम् ॥ ४० ॥ कशाहतेन मार्गेऽयं शतं भूपाल शक्तिना ॥
सौदासं स प्रविष्टस्तु भक्षयामास शक्तिनम् ॥ ४१ ॥ ततः पुत्रशतं राजन्नहिंसद्दृष्टसत्त्वरः ॥ हते पुत्रशते दुःखार्ताऽसिष्टो भगवानृषिः ॥ ४२ ॥
विवेश निम्नां गौरीं प्राणत्यागचिकीर्षया ॥ विब्रूय्य भूप चातस्य विद्दुता सा तदाभवत् ॥ ४३ ॥ ततः प्रभृति लोकेऽस्मिञ्छतुहुद्रिति
शब्दिता ॥ सर्वपापप्रशमनी सर्वकल्याणकारिणी ॥४४॥स्नातानां च तथा गजन्दशुधेयुफलप्रदा ॥ तां समासाद्य तत्रापि दत्त्वा दानं स राघवः॥४५॥
उत्तीर्य तां ययौ तत्र सा चान्या यत्र निम्नगा ॥ यस्यां स्नात्वा विशुद्ध्येत सर्वपापैर्भयेन्नरः ॥४६॥ यस्यां स्नानादवाप्नोति दशगोदानजं फलम् ॥
आपाहं च तथा कृत्वा गोसहस्रफलं लभेत् ॥ ४७ ॥ गॉर्गोतायाडिनिर्मुको वसिष्ठो भगवानृषिः ॥ पाशवन्ध्यभगंव्यां पपात महसा
नृप ॥४८॥ विपाशंश्च तथा कृत्वा तीरं विसजितः ॥ शक्तिपुत्रं ततो दृष्ट्वा वसिष्ठोऽपि पराशरम् ॥ ४९ ॥ अस्मिन् सन्तानमित्युक्त्वा
मरणाद्विनिवर्तत ॥ सा चान्या च तथा लोके विपाशेत्यभिधीयते ॥ ५० ॥ विपाशां च समुत्तीर्णे भरते धर्मवत्सले ॥ विवेश
कटकं तत्य कुणिदेशे महोदयः ॥ ५१ ॥ श्वेतौ वसुधानञ्च कुतूलाधिपतिर्जयः ॥ दशैकस्तथा गजा गोवाशन इति श्रुतः ॥ ५२ ॥
इरावतीं शीघ्रगमां भरतोऽपि तदा ययौ ॥ दर्शधेनुफलं यत्र स्नात एव समश्नुते ॥ ५३ ॥ षष्टितीर्थसहस्राणि वहत्येका इरावती ॥
॥१२३॥