विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 305, कुल 1001 में से
संदर्भ में पढ़ेंमालां मनोहराम् ॥ ४ ॥ यत्र क्वचन नद्यां हि कृत्वा श्राद्धन्नराधिप ॥ अक्षय्यं फलमाप्नोति नाकपृष्ठे च मोदते ॥ ५ ॥ यत्र कृष्णचतुर्दश्यां स्नातः सम्पूज्य भानुजं ॥ मुच्यते पातकैः सर्वैर्नाकलोकं स गच्छति ॥ ६ ॥ अनर्काभ्युदिते काले माघकृष्णचतुर्दशीम् ॥ गङ्गायां स्नातस्तु सम्पूज्य धर्मराजं तिलाम्भसा ॥ ७ ॥ न दुर्गतिमवाप्नोति कुलं चैव समुद्धरेत् ॥ यत्र क्वचन नद्यां हि माघकृष्णचतुर्दशीम् ॥ ८ ॥ नादेयाम्भासि सर्वस्मिन्स्नातः पापौघैर्विमुच्यते ॥ यमुना तु विशेषेण यमस्य भगिनीति सा ॥ ९ ॥ स्नातश्च यामुने तोये सन्तर्प्य पितृदेवताः ॥ न दुर्गतिमवाप्नोति नाकलोकं च गच्छति ॥ १० ॥ तां समासाद्य यमुनां यथा गङ्गाजलं तथा ॥ विदधे भरतस्तद्वत्तार महानदीम् ॥ ११ ॥ समुत्तीर्णस्य यमुनां भरतस्य महात्मनः ॥ विवेश कटकं राजा मत्स्यानां सुरथस्तदा ॥ १२ ॥ वीरसेनश्च साल्वानां शिबीनां च प्रभद्रकः ॥ स तैर्नृपतिभिः सार्धं कुरुक्षेत्रमुपाययौ ॥ १३ ॥ यदर्थमेषा चरति लोके गाथा पुरातनी ॥ १ पांसवोऽपि कुरुक्षेत्रे वायुना सम्मीरिताः ॥ १४ ॥ अपि दुष्कृतकर्माणो नयन्ति परमां गतिम् ॥ समन्तपञ्चके पुण्ये वै मृता मनुजेश्वर ॥ १५ ॥ ते सर्वे नाकमासाद्य राजन्ते दिवि देववत् ॥ सन्निहत्यात्र राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् ॥ १६ ॥ तीर्थसन्निधानादेव सन्निहितिरिति विश्रुतम् ॥ पृथिव्यां यानि तीर्थानि आसमुद्रसरांसि च ॥ १७ ॥ मासान्ते सततं तत्र नित्यमायान्ति यादव ॥ तत्र श्राद्धं तु यः कुर्याद्राहुग्रस्ते दिवाकरे ॥ १८ ॥ अश्वमेधशतस्यैव फलं विन्दति मानवः ॥ भरतस्तु समासाद्य तत्रोवास सुखी तदा ॥ १९ ॥ पप्रच्छ ब्राह्मणांस्तत्र तीर्थसंशीतिकारणम् ॥ पृष्टस्तु भरतेनाथ ब्राह्मणस्तु घटोदरः ॥ २० ॥ उवाच भरतं तत्र कथां पापप्रणाशिनीम् ॥ घटोदर उवाच ॥ शक्रो वृत्रवधाक्रान्ते त्रैलोक्ये दैत्यसाङ्गते ॥ २१ ॥ सन्त्रस्ताः सुराः सर्वे विष्णुं शरणमाययुः ॥ तानुवाच हरिर्देवं २ पश्यध्वं ह्यात्मसम्भवः ॥ २२ ॥ भार्गवो ब्राह्मणः श्रीमान्दधीच इति विश्रुतः ॥ अस्थिभिः क्रियतां तस्य देवेन्द्रस्य वरायुधम् ॥ २३ ॥ प्रविश्य देवांस्तत्स्नेहं हन्ता वृत्रमसंशयम् ॥ एवमुक्ताः सुराः सर्वे दधीच्याश्रमं ययुः ॥ २४ ॥ ददृशुश्च महाभागं दधीचं तपसां निधिम् ॥ पूजयित्वा महाभागं तमूचुः संहताः सुराः ॥ २५ ॥ त्वदस्थिभिः करिष्यामो वज्रं दैत्यनिबर्हणम् ॥ अन्यानि च तथास्त्राणि सुरकार्यप्रसिद्धये ॥ २६ ॥ तत्र त्वं देवकार्यार्थं सन्यासं द्विज रोचय ॥ एवमुक्तो दधीचस्तु प्रत्युवाच स तान्सुरान् ॥ २७ ॥ तीर्थयात्रा प्रतिज्ञाता सर्वतीर्थेषु वै मया ॥ तां तु कृत्वा करिष्यामि देहन्यासं सुरोत्तमाः ॥ २८ ॥ देवा ऊचुः ॥
१ 'नीलनीलम्' इति क० । २ 'केशवम्' इति ख० ।