विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 304, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० ॥ १२८॥
प्र० खं० अ० २०७ ॥ १२८॥
बहुविधा नृप ॥ १९ ॥ शशाङ्कराजेन दृष्टा स्वसरसीं जनाः ॥ आक्रम्यमाणा सुप्रणीशीर्षे निद्रयान्विताः ॥ २० ॥ शशाङ्कोऽप्यसंभृतबलं प्लवनेनोपमम् ॥ निबोधयामास तथा दिवाकरकरोत्करम् ॥ २१ ॥ चक्रुषुस्ते तदा नावः कर्णधारा यथा स्वकाः ॥ बलं च सकलं पारं तारयाञ्चक्रिरे तदा ॥ २२ ॥ नावस्तां किङ्किणीजालैः पताकाभिश्च राजिताः ॥ निन्युर्बलं परं पारं कर्णधारसिफाहताः ॥ २३ ॥ भाण्डैः पूर्णास्तथा काश्चित्काश्चित्पूर्णा जनेन च ॥ तुरङ्गैश्चस्तथा पूर्णा गोखरैरौष्ट्रैस्तथा पराः ॥ २४ ॥ काश्चित्सकुञ्जरा नावो ययुः पारं तदा परम् ॥ तथा पद्मदलाक्षाणां स्त्रीणां नावश्च पूरिताः ॥ २५ ॥ विमानाभाः प्रदृश्यन्ते गङ्गाम्भसि नरेश्वर ॥ कर्णधारवरोपेता दण्डिभिः पुरुषैर्वृताः ॥ २६ ॥ लोकसन्तारणार्थाय भूयो जग्मुस्तथा पराः ॥ चर्मनोभिस्तथा केचित्प्लवैः केचित्सुयन्त्रितैः ॥ २७ ॥ जग्मुरादाय भाण्डानि दृतिभिश्च तथा क्वचित् ॥ नरैर्दतिसमारूढैः क्षुप्यमाणास्तरङ्गमाः ॥ २८ ॥ जग्मुः केचित्परं पारं बाहुभिर्मनुजेश्वर ॥ जग्मुरन्ये परं पारं संगृहीताश्च रश्मिभिः ॥ २९ ॥ नौस्थैरेव परैः शीघ्रं तृणान्युत्पाद्यबाहुभिः ॥ महिषाणां च शृङ्गानि गवां च यदुनन्दन ॥ ३० ॥ जग्मुर्गोपालकैः सार्थं परं पारं च बाहुभिः ॥ उष्ट्राणांमंसधानि तार्यमाणानि बाहुभिः ॥ ३१ ॥ भूयोभूयो न्यवर्त्तन्त तत्र गावो महानभूत् ॥ तीर्णस्य तार्यमाणस्य नरस्य यदुसत्तम ॥ ३२ ॥ आसीत्कोलाहलो घोरस्तीरयोरुभयोरपि ॥ भरतोऽपि महातेजाः स्नातो हुतहुताशनः ॥ ३३ ॥ मत्स्यरूपधरं विष्णुं पटे सम्पूज्य यादव ॥ स्वस्तिवाच्यांस्ततो विप्रान्गोभिर्वस्त्रैर्धनेन च ॥ ३४ ॥ सम्पूज्य जाह्नवीं देवीं गन्धमाल्यानुलेपनैः ॥ सम्पूजयामास तदा भूय एव द्विजोत्तमान् ॥ ३५ ॥ गोभिरथैस्तथा निष्कैर्र्वस्त्रैर्गन्धेस्तथैव च ॥ आरूरोह तदा नावं पाण्डुकम्बलसंवृताम् ॥३६॥ किङ्किणीजालविततां पताकाध्वजमालिनीम् ॥ भरते तु समाहूढे कर्णधारसिफाहता ॥ ३७ ॥ जगाम सा परं पारं नौविमानापना नृप ॥ सम्प्राप्य स परं पारं सम्पूर्णकटकस्तदा ॥ उवास गङ्गामंतरेण दिवि देवेश्वरो यथा ॥ ३८ ॥ देवीं महादेवजटातटस्थां शशाङ्कसंसर्गविवृद्धशीताम् ॥ उत्तीर्य राजा भरतः स सेनां निन्ये क्षयं शत्रुसमग्रभावः ॥ ३९ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे गङ्गावतरेणवर्णनो नाम पञ्चोत्तरद्विशततमोऽध्यायः ॥ २०६ ॥
॥ मार्कण्डेय उवाच ॥ भरते तु समुत्तीर्णे गङ्गां गगनमेखलाम् ॥ विवेश कटकं तस्य तमन्यः कौरवो नृप ॥ १ ॥ बलेन चतुरङ्गेण समुद्भास संयुतः ॥ ईश्वरश्च किरातानां दमनो नाम पार्थिवः ॥ २ ॥ गन्धिनां बहुसाहस्रैर्बलैर्युक्तो व्यदृश्यत ॥ यथार्हं पूजयित्वा तं भरतो धर्मवत्सलः ॥ ३॥ आसाद्यार्कतनयां यमुनां पापनाशिनीम् ॥ यमस्य भगिनीं पुण्यां नील-