विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 317, कुल 1001 में से
संदर्भ में पढ़ेंसादस्माकं केवलं लघुता भवेत् ॥ मानुषैः संगमाश्रैव विग्रहश्च पुनःपुनः ॥ १३ ॥ न कृषिर्न च वाणिज्यं जनोऽस्माकं प्रयोजनम् ॥ ते वयं सजनां भूमिं त्यक्त्वा यामः शिलोच्चयम् ॥ १४ ॥ अपेक्ष्य देशकालौ च संधिं विग्रहमेव च ॥ फलं च बुद्ध्वा यः कुर्यात्स राजन्पण्डितो नरः ॥ १५ ॥ भूमिर्हिरण्यं मित्रं च त्रिविधं विग्रहास्पदम् ॥ स्वयंग्राहो यदस्माकं मेरुः कनकपर्वतः ॥ ॥ १६ ॥ हिरण्येन तदा कार्यं न नोऽस्ति रिपुसूदन ॥ कृषिर्नास्ति यतोऽस्माकं ततो भूमिर्नप्रयोजना ॥ १७ ॥ तस्माद्रत्नमन्विच्छ मित्रं साम्ना नराधिप ॥ मित्रं रघुकुले कृत्वा निवासस्तु हिमाचले ॥ १८ ॥ अदृश्यं देवसैन्यानां सुखं विरमवाप्नुहि ॥ न मानुषोऽयमित्येवं भर्ता मन्तुमर्हसि ॥ १९ ॥ दुष्टानां निग्रहार्थाय चतुर्मूर्तिर्जगार्द्दनः ॥ जातो रघुकुले राजन्पुत्रो दशरथस्य तु ॥२०॥ अंशेन वासुदेवस्य जातो रामो महा- यशाः ॥ संकर्षणस्य चांशेन लक्ष्मणः परवीरहा ॥ २१ ॥ प्रद्युम्नस्य तथांशेन भरतो धर्मवत्सलः ॥ अनिरुद्धस्य चांशेन शत्रुघ्नः सुमहाबलः ॥ ॥ २२ ॥ तत्र राघवासंहेन रामेणाक्लिष्टकर्मणा ॥ रावणोऽनिहतः संख्ये सर्वसत्वभयङ्करः ॥ २३ ॥ मेघनादो निरस्तश्च संग्रामे लक्ष्मणेन च ॥ शत्रुघ्नेन निरस्तश्च लवणो दुष्टराक्षसः ॥ २४ ॥ मन्ये विशिष्टभावत्वं भरतस्य महात्मनः ॥ येन माली हतः पूर्वं लङ्कावासी स राक्षसः ॥ २५ ॥ स एष भरतो विष्णुरस्ति ते तु रणेङ्गमः ॥२६॥ हिते स्थितो यः सततं सुराणां दैत्येन्द्रनाशाय निविष्टबुद्धिः ॥ तेनाप्रमेयेण जनार्दनेन समं व्रजस्वाशु महातुभाव ॥ २७ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे नाडायनवाक्ये शैलूषं प्रति नाडायनानुशासनवर्णनो नाम द्वादशो- त्तरद्विशततमोऽध्यायः ॥ २१२ ॥ ॥ शैलूष उवाच ॥ सुमाली विष्णुना पूर्वं कथं युद्धे निपातितः ॥ एतन्मे संशयं छिन्धि श्रूयते स महा- बलः ॥ १ ॥ नाडायन उवाच ॥ कथये राजशार्दूल पुरागस्त्येन धीमता ॥ रामाय कथिता वीर तां मे निगदतः शृणु ॥२॥ पुरा विनिहते वृत्रे दैत्या विगतनायकाः ॥ अण्डजं सागरं कृत्वा रात्रौ निघ्नन्ति वै प्रजाः ॥ ३ ॥ सुरैः सर्वैः समागम्य तथाऽहं न परेर्विधम् ॥ समुद्रोदकपानाय अगस्त्यश्चोदितस्तदा ॥ ४ ॥ देवकर्मप्रसिद्धस्तदगस्त्यमुनिर्नृप ॥ पीत्वा चकार राजेन्द्र निस्तोयं सलिलाशयम् ॥ ५ ॥ देवैश्च निहिता दैत्या निस्तोये सलिलाशये ॥ ततः कदाचिद्विन्ध्यस्तु जगादार्कनिशाकरौ ॥ ६ ॥ मेरुं त्यक्त्वा महाभागौ मम यात प्रदक्षिणम् ॥ ऊचतुस्तौ तदा विन्ध्यमावयोस्तु वशं गिरे ॥ ७ ॥ तेन पन्थाः कृतोऽस्माकं येनेदं निर्मितं जगत् ॥ एतच्छ्रुत्वा तु विन्ध्यस्तु तपस्तप्त्वा पितामहात् ॥ ८ ॥ इषु- पातमथोच्छ्रायं प्रत्यहं समवातवान् ॥ ततः कतिपयहानेन दिशमावृत्य दक्षिणाम् ॥ ९ ॥ आवृत्य तस्थौ पन्थानं दिवाकरनिशाभृतोः ॥ ततोऽन्ध-