विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 319, कुल 1001 में से
संदर्भ में पढ़ेंमभिप्रेक्ष्य पूजयामास राघवः ॥ ३६ ॥ पाद्यार्घ्याचमनीयैः सर्वै राज्यनिवेदनैः ॥ संपूजितस्तदा तेन तत्र चक्रे कथाः शुभाः ॥ ३७ ॥ ततः कथान्ते कांचित्कथां पप्रच्छ तु राघवः ॥ विष्णुना मालिनिधनं तेनोक्तं तस्य तच्छृणु ॥ ३८ ॥ यदुक्तवान्राघवाय अगस्त्यश्चन्द्रार्कवह्निप्रतिमप्रभावः ॥ रक्षोगणेशस्य वधं सुघोरं मुनिर्महात्मा तदिदं निबोध ॥ ३९ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे नाडायनवाक्ये शैलूषं प्रति नाडायनोक्तागस्त्यमाहात्म्यवर्णनो नाम त्रयोदशोत्तरद्विशततमोऽध्यायः ॥ २१३ ॥
अगस्त्य उवाच ॥ माली सुमाली राजेन्द्र माल्यवांश्च रणोत्कटः ॥ लङ्कादुर्गमथासाद्य चित्रसृष्टुः परस्परम् ॥ १ ॥ माली सुमाली दुर्वृत्तौ पीडयन्तौ च देवताः ॥ वार्यमाणावपि सदा तेन माल्यवता नृप ॥ २ ॥ तयोर्भीतः सुरैर्ब्रह्मा ज्ञापितः संप्रयोजनम् ॥ ब्रह्मणा सहितैर्गत्वा ज्ञापितस्त्रिपुरान्तकः ॥ ३ ॥ ब्रह्मेशसहिता देवा विष्णुं शरणमीयुषुः ॥ जग्मुर्लवणतोयस्थं विज्ञापयितुमच्युतम् ॥ ४ ॥ ददृशुश्च सुरैर्जुष्टं समुद्रं पतिमम्भसाम् ॥ ऊर्मिवर्गैः प्रनृत्यद्भिर्वल्गन्तमिव वायुना ॥ ५ ॥ हसन्तमिव फेनौघैः स्खलन्तं कन्दरासु च ॥ अपारमिव गर्जन्तं नानायादोगणावृतम् ॥ ६ ॥ वीचिहस्तैः प्रचलितैर्गाहमानमिवाऽम्बरम् ॥ फेनकीर्णाश्च शैलाश्च समुच्छ्रिताः ॥ ७ ॥ ऊर्मयश्चास्य दृश्यन्ते चलन्त इव पर्वताः ॥ तिमिङ्गिलाः कच्छपाश्च तथा तिमितिमिङ्गिलाः ॥ ८ ॥ मकराश्चापि दृश्यन्ते जले मग्ना इवाद्रयः ॥ शङ्खानां च सहस्राणि मग्नान्यप्सु समन्ततः ॥ ९ ॥ दृश्यन्ते स्म यथा रात्रौ तारास्तन्वनभ्रसंवृताः ॥ क्वचित्सुप्तः क्वचिद्गर्जन्क्वचिद्घूर्णन्क्वचित्प्लवन् ॥ १० ॥ क्षीबोपमं तं ददृशुः समुद्रं त्रिदशाधिपाः ॥ क्वचिज्झाषावलिसितैर्दैत्यैः क्वचिद्दैत्यारिणा तथा ॥ ११ ॥ क्वचिच्च भुजंगैर्भीमैर्नागाभोगैश्च संयुतम् ॥ विष्णोर्विराड्वपुषा विश्वाभितजलाविलम् ॥ १२ ॥ अनासादितबाधं च वर्षाणां शतकोटिभिः ॥ तेन देवादिदेवेन विष्णुना प्रभविष्णुना ॥ १३ ॥ नित्यमन्तरसंस्थेन निर्मलीकृतविग्रहम् ॥ शक्रवज्रभयत्रायमाणशैलशताकुलम् ॥ १४ ॥ विद्रुमाभ्रप्रवालौघसहस्राकारविद्रुमम् ॥ पूर्णचन्द्रकलङ्कस्य क्षालनेनेव चोद्गतैः ॥ १५ ॥ खमाक्रमद्भिः कल्लोलैः पौर्णमासीषु यः सदा ॥ असंख्यातैस्तरङ्गौघैः संक्रान्तशशिमण्डलम् ॥ १६ ॥ हसन्तमिवान्तरिक्षस्य श्रियमेवेन्दुधारिणः ॥ दिग्भागाप्लवनकालेषु युक्तं चन्दनवारिणा ॥ सुप्यते च यथा यत्र सततं दानवारिणा ॥ १७ ॥ तमन्तरिक्षप्रतिमं विशाललोलोर्मिमालाव्याकुलितदिग्विभागम् ॥ समुद्रमासाद्य दिवौकसस्ते ततस्थुरुग्रं तपसोऽप्रधृष्याः ॥ १८ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्ये समुद्रवर्णनो नाम चतुर्दशोत्तरद्विशततमोऽध्यायः ॥ २१४ ॥
अगस्त्य उवाच ॥ तपसा तोषितो देवैर्देवदेवो जनार्दनः ॥ महोदवासं संत्यज्य सुराणां दर्शनं ददौ ॥ १ ॥ ते च