भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 322, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 322

वि० ध० ॥१३७॥ प्र० खं० अ० २१७

रभ्युत्करैर्वरुचिर्भूषणैर्विभूषणानां प्रदीयमानं कनकादिचित्रम् ॥ बलं ययौ तद्विबुधोत्तमानां नारायणेनाऽप्रतिमेन गुप्तम् ॥ ५६ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे देवप्रयाणवर्णनो नाम पञ्चदशोत्तरद्विशततमोऽध्यायः॥२१५॥ अगस्त्य उवाच ॥ देवतानां समुद्योगं श्रुत्वा मालिसुमालिनी ॥ चक्रतुः पृतनां घोरां त्रिदशैर्युद्धकाङ्क्षिणौ ॥ १ ॥ तौ क्रुद्धौ भ्रातरौ श्रीमान्माल्यवान्वाक्यमब्रवीत् ॥ आश्रयस्त्रिदशेन्द्राणां सर्वात्मा मधुसूदनः ॥ २ ॥ तेन युद्धं न कर्तव्यं स तु पूज्यो जगत्पतिः ॥ अग्रे तु प्रणिपातेन तं यजामो जगत्पतिम् ॥ ३ ॥ प्रणिपातप्रसन्नो हि कामन्दास्यति केशवः ॥ विष्णुर्हि मलिनं चित्तंऽस्माकं नृप दुर्जयः ॥ ४॥ जीवेम सुचिरं कालं स्थिता देवस्य शासने ॥ प्रसीद राज्यञ्च युद्धं व्रज देवेन विष्णुना ॥५॥ यक्षाणां राक्षसानां च कुरु श्रेयस्तथात्मनः ॥ एतदुक्तं हितं भ्रात्रा सुरुचं न च तस्य तत् ॥ ६ ॥ महता च स सैन्येन प्रययौ येन केशवः ॥ तमन्वयौ महातेजा सुमाली राक्षसाधिपः ॥७॥ पितृतुल्यश्च साधूनां ज्येष्ठभ्राता गुरुर्मतः॥ आदौ वाच्यं हितं तस्य कार्य तदनु वर्त्तित्वा॥८॥ एतां बुद्धिं समास्थाय नियतो माल्यवानपि॥ते राक्षसा सह भ्रात्रा भीमनेत्राग्निमूर्द्धणाः॥९॥ कोटिशतेन मुख्यानां राक्षसानां विनिर्गताः॥ नानावर्णा वयवसना नानाप्रहरणायुधाः ॥ १० ॥ नानावादित्रघोषेण प्रयाता राक्षसाधिपाः ॥ नानाप्रकारैर्विविधैः प्राणिभिर्बलवत्तरैः ॥ ११ ॥ वाहनैः प्रययुर्घोरा राक्षसास्त्रिदशाधिपम् ॥ गच्छतस्तु बलोघस्य तदा तस्योत्तरां दिशम् ॥ वभूवाऽभिमुखं घोरं वनं त्रिदशपालितम् ॥ १२ ॥ हिमाचलस्योत्तरदिग्विभागे खस्थे बले ते पुरुषौ प्रवीरौ ॥ जयार्थमभ्युद्यतचापखण्डौ प्रचक्रतुर्युद्धमदीनसत्त्वौ ॥ १३ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडावनानुशासने राक्षससेनानिर्याणवर्णनो नाम षोडशोत्तरद्विशततमोऽध्यायः ॥ २१६ ॥ छ ॥ ॥ अगस्त्य उवाच ॥ ततः प्रावर्त्तत रणं तत्तयोर्बलवत्तयोः ॥ नानाप्रहरणैरुग्रैरुभयोर्जयमिच्छतोः ॥ १ ॥ तदा बलाभ्रसंरुद्धे गगने खड्गविद्युति ॥ तस्मिन्नेव क्षणे जातो भानुमानल्प विद्युतिः ॥२॥ चलत्खड्गलता विद्युत्संयुतोतितिमिरव्राता ॥ रक्तवृष्टिः पपातोर्व्यां बलमेघाद्विगाहता ॥३॥ ततः शोणितवर्षेण सिच्यमाने महीतले ॥ ग्राववृष्टिर्महत्यासीच्छादितं भूतंल यया ॥ ४ ॥ आसीदगम्या वसुधा शोणितौघपरिक्लुता ॥ रजस्वलेव युवतिस्तदा तत्र नराधिप ॥ ५ ॥ स्फुरमाणा विह्वयन्ते बाह्वश्चन्दनोक्षिताः ॥ खड्गप्रहारपतिताः पक्षशीर्षा इवोरगाः ॥ ६ ॥ मुखानि दन्तप्रभाणि तथा सुरुचिराणि च ॥ ( विर्ज्योडिमानिव पाकम्रङ्गफलानि वा ॥ ७ ॥ निपतिद्भिस्तथा छत्रैश्चामरैर्व्यजनैस्तथा ॥ विच्छिन्नवाहनाङ्गैश्च ॥ १३७॥


१ 'कर्त्तव्यं' इति ख० । १ कोष्ठान्तर्गतः पाठः कपुस्तके नास्ति ।

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण) · पृष्ठ 322, कुल 1001 में से · BharatKosha