विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 321, कुल 1001 में से
संदर्भ में पढ़ेंसुपर्णैः ॥ २९ ॥ वसवोऽद्रिसुताः साध्या विश्वेदेवास्तथाश्विनौ ॥ भृगवश्चाप्सरोयुक्तै रथेस्तं देवमन्युयुः ॥ ३० ॥ रुद्राश्चायुधयुद्देवं बलोद्रैः ककुद्मिभिः ॥ तथैवान्ये बलोद्रिक्ता देवा देवानुयायिनः ॥ ३१ ॥ गर्दभैः शिशुमारैश्च महोक्षैर्महिषैरगैः ॥ सिंहव्याघ्रतरक्षुध्वगसञ्जवानर मर्कटैः ॥ ३२ ॥ चमरैः सुमरैश्चैव गोघामार्जारशल्लकैः ॥ विविधैः पक्षिभिश्चैवा तेऽनुजग्मुर्जनार्दनम् ॥ ३३ ॥ सिद्धमार्गेण सिद्धाश्च प्रययुर्मुमुदन्तस्तथा ॥ स्तुवन्तः पुण्डरीकाक्षं देवसंघभयापहम् ॥ ३४ ॥ गीतवाद्यैः सुमधुरैः सेवमाना जनार्दनम् ॥ प्रहृष्टाः प्रययुस्तत्र गन्धर्वाप्सरसां गणाः ॥ ३५ ॥ तपः सत्यं क्षमा दानं व्रतानि विविधानि च ॥ यज्ञाङ्गानि च सर्वाणि कालावयवास्तथा ॥ ३६ ॥ संवत्सरास्तथा मासाः पक्षौ च करणैः सह ॥ युगायनमुहूर्त्तांश्च शास्त्राणि विविधानि च ॥ ३७ ॥ मूर्त्तिमन्ति तथास्त्राणि शस्त्राणि च जगत्पतेः ॥ समुद्रपर्वतद्वीपाशिखिनो विषहाणि च ॥ ३८ ॥ वर्षाणां च शरीराणि पितॄणां च तथा गणाः ॥ नक्षत्राणि दिशश्चैव विदिशश्च महीपते ॥ ३९ ॥ देवा वनस्पतिश्चैव याश्च लोकस्य मातरः ॥ देवदैत्यगणा ये च तथा पितृगणाश्च ये ॥ ४० ॥ गन्धर्वयक्षनागानां गणा ये च नरेश्वर ॥ घोरा व्याधिगणाश्चैव कालपाशैः सुदारुणैः ॥ ४१ ॥ मृत्युर्दण्डस्तथा क्रोधो जरा च मनुजेश्वर ॥ अन्वय्युः पुण्डरीकाक्षं रक्षोगणवधैषिणम् ॥ ४२ ॥ जयश्रीयशस्तस्य प्रयाति रघुनन्दन ॥ सरितश्च तथा यानैः सर्वलोकस्य मातरः ॥४३॥ मकरेण ययौ गङ्गा कालिन्दी कच्छपेन तु॥ सारसेनापि सरयूः शिशुमारेण गोमती ॥ ४४ ॥ गोदावरी च खङ्गेन मयूरेण सरस्वती ॥ ककुद्मिना शतद्रुश्च विपाशा तुरगेण च ॥ ४५ ॥ चन्द्रभागा च सिंहेन दन्तिनेरावती तथा ॥ सिन्धुर्व्याघ्रेण मत्स्येन वितस्ता च तथा ययौ ॥ ४६ ॥ देविका चैव हंसेन पुरुषेण च गण्डकी ॥ महिषेण पयोष्णी च कावेरी वृषभेण तु ॥ ४७ ॥ हिरण्वती सुपर्णेन चक्रेणेक्षुमती नदी ॥ भुजगेन च पाणाशा वराहेण च कौशिकी ॥ ४८ ॥ वेदस्मृतिर्म यूरेण सारङ्गेण च नर्मदा ॥ जीवजिवकमारूढा सीताप्राल्हादिनी तथा ययौ ॥ ४९ ॥ ह्लादिनी च सरोजेन सुभरेण च पावनी ॥ शशकेनापि लौहित्या नदी सिन्धुर्गजेन च ॥ ५० ॥ उष्ट्रेण तथा चक्षुः सीता चाजेन राघव ॥ गौतमी कुक्कुटेनापि चाषेण च दृषद्वती ॥ ५१ ॥ स्वेः स्वेर्यानेस्तथैवान्याः प्रययुर्निम्नगा हरीम् ॥ देवानुयात्राघोषेण वादित्राणां रवेण च ॥५२॥ स्तूयमानो द्विजायैश्च प्रययौ कमलेक्षणः ॥ तद्दलो द्यमपर्यन्तं देवान्वन्द्वंवसंकुलम् ॥ ५३ ॥ आतपत्रैः पताकाभिः स्वचिह्नैश्च विराजितम् ॥ किङ्किणीशतसंघोषं प्रययावन्तरिक्षगम् ॥ ५४ ॥
१ 'सिंहैस्त' इति ख० । २ 'नारूढा' इति ख० ।