भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 333, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 333

द्यावेव स तु बालो महाबलः ॥ स ददर्श महाकायं तदा शक्रस्य दन्तिनम् ॥ ३० ॥ तं प्रद्रुद्राव भक्ष्यार्थी सशक्रं कुञ्जरोत्तमम् ॥ प्राहरत्त्वरया वज्रं ततस्तस्य सुराधिपः ॥ ३१ ॥ तस्य वज्रप्रहारेण वामो हनुरभज्यत ॥ हनुमानिति तेनास्य नाम चक्रे पितामहः ॥ ३२ ॥ क्रुद्धं च जगतां वायुं सान्त्वयित्वा पितामहः ॥ वरेण च्छन्दयामास हनुमन्तं महाबलम् ॥३३॥ सर्वैर्देवगणैः सार्धं लोकानां हितकाम्यया ॥ अजरामरतां तस्य अजेय- त्वं तथा रणे ॥३४॥ प्रददुदेवताः सर्वे बलं चाप्रतिमं तथा ॥ स्वयं भगवता तस्य सूर्येण सुमहात्मना ॥३५॥ .....विनायकं १ तु तुष्टाव ततः शम्भु- स्त्रिलोकेश्वरो ॥ पुराणां सङ्गमार्थाय अविघ्नेनेति मानद ॥ १ ॥ शङ्कर उवाच ॥ नमस्यामि महाबाहुं देवदेवं गणेश्वरम् ॥ हस्तिवक्त्रं महाकायं व्याघ्रचर्माम्बरच्छदम् ॥ २ ॥ चन्द्ररश्मिप्रतीकाशं चारुदन्तोज्ज्वलाननम् ॥ भक्तानां विघ्नशमनं सुराणं पार्वतीसुतम् ॥३॥ परश्वधधरं वीरमक्षमाला- विभूषितम् ॥ ब्रह्मण्यं वरदं सौम्यं विघ्नानां पतिमुज्जितम् ॥४॥ पीनास्यं लम्बजठरं हारभारापितोदरम् ॥ अष्टमी च चतुर्थी च वृता येन चतुर्दशी ॥५॥ कुल्माषोत्कोलिकामूपैर्मोदकैरोदनेन च ॥ पूजयन्ति जना लोके धूपमाल्यानुलेपनैः ॥ ६ ॥ स्वस्तिवाचनकैश्चैव तेषां नास्तीह दुर्लभम् ॥ पुत्रार्थी लभते पुत्रान्धनार्थी धनमुत्तमम् ॥ ७ ॥ व्याधितश्च तथारोग्यंबद्धो मुच्येत बन्धनात् ॥त्वां तु संपूजयित्वा वै वरदं कामरूपिणम् ॥ ८ ॥ इष्टान्कामानवाप्नोति नात्र कार्या विचारणा ॥ यश्चाधीते स्तवमिमं तव नित्यं गणेश्वर ॥ ९ ॥ तस्यापि सर्वकामानां सदा दाता भविष्यसि ॥ नाडायन उवाच ॥ इत्येव संस्तुतः श्रीमाञ्शंकरेण विनायकः ॥ १० ॥ एकस्थानगतं चक्रे विना विघ्नं पुरत्रयम् ॥ एकस्थं त्रिपुरं विष्णुः शराग्रस्थो धनुश्च्युतः ॥ शंकरप्रेरितः शीघ्रं तदा चक्रे स भस्मसात् ॥ ११ ॥ पुरत्रये देववरेण तेन विनिर्मितेऽभूज्जगतां प्रहर्षः ॥ जग्मुस्तदा देवगणाः प्रहृष्टाः स्थानानि राजेन्द्र तथा स्वकानि ॥ १२ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमकाण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्ये त्रिपुरदाहवर्णनो नाम पंचविंशत्युत्तराद्विशततमोऽध्यायः ॥ २२५ ॥ ॥ नाडायन उवाच ॥ ॥ तस्यैव देवदेवस्य शृणु कर्मेहमुत्तमम् ॥ आसीद्दैत्योन्धको नाम भिन्नाञ्जनचयोपमः ॥ १ ॥ तपसा महता युक्तस्त्ववध्यश्च दिवौकसाम् ॥ स कदाचिन्महादेवं पार्वत्या सहितं प्रभुम् ॥ २ ॥ क्रीडमानं तदा दृष्ट्वा हर्तुं देवीं प्रचक्रमे ॥ तस्य युद्धं तदा घोरमभवत्सह शंभुना ॥ ३ ॥ रुद्रबाणविनिर्भेदै रुधिरादन्धकस्य तु ॥ अंधकाश्च समुत्पन्ना शतशोथ सहस्रशः ॥ ४ ॥ तेषां च दह्यमानानां रुधिरादपरे पुनः ॥ ५ ॥ बभूवुरंधका घोरा यैर्व्याप्तमखिलं जगत् ॥ एवं मायाविनं


१ अत्र पाठो भ्रष्ट इति प्रतीयते ।