विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 332, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० ॥१४२॥ प्र० खं० अ० २२१ ॥१४२॥
ब्रह्मा निवातकवचैः सह ॥ ४ ॥ चकार सख्यं सर्वात्मा दशग्रीवस्य रक्षसः ॥ ततस्तु युयुधे नागै र्गेरुडैर्वापिवाल्विभिः ॥ ५ ॥ वशी कृत्या ततो नगान्वरुणस्य पुरं ययौ ॥ ब्रह्मलोकगते राजन्वरुणे सुमहात्मनि ॥ ६ ॥ पुष्करः प्रददौ युद्धं रावणस्य दुरात्मनः ॥ वरुणस्य सुतः श्रीमाञ्जा- माता बलिनस्तथा ॥ ७ ॥ सोमपुत्र्या महाराज ज्योत्स्नाया यः स्वयं वृतः ॥ अर्थशात्रं विजानाति यः समग्रं महायशाः ॥ ८ ॥ अब्रवीन्मां समर्थं च तथा शास्त्राण्यनेकशः ॥ रूपदाक्षिण्यलावण्यचर्मचैः समन्वितै ॥ ९ ॥ बले शौर्ये तथा दाने तुल्यो यस्य न विद्यते ॥ भ्रातृभिर्भ्रातृ पुत्रैश्च सैन्येन महता यथा ॥ १० ॥ दत्वा युद्धं महाघोरं सान्त्वयामास राक्षसम् ॥ ततः स नगरं जित्वा वरुणं सुमहाबलम् ॥ ११ ॥ सैन्यै र्विश्ववसः पुत्रो मातुश्च पुनरागतः ॥ किष्किन्धां स ततो गत्वा पुरीं वानरपालिताम् ॥ १२ ॥ पप्रच्छ वानराँश्चैब क्वासौ वाली महाबलः ॥ तं जगाद महातेजा तारो गहनगोचरः ॥ १३ ॥ किं स्यात्ते वालिना कार्यं तन्ममाचक्ष्व पृच्छतः ॥ रावण उवाच ॥ युद्धातिथ्यमहं तस्मा- त्प्रार्थयामि बलीयुखात् ॥ १४ ॥ बलवाञ्छूयते राजा जिज्ञासा तस्य मे बले ॥ तार उवाच ॥ जिज्ञासितो यदा वाली त्वत्तोऽन्यैर्बलवत्तरैः ॥ १५ ॥ निहताः शतशस्तेन त्वत्तो वीर्यबलाधिकाः ॥ इदानीमेव निहतो दुन्दुभिस्तेन राक्षसः ॥ १६ ॥ प्रविश्य विवरं घोरं मायावी तेन घातितः ॥ बिले प्रविष्टस्य तदा राजन्संवत्सरसं गतम् ॥ १७ ॥ सुग्रीवेण तदा तस्य द्वारं पिहितमात्मना ॥ स तु संवत्सरस्यान्ते हत्वा मायाविनं रणे ॥ १८ ॥ ददर्श राजन्सुग्रीवं किष्किन्धायां तदाऽनुजम् ॥ स्वपत्न्या रमया सार्धं वालिपत्न्या च तारया ॥१९॥ क्रीडमानं यथा शक्रं क्रोधस्य वशमन्वगात् ॥ रुमां तारां तथा हत्वा तेन निर्वासितस्त्वसौ ॥ २० ॥ निर्वासिते तु सुग्रीवे पश्चात्ताप समन्वितः ॥ हन्तुकावस्तु सुग्रीवं वाली पर्यचरन्महीम् ॥२१॥ तदा वालिभयत्रस्तः सुग्रीवोऽपि पलायितः ॥ न स लेभे सदा त्राणं तदा सरमार राक्षसम् ॥ २२ ॥ मतङ्गशापं राजेन्द्र वालिनः स तथा स्वयम् ॥ हत्वा तु दुन्दुभिं वाली पादाङ्गुष्ठेन योजयत् ॥ २३ ॥ चिक्षेप राक्षसश्रेष्ठं मतङ्ग- स्याश्रमं प्रति ॥ मतङ्गस्याश्रमं दृष्ट्वा रुधिरेण समन्वितम् ॥ २४ ॥ शशाप वालिनं रोषात्तस्यास्मिन्मे महद्धने ॥ सद्यः प्रविष्टमात्रस्य जीवितं न भविष्यति ॥ २५ ॥ अगम्यं वालिनो ज्ञात्वा मतङ्गस्य महद्वनम् ॥ चतुर्भिः सचिवैः सार्धं सुग्रीवस्तमुपाश्रितः ॥ २६ ॥ नलेन राजशार्लेन तारेण च हनुमता ॥ हनूमन्सचिवस्तस्य देवानांमपि निर्भयः ॥ २७ ॥ जातमात्रस्तु यो बाल्ये वीक्ष्य सूर्यं त्वमाकुलतः ॥ भक्ष्यार्थी तस्य पार्श्वे स्थं राहुं दृष्ट्वा निशाचरम् ॥ २८ ॥ सूर्यमुत्सृज्य भक्ष्यार्थी तदा राहुं प्रदुद्रुवे ॥ राहुर्जगाम शरणं भयादिंद्रं च वासवम् ॥ २९ ॥ तत्याजु प्रय