भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 332, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 332

वि० ध० ॥१४२॥ प्र० खं० अ० २२१ ॥१४२॥

ब्रह्मा निवातकवचैः सह ॥ ४ ॥ चकार सख्यं सर्वात्मा दशग्रीवस्य रक्षसः ॥ ततस्तु युयुधे नागै र्गेरुडैर्वापिवाल्विभिः ॥ ५ ॥ वशी कृत्या ततो नगान्वरुणस्य पुरं ययौ ॥ ब्रह्मलोकगते राजन्वरुणे सुमहात्मनि ॥ ६ ॥ पुष्करः प्रददौ युद्धं रावणस्य दुरात्मनः ॥ वरुणस्य सुतः श्रीमाञ्जा- माता बलिनस्तथा ॥ ७ ॥ सोमपुत्र्या महाराज ज्योत्स्नाया यः स्वयं वृतः ॥ अर्थशात्रं विजानाति यः समग्रं महायशाः ॥ ८ ॥ अब्रवीन्मां समर्थं च तथा शास्त्राण्यनेकशः ॥ रूपदाक्षिण्यलावण्यचर्मचैः समन्वितै ॥ ९ ॥ बले शौर्ये तथा दाने तुल्यो यस्य न विद्यते ॥ भ्रातृभिर्भ्रातृ पुत्रैश्च सैन्येन महता यथा ॥ १० ॥ दत्वा युद्धं महाघोरं सान्त्वयामास राक्षसम् ॥ ततः स नगरं जित्वा वरुणं सुमहाबलम् ॥ ११ ॥ सैन्यै र्विश्ववसः पुत्रो मातुश्च पुनरागतः ॥ किष्किन्धां स ततो गत्वा पुरीं वानरपालिताम् ॥ १२ ॥ पप्रच्छ वानराँश्चैब क्वासौ वाली महाबलः ॥ तं जगाद महातेजा तारो गहनगोचरः ॥ १३ ॥ किं स्यात्ते वालिना कार्यं तन्ममाचक्ष्व पृच्छतः ॥ रावण उवाच ॥ युद्धातिथ्यमहं तस्मा- त्प्रार्थयामि बलीयुखात् ॥ १४ ॥ बलवाञ्छूयते राजा जिज्ञासा तस्य मे बले ॥ तार उवाच ॥ जिज्ञासितो यदा वाली त्वत्तोऽन्यैर्बलवत्तरैः ॥ १५ ॥ निहताः शतशस्तेन त्वत्तो वीर्यबलाधिकाः ॥ इदानीमेव निहतो दुन्दुभिस्तेन राक्षसः ॥ १६ ॥ प्रविश्य विवरं घोरं मायावी तेन घातितः ॥ बिले प्रविष्टस्य तदा राजन्संवत्सरसं गतम् ॥ १७ ॥ सुग्रीवेण तदा तस्य द्वारं पिहितमात्मना ॥ स तु संवत्सरस्यान्ते हत्वा मायाविनं रणे ॥ १८ ॥ ददर्श राजन्सुग्रीवं किष्किन्धायां तदाऽनुजम् ॥ स्वपत्न्या रमया सार्धं वालिपत्न्या च तारया ॥१९॥ क्रीडमानं यथा शक्रं क्रोधस्य वशमन्वगात् ॥ रुमां तारां तथा हत्वा तेन निर्वासितस्त्वसौ ॥ २० ॥ निर्वासिते तु सुग्रीवे पश्चात्ताप समन्वितः ॥ हन्तुकावस्तु सुग्रीवं वाली पर्यचरन्महीम् ॥२१॥ तदा वालिभयत्रस्तः सुग्रीवोऽपि पलायितः ॥ न स लेभे सदा त्राणं तदा सरमार राक्षसम् ॥ २२ ॥ मतङ्गशापं राजेन्द्र वालिनः स तथा स्वयम् ॥ हत्वा तु दुन्दुभिं वाली पादाङ्गुष्ठेन योजयत् ॥ २३ ॥ चिक्षेप राक्षसश्रेष्ठं मतङ्ग- स्याश्रमं प्रति ॥ मतङ्गस्याश्रमं दृष्ट्वा रुधिरेण समन्वितम् ॥ २४ ॥ शशाप वालिनं रोषात्तस्यास्मिन्मे महद्धने ॥ सद्यः प्रविष्टमात्रस्य जीवितं न भविष्यति ॥ २५ ॥ अगम्यं वालिनो ज्ञात्वा मतङ्गस्य महद्वनम् ॥ चतुर्भिः सचिवैः सार्धं सुग्रीवस्तमुपाश्रितः ॥ २६ ॥ नलेन राजशार्लेन तारेण च हनुमता ॥ हनूमन्सचिवस्तस्य देवानांमपि निर्भयः ॥ २७ ॥ जातमात्रस्तु यो बाल्ये वीक्ष्य सूर्यं त्वमाकुलतः ॥ भक्ष्यार्थी तस्य पार्श्वे स्थं राहुं दृष्ट्वा निशाचरम् ॥ २८ ॥ सूर्यमुत्सृज्य भक्ष्यार्थी तदा राहुं प्रदुद्रुवे ॥ राहुर्जगाम शरणं भयादिंद्रं च वासवम् ॥ २९ ॥ तत्याजु प्रय