विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 335, कुल 1001 में से
संदर्भ में पढ़ेंतोये महादेवः शूलमुद्गरपट्टिशैः ॥ ३१ ॥ ततः स शङ्करो देवस्तन्वन्चैक्यंव्याकुलीकृतः ॥ जगाम शरणं देवं वासुदेवमजं विभुम् ॥ ३२ ॥ ततस्तु भगवान्विष्णुः सृष्ट्वाच्छुष्करेवतीम् ॥ सा पपौ सत्वरं तेषामन्धकानामसृक्क्षणात् ॥ ३३ ॥ यथायथा च रुधिरं पिवत्यन्धकसम्भवम् ॥ तथा तथाऽधिकं देवी संशुष्यति जनाधिप ॥ ३४ ॥ पीयमाने तदा तेषामन्धकानां तयाऽसृजि ॥ अन्धकास्तु क्षयं नीताः सर्वे ते त्रिपुरा- रिणा ॥ ३५ ॥ मूलात्कञ्चं^१ तु विक्रम्य तदा सर्वत्र लोककृत् ॥ चकार वेणाच्छूलेन तदा तुष्टाव शङ्करम् ॥ ३६ ॥ अन्धकः सुमहावीर्यः तस्य तुष्टोऽभवद्भवः ॥ सामीप्यं प्रददौ नित्यं गणेशत्वं तथैव च ॥ ३७ ॥ ततो मातृगणाः सर्वे शङ्करं वाक्यमब्रुवन् ॥ भगवन् भक्षयिष्यामः सर्व्वा- सुरमानुषम् ॥ ३८ ॥ त्वत्प्रसादाज्जगत्सर्वं तद्नुज्ञातुमर्हसि ॥ शङ्कर उवाच ॥ भवतीभिः प्रजाः सर्वा रक्षणीया न संशयः ॥ ३९ ॥ तस्मा- द्धोरादभिप्राय़ान्मनः शीघ्रं निवर्त्यताम् ॥ नाडायन उवाच ॥ इत्येवं शङ्करेणोक्ते त्वनाहत्य वचस्तु ताः ॥ ४० ॥ क्षोभयामासुराव्याप्त्यैस्त्रैलोक्यं सचराचरम् ॥ त्रैलोक्ये भक्ष्यमाणे तु तदा मातृगणैर्नृपैः ॥ ४१ ॥ तुष्टिसंस्तुतिं देवं च प्रहृष्ट्यो भगवान्छिवः ॥ अनादिनिधनं देवं सर्वलोक- भवोद्भवम् ॥ ४२ ॥ दैत्येन्द्रवक्षोरुधिरप्रोक्षिताङ्गरुहानखम् ॥ विद्युज्जिह्वं महादंष्ट्रं स्फुटकेसरसङ्कटम् ॥ ४३ ॥ कल्पान्तामारुताक्षुब्धस्तनयित्नुसम- महास्वनम् ॥ ४४ ॥ वज्रायतितीक्ष्णनखरमाकर्णोदारिताननम् ॥ ४४ ॥ मेरुकल्पोग्रतीक्ष्णाग्रशुद्धदंष्ट्रार्कसंस्मणम् ॥ हिमाद्रिशिखरकारं चारुदंष्ट्रोज्ज्वला- ननम् ॥ ४५ ॥ खविनिस्सृतरोमाभिं ज्वालाकेसरमालिनम् ॥ बद्धोद्रङ्गं सुमुकुटं चारुकेयूरभूषणम् ॥ ४६ ॥ श्रोणीसूत्रेण महता काञ्चनेन विराजितम् ॥ नीलोत्पलदलश्यामं वासोयुगविभूषितम् ॥ ४७ ॥ तेजसाक्रान्तसकलं ब्रह्माण्डान्तमण्डपम् ॥ सादराभ्राम्यमाणानां हुतहव्य- घणार्चिषाम् ॥ ४८ ॥ आवर्तैः सहस्राकारैः संयुक्तं देहलोमजैः ॥ सर्वपुण्यविचित्रां च धारयन्तं महालयम् ॥ ४९ ॥ स ध्यातमात्रो भगवा- न्प्रददौ तस्य दर्शनम् ॥ यादृशेनैव रूपेण ध्यातो रुद्रेण भक्तितः ॥ ५० ॥ तादृशेनैव रूपेण दुर्निरीक्ष्येण देवतैः ॥ प्रणिपत्य तु देवेशं तदा तुष्टाव शङ्करः ॥ ५१ ॥ शङ्कर उवाच ॥ नमस्तेस्तु जगन्नाथ नरसिंहवपुर्धर ॥ दैत्यनाथास्थिसंपूर्णं नखशुक्तिविराजित ॥ ५२ ॥ तडित्कषणसल्लेहमग्निपिङ्गलविग्रह ॥ मेरोः सपद्मरागस्य शोभां धत्से जगद्गुरो ॥ ५३ ॥ कल्पान्ताम्भोदनिर्घोष सूर्य्यकोटिसमप्रभ ॥ सहस्रयम- संक्रोध सहस्रेन्द्रपराक्रम ॥ ५४ ॥ सहस्रवदनस्फीत सहस्रचरणात्मक ॥ सहस्रकालचरित सहस्रनियतैन्द्रिय ॥ ५५ ॥ मरुत्प्रमथिनिसिंर्ह्य
^१ 'मूलांकम्' इति ख०।