विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 373, कुल 1001 में से
संदर्भ में पढ़ेंराजन्वाह्नतीन्मिश्रै व्यवसायपरस्पराः ॥ छिन्नानि स्वानि गात्राणि न जानन्ति रणे परैः ॥ ५९ ॥ तत्र शूरा महाभागास्त्वमपार्कान्तचेतसः ॥ आयुधक्षयमासाद्य मुष्टियुद्धानि चक्रिरे ॥ ६० ॥ केशांकेशि तथा केचिद्दन्तादन्ति नखानखि ॥ चक्रुयुद्धं महाराज ब्रह्लोलेकजिगीषवः ॥ ६१ ॥ क्रन्दन्तोऽन्ये पितृन्पुत्रान्भ्रातन्त्ये पितामहान् ॥ मातुलान्भागिनेयांश्च स्यालान्सम्बन्धिनस्तथा ॥ ६२ ॥ पितृव्यानार्यकान्त्ये दौहित्रानपरे तथा ॥ धावन्त्यन्ये पतन्त्यन्ये गर्जन्त्यन्ये जिगीषया ॥ ६३ ॥ स्वनन्त्यन्ये पतन्त्यन्ये म्रियन्ते चापरे तथा ॥ शोचन्त्यन्ये तथा बन्धूञ्शो- च्यांस्त्वन्ये तु बन्धुभिः ॥ ६४ ॥ याचन्तेऽन्ये महाराज तृष्णार्ताश्च तथा जलम् ॥ वाहनेषु समारोप्य नीयन्त्यन्ये च बन्धुभिः ॥ ६५ ॥ शिबिराय महाराज शतशोऽथ सहस्रशः ॥ अन्ये संवृत्य चात्मानं भीता जग्मुरुपह्वरम् ॥ ६६ ॥ जलाथर्मन्ये च नरा बान्धवैश्च प्रचोदिताः ॥ आगम्य दृष्ट्वा च मृतं भाण्डं भङ्क्त्वा विचुक्रुशुः ॥ ६७ ॥ हतबन्धुन्महादत्य स्वामिकार्यकतत्पराः ॥ परानभिमुखान्नेव तत्रायुध्यन्त मानवाः ॥ ६८ ॥ युध्यतामेव तेषां तु शतशोऽथ सहस्रशः ॥ उत्थितानि रणे यानि कबन्धानि महीपते ॥ ६९ ॥ कश्चिन्नर्ननं समरे कबन्धस्तु धनुर्धरः ॥ गदापाणिस्तथैवान्यः खड्गचर्मधरोऽपरः ॥ ७० ॥ पश्चद्वचरः कश्चित्प्रासपाणिस्तथा परः ॥ नृत्यत्कबन्धभूयिष्ठे देवदुन्दुभिनादिते ॥ ७१ ॥ प्रवर्तमाने संग्रामे शूराणां स्वर्गलोकदे ॥ व्यदृश्यन्त महाराज पिशाचा घोरदर्शनाः ॥७२॥ राक्षसाश्च महाकायाः क्रव्यादाश्च तथा परे ॥ जगाम चास्तं सविता तदा रक्तवपुर्धरः ॥ संग्रामात्सर्वयोधानां पीत्वेव रुधिरं करैः ॥७३॥ ततोऽस्तरशैले भगवत्यथार्के गते जपापुष्पकदम्बकाभे ॥ सेनाद्वयं तच्छिविराय यातं कृत्वावरोहं परबाणतप्तम् ॥ ७४ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे संकुलयुद्धो नाम षष्ट्युत्तरद्विशततमोऽध्यायः ॥ २६० ॥ मार्कण्डेय उवाच ॥ निशावसाने गन्धर्वाः कृत्वा व्यूहं सुदुर्जयम् ॥ संप्रतीक्ष्यन्त भरतमायान्तं रणकोवि- दम् ॥ १ ॥ भरतोऽपि च राजन्ये वज्रव्यूहेन दंशितः ॥ आससाद महत्सैन्यं गन्धर्वाणां सुदुर्जयम् ॥ २ ॥ ततः प्रवृत्ते युद्धं यमराष्ट्रविवर्द्धनम्॥ देवासुरसमप्रख्यं त्रैलोक्यभयकारकम् ॥ ३ ॥ पत्तीनां पत्तिभिः सार्धं सादिनां चैव सादिभिः ॥ रथिनां रथिभिश्चैव कुञ्जराणां च कुञ्जरैः ॥ ४ ॥ भाषतां नामगोत्राणि शूराणां चैव गर्जताम् ॥ धनुषां कूजतां चैव शब्दः समभवत्तदा ॥ ५ ॥ ततः प्रवृते संग्रामे भरतः पुष्करो रणे ॥ आससाद विशालाक्षं गन्धर्वं रणगर्वितम् ॥ ६ ॥ तक्षश्च भारतिः श्रीमान्युयुधे वीरबाहुना ॥ सेनानीर्विजयः श्रीमान्सुमित्रश्च तमागतः ॥ ७ ॥ भूमन्युः कौरवः श्रीमान्कामपालेन संगतः ॥ किरातराजो दमनश्चन्द्रपीडेन संगतः ॥ ८ ॥ प्रभद्रकेण
३८