भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 374, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 374
वि० ध०
॥१६३॥

प्र० खं०
अ० २६१

शिविना तथैवाजिकरो रणे ॥ महोदयः सुनिद्देशो हरिकेशेन संगतः ॥ ९ ॥ ऐगंतो वसुदानश्च सूर्य्यश्मिश्च संगतौ ॥ गन्धर्व्वः
कुमुदार्जुनः कुलूताधिपतिर्जयः ॥ १० ॥ चक्रतुस्तुमुलं युद्धं देवासुरसमं तदा ॥ दाशेरकस्तथा राजा यवनो वाशनः परः ॥ ११ ॥
एकलव्यश्च संग्रामे तेनासीत्सुमहात्मना ॥ कुमुदः शोणिना श्रृंगे बलबन्धुः सुयोधनः ॥ १२ ॥ गन्धर्व्वः पञ्चभिः पञ्च पार्व्वतीयाः समागताः ॥
बलाकाबलाकाभ्यां तु गदिना मौलिना तथा ॥ १३ ॥ कुमुदेन तु वीरेण सदश्वैर्त्तानवर्त्तिना ॥ मद्रराजोऽङ्गमाभ्राघ्नं चतुर्भिः संगतो रणे ॥ १४ ॥
भीमनादमहानादवृषपद्मगणजत्करैः ॥ दार्वः श्रुतञ्जनः श्रीमानभिमानः कृतञ्जयः ॥ १५ ॥ युद्धं तौ चक्रतुर्वीरौ सहितौ चन्द्रवर्मणा ॥ काश्मीरकः
सुबाहुश्च गन्धर्व्वेण सुबाहुना ॥ १६ ॥ चकार तुमुलं युद्धं भीरूणां भयवर्द्धनम् ॥ भरतस्यापरे योधा गन्धर्व्वाभीमविक्रमैः ॥ १७ ॥ समागतास्तदा
युद्धे शतशोऽथ सहस्रशः ॥ भरतश्च महातेजाः शैलूपेण समागतः ॥ १८ ॥ चकार तुमुलं युद्धं सर्व्वभूतभयङ्करम् ॥ पर्व्वताभेन नागेन त्रिधा
प्रस्रवता मदम् ॥ १९ ॥ बाधमानमरीन्संख्ये महेन्द्रमिव दानवान् ॥ विशालो वारयामास रथेनाभ्येत्य पुष्करम् ॥२०॥ वाणौघेन रणे भित्त्वा
वेगं पुष्करदन्तिनः ॥ पुष्करं ताडयामास नाराचैर्बहुभिस्तदा ॥ २१ ॥ द्विषन्निस्ताड्यमानस्तु भारनिर्भीमविक्रमः ॥ ववर्ष शरसंघातैर्विशालं
सेनया सह ॥ २२ ॥ पुष्करस्य विशालोऽथ मध्ये चिच्छेद कार्मुकम् ॥ छिन्नधन्वा विशालस्य स जघानाथ सारथिम् ॥ २३ ॥ आक्रम्य
योधयामास विशालस्य महारथम् ॥ यदा रणे महाराज पुष्करस्य रथोत्तमम् ॥ २४ ॥ हन्तुं स रथमुत्सृज्य विशालीपि महीपतेः ॥ गदया
योधयामास पुष्करस्य तु वारणम् ॥ २५ ॥ पुष्करोऽपि गदापाणिर्विशालाभिमुखं ययौ ॥ गदाभिस्तौ ततो वीरौ परस्परजिगीषया ॥ २६ ॥
सव्यदक्षिणतस्तत्र मण्डलानि विचेरतुः ॥ प्रजहतुस्तथान्योन्यमन्योन्यस्य वधैषिणौ ॥ २७ ॥ पुष्करेण रणे वेगाद्विशालस्य गदा हता ॥
मुमोच पावकं तीक्ष्णं सस्फुलिङ्गं महीपते ॥ २८ ॥ विशालेन ततो युद्धे गदया पुष्करो हतः ॥ हिमवत्सदृशश्चास्तु न चचाल पदात्पदम् ॥२९॥
पुष्करेण महाराज विशालो गदया हतः ॥ ततः शैलप्रवचनान्महामात्रमचोदियन् ॥ ३० ॥ आरुरोह महानागं विशालो रणार्दितः ॥ आरुह्य
रथं श्रीमानन्वर्थस्य च पुष्करः ॥ ३१ ॥ तावेकस्थानामारूढा तदा गजेन्द्रपुष्करौ ॥ निजघ्नतुर्विशालस्य संग्रामे वरवारणम् ॥ ३२ ॥ त्यक्त्वावाजौ
तं नागत्य कुञ्जरान्रिपतिक्ष्वतः ॥ चिच्छेदाथ विशालस्य शिरो ज्वलितकुण्डलम् ॥ ३३ ॥ हत्वा विशालं संग्रामे रथमारुह्य चापरम् ॥ छादया
मास तत्सैन्यं गन्धर्वाणां शरोत्करैः ॥ ३४ ॥ विशालं निहतं दृष्ट्वा रुद्रः परमकोपनः ॥ सादी जघान प्रासेन गान्धारं रणगर्वितम् ॥ ३५ ॥
॥१६३॥