विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 377, कुल 1001 में से
संदर्भ में पढ़ेंत्मनः ॥ तस्यैकव्यस्तुरगञ्चाथ शिलीमुखैः ॥ ८९ ॥ गदया पातयामास स च तस्य तुरङ्गमान् ॥ तयोर्विथयोर्भृत्यैर्नृपनीतो तुरङ्गमा ॥ ९० ॥ पृष्ठतश्च तथा रूढौ वप्रमासधरादुभौ ॥ प्रासाविभ्रामणोत्क्षेपपरिवर्त्तिविवर्त्तनौ ॥ ९१ ॥ चक्रतुस्तुमुलं युद्धं चित्रं लघु च सुष्ठु च ॥ मण्डलानि विचित्राणि तयोश्चक्रुस्तुरङ्गमाः ॥ ९२ ॥ ईक्षितॄणांप्रीतिजननं चिरं कृत्वा ततो रणम् ॥ अन्योन्यव्याभिहतौ पेततुस्तुरगावभौ ॥ ९३ ॥ भृत्यैश्च रथमारोप्य समरादपवाहितौ ॥ कुमारः श्रेणिमाञ्छूरो बलबन्धुः सुयोधनः ॥ ९४ ॥ गन्धर्वः पञ्चभिः पञ्च पर्वतीयाः समागताः ॥ बलाकाबलकाभ्यां तु गर्दिना मालिना तथा ॥ ९५ ॥ कुमुदेन च वीरेण समरेर्न्निविवर्त्तिता ॥ चतुर्भिः सायकैस्तीक्ष्णैः कुमारी बलदर्पितः ॥ ९६ ॥ हयांश्चकार निर्जीवान्वलकस्य महात्मनः ॥ हताश्वरथमुत्सृज्य बलकाद्भ्रातुरग्रसा ॥ ९७ ॥ आरुरोह रथं श्रीमद्वलकस्य समुद्यतम् ॥ तावेकरथमारूढौ भ्रातरौ समप्रभौ ॥ ९८ ॥ छादयामास विशिखैः कुमारी बलदर्पितः ॥ बलकस्तु कुमारस्य मध्ये चिच्छेद कार्मुकम् ॥ ९९ ॥ स छिन्नधन्वा वेगेन गदामादाय वेगवान् ॥ तामादाय जघानाथ बलाकं समरप्रियम् ॥ १०० ॥ बलक निहतं दृष्ट्वा गेषाह्नु निनवर्त्तयन् ॥ कुमारं प्रति चिक्षेप वलकश्चैव तोमरम् ॥ १०१ ॥ तोमरेण च निर्भिन्नो रथोपास्थ्य उपाविशत् ॥ तं विसंज्ञमथोवाह सारथिर्हयपानवित् ॥ १०२ ॥ श्रोणमानम्य संक्रुद्धो बलकस्य तदा रणे ॥ क्षुरपर्यन्तधारेण चक्रेणापहृच्छिरः ॥ १०३ ॥ निपातितोऽथ तत्रैव शूर्पण गदया गदी ॥ तं निहत्य तदा शूरो मौलिनः सारथिं रणे ॥ १०४ ॥ गदया पोथयामास मेरुगोरिववा तदा ॥ कुमुदस्य जघानाथ गदया स तुरङ्गमान् ॥ १०५ ॥ हताश्वं रथमुत्सृज्य कुमुदो गदिनो रथम् ॥ आरुरोह तदा शीघ्रं खड्गवाणधनुर्धरः ॥ १०६ ॥ रथाद्रुढस्य तस्याथ वलकश्च महारथः ॥ जघान चतुरो वाहांश्चतुर्भिरस्मिसायकैस्तदा ॥ १०७ ॥ जहाग पञ्चमेनाथ शिरस्तस्य सकुण्डलम् ॥ सारथिं तु रथात्तस्मान्मौलिनो रथमुत्तमम् ॥ १०८ ॥ हतसारथिनि पूर्वमारुरोह महारणे ॥ मौली युद्धाय तस्थौ च महाबलपराक्रमः ॥ १०९ ॥ आरुह्य स रथं दिव्यं किङ्किणीजालनादितम् ॥ ततः स मोलिनाक्रान्तः सुयोधनरथो रणे ॥ ११० ॥ अवाकिरद्मेयात्मा शरैस्सप्ततपर्वभिः ॥ सुयोधनोऽपि विक्षिप्य मौलिनं मौलिभूषितम् ॥ १११ ॥ जहार सशिरस्त्राणं शिरो ज्वलितकुण्डलम् ॥ मदराजोऽग्रुमात्रा म चतुर्भिः सायकैस्तीक्ष्णैः ॥ ११२ ॥ भीमनादमहानादवसुमेषरुजाकरैः ॥ चत्वारस्ते महाराज मदरजास्य सायकैः ॥ ११३ ॥ निजघ्नुश्चतुरो वाहान्सारथिं च तथा रणे ॥ अंशुमान्नाथमुत्सृज्य गदामादाय वीर्यवान् ॥ ११४ ॥ जघान चतुरो वाहान्भीमनादस्य संयुगे ॥ सारथिं पोथयामास महानादंञ्चतस्तथा ॥ ११५ ॥ गताश्वं रथमुत्सृज्य गदावेगेन यादव ॥ महोद्यत्य तं नागं पोथयामास वीर्यवान् ॥ ११६ ॥