विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 376, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० ॥१६४॥ प्र० खं० अ २६१
धनुषो मध्यभागे तु अन्योऽन्यस्य न्यकृन्तताम् ॥ ६३ ॥ विध्वावधिसमुद्भाव चक्रतुर्यत्नमुत्तमम् ॥ आदाय विपुलं चर्म शतचन्द्रं च भास्व- रम् ॥ ६४ ॥ आदधाते खड्गवरान्योऽन्यवधकांक्षिणौ ॥ खड्गमाकाशसदशमन्योऽन्यं प्रविवेशतुः ॥ ६५ ॥ मण्डलानि विचित्राणि गतमत्याग- तानि च ॥ केशिकांनि तु मार्गानि दर्शयामासतुस्तदा ॥ ६६ ॥ भ्राम्नुखङ्गान्तमाविद्धामाप्लुतं विसृतं सततम् ॥ संपातं समुदीर्णं च खड्गचर्मविदार- णम् ॥ ६७ ॥ ईक्षितप्रीतिजननं युद्धमासीत्तयोस्तदा ॥ कृत्वा तौ सुचिरं युद्धं परस्पररणे हतौ ॥ ६८ ॥ जग्रहेतुर्वपुषां वञ्चाच्चक्रापसमावुभौ ॥ ततः स्वरथमारोप्य सुरथो रथिवर्धनः ॥ ६९ ॥ तस्माद्देशादपावाह्य सर्वसैन्यस्य पश्यतः ॥ निकुम्भे चाथ समरे सुरथेन तदा रपा ॥ ७० ॥ गोवासनेन साल्वेन त्वरमाणः समागतः ॥ वाणजालेन समरे चक्रतुर्युद्धं सुभैरवम् ॥ ७१ ॥ तावुभौ रथिनौ वीरौ रेजतुर्दिव्यधन्विनाँ ॥ ततस्तः शरवांस्तस्तदान्योऽन्यं तथान्वितौ ॥७२॥ अन्योन्यस्य स्यान्दत्वा छित्त्वा च धनुषी तथा॥ विरथो चक्रतुर्युद्धं गदाभिरितरेतरम् ॥ ७३॥ विचरन्तौ संग्रामे गदाहस्तौ मदोद्धतौ ॥ वासितार्थे वने मत्तौ कुञ्जराविव यूथपौ ॥७४॥ सुचिरं तौ तदा युद्धं कृत्वा व्यायामकांपिनौ ॥ प्रहार वस्रसंतप्तौ जग्मतुर्बुसुधातलम् ॥ ७५ ॥ विह्वलौ रथयोः कृत्वा नीतौ तौ स्वस्वसैनिकैः ॥ विरजौ च कृत्वा भूयो रणशीर्षमुपागतौ ॥ ७६ ॥ प्रभञ्जकक्ष संग्रामं चक्राराजगरणेण ह ॥ ईक्षितप्रीतिजननं शूरशंखादिताम्बरम् ॥ ७७ ॥ मुमुचे वर्तमानस्य तदा राजा प्रभञ्जनः ॥ विच्छेदाङ्गर- स्याजौ शिरो ज्वलितकुण्डलम् ॥ ७८ ॥ महोदयः कुणिदेशो हरिकेशस्य संयुगे ॥ गजेन पाथयामास सुरथं स्यथमागथिम् :७९ ॥ हताश्वस्थ मुत्सृज्य गद्या सुदृढं रणे ॥ हरिकेशं महाबाह्रं चकार गतजीवितम् ॥ ८० ॥ त्रेगतौ वपुथानश्च मयूरिमिश्च संगतो ॥ चक्रतुत्सुसुलं युद्धं वलि- शक्राविवापरौ ॥८१॥ कृत्वा तौ सुचिरं युद्धं परस्परसमाहतौ ॥ विचेतसौ स्थापयथे निपेदतुर्गन्दिनमौ ॥ ८२॥ विमंशो तु तदा नीतो मार्गार्थम्यां रणाजगात् ॥ गन्धर्वः कुसुदापीडः कुलताधिपतिर्जयः ॥८३॥ चक्रतुत्सुसुलं युद्धं देवासुरसमं तदा ॥ अन्याऽन्यस्य स्यानदन्त्वा छित्त्वा च धनुषी दढे ॥ ८४ ॥ खड्गयुद्धं चिरं कृत्वा छिन्नखड्गौ परस्परम् ॥ नियुद्धं चक्रतुर्वीरो बाहुद्राविणशालिनौ ॥ ८५ ॥ नियुद्धस्यावसाने तु कुलताधिपतिं जयम् ॥ गन्धर्वः कुसुदापीडो निष्पिपेष महीतले ॥ ८६ ॥ ततः खङ्गं रथादाय शिरश्छेतुं समुद्यतः ॥ नृशंसं तं समालोक्य सेनापतिमरिन्दम ॥ ॥ ८७ ॥ विजयन्तस्य मूर्धानं पातयामास भूतले ॥ दशरक्ततया राजा यश्च गोवासननेशनः ॥ ८८ ॥ एकलव्यस्य संग्रामं तैरासीत्सुमहा- ॥१६४॥
१ 'वंगचर्म' इति क० । २ 'दृढखड्गसमावुभौ' इति ख० ।