विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 379, कुल 1001 में से
संदर्भ में पढ़ेंबलार्द्दितेव पद्मिनी ॥ १४३ ॥ एतस्मिन्हन्यते सैन्ये कश्चिन्नासीन्महारथः ॥ प्रत्युद्ययौ यः समरे शैलूषं रणकर्कशम् ॥ १४४ ॥ शैलूषशर- सम्पातरुद्धगोमण्डले रवौ ॥ न प्राज्ञायत राजेन्द्र तदा किञ्चिद्रणाजिरे ॥ १४५ ॥ अश्रूयत महाञ्छब्दस्तालानां पततामिव ॥ नराणाञ्चाप्यक- ङ्गेभ्यो विस्रंसुः शोणितापगाः ॥ १४६ ॥ एवं तु भारतं सैन्यं काल्यमानमितस्ततः ॥ शैलूषेण महाराज भरतं शरणं ययौ ॥ १४७ ॥ भरतोऽपि महातेजा दृष्ट्वा शैलूषमागतम् ॥ प्रत्युद्ययौ रथेनाजौ किङ्किणीजालमालिना ॥ १४८ ॥ ततस्तौ चक्रतुर्युद्धं घोररूपं भयानकम् ॥ त्रैलोक्यविजय्यासक्तौ ययोभौ बलिवासवौ ॥ १४९ ॥ गन्धर्वराट् ततः क्रुद्धः सिंहनादंनदन्मुहुः ॥ भरतस्य रथं तूर्ण शरवर्षैरवाकिरत् ॥ १५०॥ क्रमेण शरग्रस्तस्य सरथः सह सारथिः ॥ शरवर्षेण महता संछन्नो न प्रकाशितः ॥ १५१ ॥ युधाजित्त्वथसम्प्राप्तो धैर्यमासाद्य वीर्यवान् ॥ चोदयामास तानश्वान्विस्पृशन्प्रियसायकैः ॥ १५२ ॥ भरतोऽथ धनुर्गृह्य दिव्यं जलदनिःस्वनम् ॥ शैलूषस्य द्विधा चक्रे क्षुरेण महद्धनुः ॥ ॥ १५३ ॥ गन्धर्वश्छिन्नधन्वा स पुनरन्यन्महद्धनुः ॥ निमेषान्तरमात्रेण सज्जं चक्रे महाबलः ॥ १५४ ॥ विचच्छेद ततो दोर्भ्यां चिक्षेप च ततः शरान् ॥ अथास्य तदपि क्रुद्धश्छिच्छेद भरतो धनुः ॥ १५५ ॥ तस्य तत्पूजयामास लाघवं त्रिदशाधिपः ॥ शैलूषोऽपि ततः क्रुद्धः प्रगृह्यान्य- न्महद्धनुः ॥ १५६ ॥ सुमोच समरे बाणान्भरतस्य रथं प्रति ॥ युधाजिन्मातुलस्तस्य सह यानेन लाघवम् ॥ १५७ ॥ दर्शयामास समरे मोघां न्कुर्वञ्छरव्रजान् ॥ तुरगांश्चोद्यमानांस्ते मण्डलानिच बभ्रमुः ॥ १५८ ॥ यथातथा शरव्राता मोघा यान्ति महीतलम् ॥ भरतोऽपि महातेजा मण्डलीकृतकार्मुकः ॥ १५९ ॥ वीरकेतुं शरव्रातैर्विद्ध्वाथ रणमूर्धनि ॥ ताडितं सारथिं दृष्ट्वा वीरकेतुं तथा सुतम् ॥ १६० ॥ गन्धर्वस्ताडयामास सायकैस्तु युधाजितम् ॥ युधाजिति महाबाहौ समरे भृशविक्षते ॥ १६१॥ विचच्छेद च्छत्रं बाणेन शैलूषस्य तु राघवः ॥ द्वितीयेन तु बाणेन लसन्तं ध्वजमुच्छ्रितम् ॥ १६२ ॥ तृतीयेन धनुर्मुष्टौ तथा जलदनिःस्वनम् ॥ स च्छिन्नधन्वा वेगेन शक्तिमादाय सत्वरः ॥ १६३ ॥ विव्याध भृशं वीरं भुजे वामे नराधिप ॥ प्रहारवरभिन्नस्य भरतस्य महात्मनः ॥ १६४ ॥ करात्पपात वेगेन चापञ्चापवरस्य च ॥ अथान्यद्धनुरुद्गृह्य भरतो रघुनन्दनः ॥ १६५॥ शरैरनेकैस्साहस्रैर्गन्धर्वं तमवाकिरत् ॥ पातयामास च तथा कवचं रत्नभूषितम् ॥ १६६॥ आपदं परमां प्राप्तः शैलूषोऽथ सत्वरः॥ आग्नेयमस्त्रं चिक्षेप भरतं प्रति वीर्यवान् ॥ १६७ ॥ वारुणेन तदस्त्रं तु शमयामास राघवः ॥ वायव्यमस्त्रं शैलूषस्तदा चिक्षेप पार्थिव ॥ १६८ ॥ शैलास्त्रेणाथ भरतः शमयामास तत्पुनः ॥ शैलास्त्रमथ चिक्षेप गन्धर्वपतिस्तथा ॥ १६९ ॥ वज्रेणास्त्रेण तत्क्रुद्धः शमयामास राघवः ॥ उत्सृ-