विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 381, कुल 1001 में से
संदर्भ में पढ़ेंयश्चान्यान्यव्रणान्कर्कशान् ॥ शरैः सञ्छादयामास गभस्तिभिरिवांशूमान् ॥ १८ ॥ एतस्मिन्नेव काले च महसा गगनच्युता ॥ उल्का पपात मध्येन भित्त्वा सूर्यस्य मण्डलम् ॥ १९ ॥ आसीद्घोरो महीकम्पः शैलूषाङ्गविदारणः ॥ आदित्यमण्डले राजन्कबन्धाश्चाप्यदृश्यत ॥ २० ॥
ववर्ष च तदा देवो गन्धर्वानीकरुष्टिभिः ॥ गन्धर्वाणां च दीप्तायां दिश्यवाशन्त पक्षिणः ॥ २१ ॥ मृगाश्च घोरा राजेन्द्र शिवाश्चाशिवनिःस्वनाः ॥ प्रतिलोमस्तथैवासीद्वायुस्तेषां सुदारुणः ॥ २२ ॥ न्यलीयत तथा गृध्रः शैलूषस्य ध्वजाग्रतः ॥ मृगे पथि निरावाधे प्रस्खलन्तस्तुरङ्गमाः ॥ २३ ॥
शतपत्राश्च चाषाश्च हंसाश्च प्रदक्षिणम् ॥ भरतस्य तदा चक्रुः सव्यो बाहुरथास्फुरत् ॥ २४ ॥ दृष्ट्वा निमित्तांस्तु शुभान्यथाजिगीषुर्महाद्यशाः ॥ चोदयामास तुरगान्गन्धर्वाणां चमूं प्रति ॥ २५ ॥ भरतोऽपि शरौघैर्पातयामास वाहिनीम् ॥ गन्धर्वाणामुदीर्णानां घोरैः शतसहस्रशः ॥ २६ ॥
वध्यमानास्तु गन्धर्वा भरतेन महात्मना ॥ तमेवाभिमुखा जग्मुः शलभाः पावकं यथा ॥ २७ ॥ तेषामापततां राज्ञा शरैः सन्नतपर्विभिः ॥ पातयामास शीर्षाणि भरतो वाहिनीपतिः ॥ २८ ॥ भरतं कोष्ठकीकृत्या गन्धर्वाः सुमहाबलाः ॥ ववृषूरेषुवर्षैस्तीक्ष्णैर्मेघा वृष्ट्येव पर्वतम् ॥ २९ ॥ तान्यायुधानि मुख्यानि गन्धर्वप्रवरैस्तथा ॥ चिच्छेद राजा शरैर्विद्विषां रथांश्चाश्वांश्च सादिनः ॥ ३० ॥ मस्तकान्सशरांश्चापि बाहूनपि च साङ्गदान् ॥ हस्तिहस्तोपरूंश्चिच्छेद भरतो रणे ॥ ३१ ॥ नावचानं न सन्दधानं न मुञ्चन्तं च सायकान् ॥ ददर्श भरतं कश्चिच्छलाद्वाणान्ववर्षिणम् ॥ ३२ ॥ केवलं दृश्यते युद्धे गन्धर्वाणां महाचमूः ॥ दह्यमाना शस्त्रास्त्रैर्युगान्ताग्निरिव ज्वलन् ॥ ३३ ॥ बाणगोचरमायातान्भरतस्य विनिघ्नतः ॥ शस्त्रास्त्रैः सायकैस्तीक्ष्णैर्जगामास्तं दिवाकरः ॥ ३४ ॥ रणे जयं प्राप्य ततो निवृत्तः समागतश्चापि नरेन्द्रसूनुः ॥ प्रयान्महात्मा शिबिराय राजन्संतूष्यमानस्त्रिदशाधिपेन्द्रैः ॥ ३५ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे तृतीययुद्धदिवसवर्णनं नाम द्विपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५२ ॥
मार्कण्डेय उवाच ॥
चतुर्थेऽहनि संप्राप्ते कृतपूर्वाह्निकक्रियः ॥ शैलूषस्तु विनिष्क्रम्य गन्धर्वानिदमब्रवीत् ॥ १ ॥
योधयध्वं रणे सर्वं भरतं रिपुमागतम् ॥ अहं मध्ये प्रवेक्ष्यामि भरतस्य बलार्णवम् ॥ २ ॥
तत्र तान्पातयिष्यामि भरतस्यानुयायिनः ॥ एतदुक्ते ततस्तूत्काः संप्रतीक्षन्त राघवम् ॥ ३ ॥
भरतोऽपि महातेजा रथेनैकेन दृश्यते ॥ भरतस्यानुसैन्यं च भृकुजां समपद्यत ॥ ४ ॥
तत्सैन्यं प्राविशद्घोरो शैलूषो गणदर्पितः ॥ चकार कदनं तत्र नरवाणवाजिनाम् ॥ ५ ॥
गन्धर्वसैन्ये च तथा भरतोऽपि शरोत्करैः ॥ चकार कदनं घोरं वैश्वानरसमप्रभः ॥ ६ ॥
१ 'सशरोत्करैः' इति ख० ।