विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 395, कुल 1001 में से
संदर्भ में पढ़ेंश्रीगणेशाय नमः ॥ वज्र उवाच ॥ आदौ भगवता प्रोक्तो विजयो भरतस्य मे ॥ गच्छन्त्या वेद्मि चात्मानं ह्यङ्गिन्वद्गतकल्मषम् ॥ १ ॥ सुराश्चान्यश्च ह्यद्य कथासारस्तु भार्गव ॥ कथाश्च विविधाः प्रोक्तास्तत्रसङ्गाच्चनानघ ॥ २ ॥ गन्धर्व्वश्च धर्मज्ञ सर्व्वपापक्षयङ्कराः ॥ यास्त्वा अह्नान्वासङ्गेन मयापहृतचेतसा ॥ ३ ॥ प्रस्तुतास्ताः कथास्सम्यक्तास्ता एव कथयस्व मे ॥ भगवन्त्सर्व्वधर्मज्ञ प्रत्यक्षामलदर्शन ॥ कथानां तु प्रसङ्गेन प्रस्तुता याः कथाः पुरा ॥ ४ ॥ सुदूरमन्तरीभूत्वा रामस्य विदितात्मनः ॥ ता एव श्रोतुमिच्छामि त्वत्तो भृगुकुलोद्वह ॥ ५ ॥ लोकं वारुणमासाद्य रामो भृगुकुलोद्वहः ॥ श्रुत्वान्विदंवेदेशात्किन्नु भूयः प्रचेतसः ॥ ६ ॥ एतन्मे सर्व्वमाचक्ष्व तत्र मे संशयो महान् ॥ मार्कण्डेय उवाच ॥ कालस्य संस्थां तां श्रुत्वा रामोपेतां प्रचेतसा ॥ ७ ॥ पप्रच्छ वरुणं देवं गजधर्मानितः परम् ॥ पृष्टस्तु जामदग्न्येन रामं प्राह जलेश्वरः ॥ ८ ॥ गजधर्माञ्छृणुष्वाथ पुष्करात्तन्वान्नम ॥ राजधर्माः श्रुतास्तेन देवाद्द्वादशशतक्षणान् ॥ ९ ॥ स यथाद्विजजानाति गजकर्म्मोद्भवोन्मनाः ॥ एवमुक्त्वा तदा राममानाय्य च तथा सुतम ॥ १० ॥ उवाच भार्गवस्यास्य धर्मान्कथय पुत्रक ॥ यथायथाय सन्देहो भविष्यति महात्मनः ॥ ११ ॥ तदुपानुज्ञ मद्धन्ते मम वाक्येन पुत्रक ॥ एवमुक्तस्तथेत्युक्त्वा गृहाद्दिन्ये भृगूत्तमम् ॥ तत्रास्य कथयामास गजधर्म्मान्महोदयान् ॥ १२ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयकवखण्डे मार्कण्डेधर्म्मान्नृपसत्तमानाम् ॥ द्रव्यान्महार्यान्भुवि पालनाय लोकस्य सर्व्वस्य नरेन्द्रचन्द्र ॥ १३ ॥
इति श्रीविष्णुधर्मोत्तर द्वितीयकवखण्डे मार्कण्डेयवज्रसंवादे रामस्य पुष्करगृहगमनं नाम प्रथमोऽध्यायः ॥ १ ॥
मार्कण्डेय उवाच ॥ सुखासीनो नरश्रेष्ठः पुष्करस्य निवेशनं ॥ पप्रच्छ पुष्करं रामो धर्मनित्यो जितेन्द्रियः ॥ १ ॥
राम उवाच ॥ गृहस्थ किं कृत्यतमं तत्त्वाचक्ष्व पृच्छतः ॥ आदावेव महाभाग यादृशा वरुणपात्मज ॥ २ ॥
पुष्कर उवाच ॥ राज्ञस्य कृत्यं धर्मज्ञ राज्ञ एवाभिपचेतनम् ॥ अनिन्द्रमबलं राष्ट्रं दस्यवोऽभिभवन्त्युत ॥ ३ ॥ अराजकेषु राष्ट्रेषु धर्मावस्था न विद्यते ॥ वर्णानामाश्नमाणां च व्यवस्थानं च भार्गव ॥ ४ ॥ अराजकेषु राष्ट्रेषु नैव कन्या प्रदीयते ॥ विद्यते ममता नैव तथा वित्तेषु कस्यचित् ॥ ५ ॥ स्वात्म्यो न्यायः प्रवर्त्तेत विशेलीपस्तथैव च ॥ लोके न कश्चिद्विद्येत मृगेर्विचनकारकः ॥ ६ ॥ नापीशँवैक्ष्यों विद्यां त्रयी वर्णा द्विजातयः ॥ देवानां यजनं न स्यान्नाग्निहोत्ततो भवेत् ॥ ७ ॥ नूलोकमुग्लोकेो च स्यातां संशयितावुभौ ॥ जनमदो भवेदारा यदि राजा न पालयेत् ॥ ८ ॥ प्रजानां रक्षणार्थाय विष्णुस्तेजोषपबृंहितः ॥ मानुष्ये जायते राजन राजा देवमत्त्ववपुर्नरः ॥ ९ ॥ यस्मिन्प्रसन्ने देवस्य प्रसादस्तूपजायते ॥ यस्मिन्क्रुद्धे जनस्यास्य क्रोधः ममुपजायते ॥ १० ॥ महद्भिः पुण्यसम्भारैः पार्थिवो राम जायते ॥ यस्यै