विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 407, कुल 1001 में से
संदर्भ में पढ़ेंअभ्यनन्दन् जातेन तेन देवास्सवासवाः ॥ तस्मात्स नन्दको नाम खड्गरत्नमभूत्तदा ॥ ५ ॥ तं दृष्ट्वा भगवान्ब्रह्मा केशवं वाक्यमब्रवीत् ॥ खड्गं गृहीष्व गोप्तारं धर्मस्य जगतां पते ॥ ६ ॥ यज्ञाद्विघ्नकरं हत्वा खड्गेनानेन केशव ॥ निपातय महाबाहो बलिष्ठं लोहदानवम् ॥ ७ ॥ इत्युक्तोऽथ जग्राह ग्रीवया तं जनार्दनः ॥ गृहीतमात्रे देवेन विक्रोशः समपद्यत ॥ ८ ॥ खड्गः कमलपत्राक्षो नीलोत्पलसमद्युतिः ॥ गन्तभूहिसंज्ञोऽभून्नाम निर्मलकाशसन्निभः ॥ ९ ॥ एतस्मिन्नन्तरे तत्र व्यदृश्यत तदा महान् ॥ करालः कृष्णवदनः शतबाहुर्महोदरः ॥ १० ॥ प्रांशुः सुवृत्तदंष्ट्राग्रो बलवांल्लोहदानवः ॥ ११ ॥ यज्ञविघ्नार्थिनं प्रातं स दृष्ट्वा लोहदानवम् ॥ ११ ॥ खड्गमादाय वेगेन ययौ तं प्रति केशवः ॥ स केशवमथासाद्य दैत्य उच्चक्रुरोगदामारू ॥ १२ ॥ विद्वावयामास तदा गदया भीमवेगया ॥ तदा मग्नेषु देवेषु युद्धं कृत्वा हरिश्चिरम् ॥ १३ ॥ खड्गेन तस्य गात्राणि चिच्छेद मधुहा रणे ॥ खड्गच्छिन्नानि गात्राणि नानादेशेषु भूतले ॥ १४ ॥ निपेतुस्तस्य धर्मज्ञ शतशोऽथ सहस्रशः ॥ नन्दकस्य तु संस्पर्शात्तानि गात्राणि भार्गव ॥ १५ ॥ लोहीभूतानि सर्वाणि प्रसादात्केशवस्य तु ॥ हतायास्मै वरं प्रादाद्भगवान्मधुसूदनः ॥ १६ ॥ त्वदङ्गानि पवित्राणि भविष्यन्ति महीतले ॥ आयुधानि च तैर्लोके करिष्यन्ति च मानवाः ॥ १७ ॥ एवमुक्त्वा हरिर्देवो ब्रह्माणं वाक्यमब्रवीत् ॥ विना विघ्नं मखमिदं कुरु शीघ्रं जगद्गुरो ॥ १८ ॥ एवमुक्तस्तदा ब्रह्मा यज्ञेन मधुसूदनम् ॥ आत्मना पूजयामास सुसमिद्धमनेकशः ॥ १९ ॥ उत्पत्तिकथिका खड्गस्य लोहस्य च मया तव ॥ अतः परं प्रवक्ष्यामि खड्गलक्षणमुत्तमम् ॥ २० ॥ प्रधानङ्गेषुसंभूतैरस्थिभिश्चिह्नितम् ॥ लोहं प्रधानं खड्गार्थे प्रशस्तं तद्विशेषतः ॥ २१ ॥ कटीकरदुरुत्पत्तिकं वङ्गे शूर्पारकेषु च ॥ विदेहेषु तथाङ्गेषु मध्यमं ग्रामचेदिषु ॥ २२ ॥ १मङ्गल्यामथ नीपेषु तथा ककुञ्जरेष्वपि च ॥ लोहं प्रधानं तज्जानां खड्गानां शृणु लक्षणम् ॥ २३ ॥ कटीकरदूजाता ये दर्शनीयास्तु ते स्मृताः ॥ काष्ठाच्छिन्नास्तु अधिका मर्मज्ञा गुरुवस्तथा ॥ २४ ॥ तीक्ष्णाश्छेदास्सहा वाह्या दृष्टा शूर्पारकोद्भवाः ॥ सुहस्ताश्चैव विज्ञेया प्रभावन्तो विदेहजाः ॥ २५ ॥ अङ्गदेशोद्भवास्तीक्ष्णाश्चेदि देशसमुद्भवाः ॥ कालिङ्गरा मारसहास्तथा वक्ष्यामि लक्षणम् ॥ २६ ॥ सुप्रमाणांगुलास्ते तु श्रेष्ठा खड्गाः प्रमाणतः ॥ प्रमाणं तन विज्ञाय ततो हीनं न धारयेत् ॥ २७ ॥ प्रमाणाभ्यधिकं चैव च्छिद्रवृक्षं तथैव च ॥ शुभ्रः सुमधुरः शब्दो यस्य खड्गस्य भार्गव ॥ २८ ॥ किङ्किणीसदृशस्तस्य धारणं श्रेष्ठमुच्यते ॥ खड्गः पद्मपलाशाग्रो मण्डलाग्रश्च शस्यते ॥ २९ ॥ कर्र्वीपलाशसदृशस्य विशेषतः ॥ महीघृतसुगन्धश्च
१ 'मध्यमग्रामसम्भवाः' इति ख० ।