विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 411, कुल 1001 में से
संदर्भ में पढ़ेंसांवत्सरपुरोहितौ ॥ पूजयित्वा ततः पश्चात्पूजयेद्ब्राह्मणत्रयम् ॥ ३८ ॥ अनेनैव विधानेन येन राजाभिषेचितः ॥ ततस्त्व- मात्यान्सम्पूज्य सांवत्सरपुरोधसः ॥ ३९ ॥ ततो ब्राह्मणमुख्यानां पूजनं तु समाचरेत् ॥ गोवस्त्रातिलकरूप्यान्नफलाकाञ्चनगोरसैः ॥ ॥ ४० ॥ मोदकाक्षतपुष्पैश्च महीदानैश्च पार्थिवः ॥ मङ्गलालम्भनं कृत्वा गृहीत्वा सशरं धनुः ॥ ४१ ॥ वह्निं प्रदक्षिणीकृत्य प्रणिपत्य तथा गुरुम् ॥ पृष्ठतो वृषमालभ्य गां सवत्सां च पार्थिव ॥ ४२ ॥ पूजयित्वा च तुरगं मन्त्रितं चाभिषेचितम् ॥ मन्त्रितं दक्षिणे कर्णे स्वयं वेदविदा ततः ॥ ४३ ॥ आरुह्य राजमार्गेण स्वपुरं तु परिक्रामेत् ॥ मुख्यामात्यैश्च सामन्तैः सांवत्सरपुरोहितैः ॥ ४४ ॥ सहितः कुञ्जराढ्यैरभिगच्छेच्च देवताः ॥ तासां संपूजनं कृत्वा नगरे या निवेशिताः ॥ ४५ ॥ प्रविशेत् गृहं राजा प्रहृष्टनरवाहनः ॥ दानमानानि सत्कारैर्गृहीत्वात्मकृतीस्ततः ॥ ४६ ॥ संपूजितास्तास्तु विसर्जयित्वा गृहे स्वके स्यान्मुदितो महात्मा ॥ विधानमेतत्समवाप्य राजा कृत्स्नां स पृथ्वीं वशगां हि कुर्यात् ॥ ४७ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे राज्याभिषेकविधिर्नामैकविंशतितमोऽध्यायः ॥ २१ ॥
राम उवाच ॥ मन्त्रेण येन धर्मज्ञ कुर्याद्राज्ञाऽभिषेचनम् ॥ तमहं श्रोतुमिच्छामि त्वत्तो वदतां वर ॥ १ ॥ पुष्कर उवाच ॥ शृणुष्वाव- हितो मन्त्रं राम कल्मषनाशनम् ॥ येनाभिषिक्तो नृपतिः श्रियं यशांसि तिष्ठति ॥ २ ॥ राज्ञोऽभिषेकशब्दान्ते देवविष्णुकुशवारिणा ॥ कुम्भादभ्यु- क्षणं कुर्यान्मन्त्रान्ते सकलं न्यसेत् ॥ ३ ॥ सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ॥ वासुदेवो जगन्नाथस्तथा सङ्कर्षणो विभुः ॥ ४ ॥ प्रद्युम्नश्चानिरुद्धस्तु भवन्तु विजयाय ते ॥ आखण्डलोऽग्निर्भगवान्यमो वै नैर्ऋतिस्तथा ॥ ५ ॥ वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः ॥ ब्रह्मण- सहितः शेषो दिक्पालाः पान्तु ते सदा ॥ ६ ॥ भद्रो धर्मो मनुर्दक्षो रुचिः श्रद्धा च पार्थिव ॥ भृगुरत्रिर्वसिष्ठश्च सनकश्च सनन्दनः ॥ ७ ॥ सनत्कुमारश्च तथा भगवानपि चाङ्गिराः ॥ पुलहश्च पुलस्त्यश्च मरीचिः कश्यपः प्रभुः ॥ ८ ॥ एते त्वामभिषिञ्चन्तु प्रजाध्यक्षाः समागताः ॥ प्रभासुरा बर्हिषदो ह्यग्निष्वात्तास्तथैव च ॥ ९ ॥ क्रव्यादाश्चोपहूतश्च आज्यपाश्च सुकालिनः ॥ एते त्वामभिषिञ्चन्तु पितरश्चाग्निभिः सह ॥ १० ॥ लक्ष्मीर्देवी सती ख्यातिरनसूया तथा स्मृतिः ॥ संभूतिस्सन्ततिश्चैव क्षमा प्रीतिस्तथैव च ॥ ११ ॥ स्वाहा स्वधा च त्वा राज्ञन्तमभिषिञ्चन्तु मातरः ॥ कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा ॥ १२ ॥ बुद्धिर्लज्जा वपुः शान्तिस्तुष्टिः सिद्धिश्च पार्थिव ॥ एतास्त्वामभिषिञ्चन्तु धर्मपत्न्यः समागताः ॥ १३ ॥ अरुन्धती वसुर्यामी लम्बा भानुर्मरुत्वती ॥ संकल्पा च मुहूर्ता च