भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 410, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 410

वि० ध० ॥ १८१ ॥

द्वि० सं० अ० २९

तथा कृत्वा पुरोहितः ॥ ११ ॥ विधाय बहिरक्षं तु सदस्येषु यथाविधि ॥ राजसूयाभिषेके तु ये मन्त्राः परिकीर्तिताः ॥ १२ ॥ तैस्तु दद्याच्च होमभागं ब्राह्मणानां स्वनेन तु ॥ ततः पुरोहितो गच्छेदौदुम्बरं तदैव तु ॥ १३ ॥ विसर्पितं तु राजानं सर्वतोभद्र आसने ॥ शतच्छिद्रेण पात्रेण सौवर्णेन यथाविधि ॥ १४ ॥ अभिषिञ्चति धर्मज्ञ यजुर्वेदविशारदः ॥ या ओषधीरोषधीभिः सर्वाभिः सुसमाहितः ॥ १५॥ रथे अक्षेति गन्धैश्च आब्रह्मन्ब्रह्मणेति च ॥ बीजैः पुष्पैस्तथा चैवं रत्नं पुष्पवतीति च ॥ १६॥ तेनैव चाभिमन्त्रेण फलैस्तमभिषेचयेत् ॥ आशुः शिशान इत्येव सर्वरत्नैश्च भार्गव ॥ १७ ॥ ये देवाः पुरस्सदेति कुशाग्रैः परिमार्जयेत् ॥ ऋग्वेददृष्टतो राज्ञो रोचनाया यथाविधि ॥ १८ ॥ मूर्धानं च तथा कण्ठे गन्धद्वारेति संस्पृशेत् ॥ ततो ब्राह्मणमुख्याश्च क्षत्रियाश्च विशस्तथा ॥ १९ ॥ शूद्राश्च वारमुख्याश्च नानातीर्थसमुद्भवैः ॥ नादेयैः सारसैः कौपैर्नानाकलशसंस्थितैः ॥ २० ॥ चतुस्सागरजैस्तोयैर्भाण्डैर्महिजकल्पितैः ॥ गजहृष्टामृतेनोर्व्या निर्झरैश्च तथोद्भिदैः ॥ २१ ॥ छत्रपाणिभिरेवैके चापि