भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 409, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 409

स्तथा शक्रान्विचक्षणः ॥ ३ ॥ सावित्रान्वैश्वदेवांश्च सौम्यां च विधिवत्ततः ॥ शर्मवर्मगणं चैव तथा स्वस्त्ययनं गणम् ॥ ४ ॥ आयुष्यमभयं चैव तथा चैवापराजितम् ॥ सपातातवन्तं कलशं तथा कुर्याच्च काञ्चनम् ॥ ५ ॥ वेर्हेदक्षिणापार्श्वस्थः श्वेतचन्दनभूषितः ॥ श्वेतानुलेपनः स्रग्वी सर्वाभरणभूषितः ॥ ६ ॥ आसनस्थमुखं पश्येन्निर्मितानि हुताशने ॥ ७ ॥ पश्येयुरन्ये च तथा नृसिंहं दैवज्ञावाक्यान्निपुणं स्वरूपम् ॥ सांवत्सर स्याथ सदस्यमुख्याः सदस्यमुख्याश्च पुरोहितस्य ॥ ८ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे पुरंदरशान्तिर्नामैकोनविंश- तितमोऽध्यायः ॥ १९॥ पुष्कर उवाच ॥ प्रदक्षिणावर्तशिखस्तप्तजाम्बूनदप्रभः ॥ स्थोद्यमेघनिर्घोषो विधूमश्च हुताशनः ॥ १ ॥ अनुलोमसुगन्धश्च स्वस्तिकाकारसर्पिषः ॥ वर्धमानाकृतिश्चैव नन्द्यावर्तिनभस्तथा ॥ २ ॥ प्रसन्नार्चिर्महाज्वालः स्फुलिङ्गरहितो हितः ॥ स्वाहावसाने ज्वलनः स्वयं देवमुखं हविः ॥ ३ ॥ यदा भुङ्क्ते महाभाग तदा राज्ञो हितं भवेत् ॥ हविष्पस्तु यदा वह्नेर्न्यास्सिमिसिमायितम् ॥ ४ ॥ न वर्जेयुश्च मध्येन मार्जारमृगपक्षिणः ॥ पिपीलिकाश्च धर्मज्ञ तदा भूयाज्जयो नृपः ॥ ५ ॥ मुक्ताहारमृणालाभे वह्नौ राज्ञो जयो भवेत् ॥ तथैव च जयं ब्रूयात्प्रस्तरस्य प्रदायिनि ॥ ६ ॥ संक्षेपतस्तेऽभिहितं मयाद्य यल्लक्षणं चारु हुताशनस्य ॥ सर्वाग्निकर्मस्वथ तेन विद्वन्भूयात्रिलोके तु जयो द्विजेन्द्र ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे वह्निलक्षणं नाम विंशतितमोऽध्यायः ॥ २० ॥ ॥ पुष्कर उवाच ॥ ॥ स्नानं समा- चरेद्राज्ञो होमकाले पुरोहितः ॥ आदौ तु स्वेच्छया स्नातः पुनर्मृद्भिः समाचरेत् ॥ १ ॥ पर्वतग्रमृदा तावन्मूर्धानं शोधये- न्नृपः ॥ २ ॥ वल्मीकामृदा कर्णौ चन्दनैः केशबालकान् ॥ २ ॥ चन्द्रालयमृदा ग्रीवां हृदयं तु नृपाजिरात् ॥ करिद्दन्तोद्धृतमृदा दक्षिणं तु तथा भुजम् ॥ ३ ॥ वृषशृङ्गोद्धृतमृदा वामं चैव तदा भुजम् ॥ ४ ॥ सरोमृदा तथा पृष्ठं चोदरं साङ्गमे मृदा ॥ नदीकूलद्वयमुदा पाश्र्वे संशोधयेत्तथो ॥ ५ ॥ अश्वस्थानात्तथा जंघे राजा संशोध्येदुधः ॥ रथचक्रोद्धृतमृदा तथैव च करद्वयम् ॥ ६ ॥ मृत्स्नान्तः स्नपनीयः स्यात्पञ्चगव्यजलेन तु ॥ ततो भद्रासनगतं मुख्यामाल्यानुलेपनम् ॥ ७ ॥ वर्णप्रधानं भूपालमभिषेचेद्यथाविधि ॥ पूर्वेतो हेभकुम्बेन घृतपूर्णेन ब्राह्मणः ॥ ८ ॥ रूप्यकुम्भेन याम्येन क्षीरपूर्वेण क्षत्रियः ॥ दशा च ताम्रकुम्बेन वैश्यः पश्चिमतौ द्विज ॥ ९ ॥ माहेयेन जलेनौ- दक्सूद्रामात्योऽभिषेचयेत् ॥ ततोऽभिषेकं नृपतेर्बहुवृचप्रवरो द्विजः ॥ १० ॥ कुर्वीत मधुना राम च्छन्दोगश्च कुशोदकैः ॥ सम्पातवन्तं कलशं


१ अत्र प्रकरणानुबद्धं पद्यमेतदधिकमुपलभ्यते द्वेपुस्तके - ' वेश्याद्वारमृदा राज्ञः कटिशौचं विधीयते । गजस्थानात्तथैवो रू गोस्थानाज्जानुनी तथा ।'

३१