भारतकोश
संग्रह पर लौटें

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

स्तथा शक्रान्विचक्षणः ॥ ३ ॥ सावित्रान्वैश्वदेवांश्च सौम्यां च विधिवत्ततः ॥ शर्मवर्मगणं चैव तथा स्वस्त्ययनं गणम् ॥ ४ ॥ आयुष्यमभयं चैव तथा चैवापराजितम् ॥ सपातातवन्तं कलशं तथा कुर्याच्च काञ्चनम् ॥ ५ ॥ वेर्हेदक्षिणापार्श्वस्थः श्वेतचन्दनभूषितः ॥ श्वेतानुलेपनः स्रग्वी सर्वाभरणभूषितः ॥ ६ ॥ आसनस्थमुखं पश्येन्निर्मितानि हुताशने ॥ ७ ॥ पश्येयुरन्ये च तथा नृसिंहं दैवज्ञावाक्यान्निपुणं स्वरूपम् ॥ सांवत्सर स्याथ सदस्यमुख्याः सदस्यमुख्याश्च पुरोहितस्य ॥ ८ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे पुरंदरशान्तिर्नामैकोनविंश- तितमोऽध्यायः ॥ १९॥ पुष्कर उवाच ॥ प्रदक्षिणावर्तशिखस्तप्तजाम्बूनदप्रभः ॥ स्थोद्यमेघनिर्घोषो विधूमश्च हुताशनः ॥ १ ॥ अनुलोमसुगन्धश्च स्वस्तिकाकारसर्पिषः ॥ वर्धमानाकृतिश्चैव नन्द्यावर्तिनभस्तथा ॥ २ ॥ प्रसन्नार्चिर्महाज्वालः स्फुलिङ्गरहितो हितः ॥ स्वाहावसाने ज्वलनः स्वयं देवमुखं हविः ॥ ३ ॥ यदा भुङ्क्ते महाभाग तदा राज्ञो हितं भवेत् ॥ हविष्पस्तु यदा वह्नेर्न्यास्सिमिसिमायितम् ॥ ४ ॥ न वर्जेयुश्च मध्येन मार्जारमृगपक्षिणः ॥ पिपीलिकाश्च धर्मज्ञ तदा भूयाज्जयो नृपः ॥ ५ ॥ मुक्ताहारमृणालाभे वह्नौ राज्ञो जयो भवेत् ॥ तथैव च जयं ब्रूयात्प्रस्तरस्य प्रदायिनि ॥ ६ ॥ संक्षेपतस्तेऽभिहितं मयाद्य यल्लक्षणं चारु हुताशनस्य ॥ सर्वाग्निकर्मस्वथ तेन विद्वन्भूयात्रिलोके तु जयो द्विजेन्द्र ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे वह्निलक्षणं नाम विंशतितमोऽध्यायः ॥ २० ॥ ॥ पुष्कर उवाच ॥ ॥ स्नानं समा- चरेद्राज्ञो होमकाले पुरोहितः ॥ आदौ तु स्वेच्छया स्नातः पुनर्मृद्भिः समाचरेत् ॥ १ ॥ पर्वतग्रमृदा तावन्मूर्धानं शोधये- न्नृपः ॥ २ ॥ वल्मीकामृदा कर्णौ चन्दनैः केशबालकान् ॥ २ ॥ चन्द्रालयमृदा ग्रीवां हृदयं तु नृपाजिरात् ॥ करिद्दन्तोद्धृतमृदा दक्षिणं तु तथा भुजम् ॥ ३ ॥ वृषशृङ्गोद्धृतमृदा वामं चैव तदा भुजम् ॥ ४ ॥ सरोमृदा तथा पृष्ठं चोदरं साङ्गमे मृदा ॥ नदीकूलद्वयमुदा पाश्र्वे संशोधयेत्तथो ॥ ५ ॥ अश्वस्थानात्तथा जंघे राजा संशोध्येदुधः ॥ रथचक्रोद्धृतमृदा तथैव च करद्वयम् ॥ ६ ॥ मृत्स्नान्तः स्नपनीयः स्यात्पञ्चगव्यजलेन तु ॥ ततो भद्रासनगतं मुख्यामाल्यानुलेपनम् ॥ ७ ॥ वर्णप्रधानं भूपालमभिषेचेद्यथाविधि ॥ पूर्वेतो हेभकुम्बेन घृतपूर्णेन ब्राह्मणः ॥ ८ ॥ रूप्यकुम्भेन याम्येन क्षीरपूर्वेण क्षत्रियः ॥ दशा च ताम्रकुम्बेन वैश्यः पश्चिमतौ द्विज ॥ ९ ॥ माहेयेन जलेनौ- दक्सूद्रामात्योऽभिषेचयेत् ॥ ततोऽभिषेकं नृपतेर्बहुवृचप्रवरो द्विजः ॥ १० ॥ कुर्वीत मधुना राम च्छन्दोगश्च कुशोदकैः ॥ सम्पातवन्तं कलशं


१ अत्र प्रकरणानुबद्धं पद्यमेतदधिकमुपलभ्यते द्वेपुस्तके - ' वेश्याद्वारमृदा राज्ञः कटिशौचं विधीयते । गजस्थानात्तथैवो रू गोस्थानाज्जानुनी तथा ।'

३१

वि० ध० ॥ १८१ ॥

द्वि० सं० अ० २९

तथा कृत्वा पुरोहितः ॥ ११ ॥ विधाय बहिरक्षं तु सदस्येषु यथाविधि ॥ राजसूयाभिषेके तु ये मन्त्राः परिकीर्तिताः ॥ १२ ॥ तैस्तु दद्याच्च होमभागं ब्राह्मणानां स्वनेन तु ॥ ततः पुरोहितो गच्छेदौदुम्बरं तदैव तु ॥ १३ ॥ विसर्पितं तु राजानं सर्वतोभद्र आसने ॥ शतच्छिद्रेण पात्रेण सौवर्णेन यथाविधि ॥ १४ ॥ अभिषिञ्चति धर्मज्ञ यजुर्वेदविशारदः ॥ या ओषधीरोषधीभिः सर्वाभिः सुसमाहितः ॥ १५॥ रथे अक्षेति गन्धैश्च आब्रह्मन्ब्रह्मणेति च ॥ बीजैः पुष्पैस्तथा चैवं रत्नं पुष्पवतीति च ॥ १६॥ तेनैव चाभिमन्त्रेण फलैस्तमभिषेचयेत् ॥ आशुः शिशान इत्येव सर्वरत्नैश्च भार्गव ॥ १७ ॥ ये देवाः पुरस्सदेति कुशाग्रैः परिमार्जयेत् ॥ ऋग्वेददृष्टतो राज्ञो रोचनाया यथाविधि ॥ १८ ॥ मूर्धानं च तथा कण्ठे गन्धद्वारेति संस्पृशेत् ॥ ततो ब्राह्मणमुख्याश्च क्षत्रियाश्च विशस्तथा ॥ १९ ॥ शूद्राश्च वारमुख्याश्च नानातीर्थसमुद्भवैः ॥ नादेयैः सारसैः कौपैर्नानाकलशसंस्थितैः ॥ २० ॥ चतुस्सागरजैस्तोयैर्भाण्डैर्महिजकल्पितैः ॥ गजहृष्टामृतेनोर्व्या निर्झरैश्च तथोद्भिदैः ॥ २१ ॥ छत्रपाणिभिरेवैके चापि

सांवत्सरपुरोहितौ ॥ पूजयित्वा ततः पश्चात्पूजयेद्ब्राह्मणत्रयम् ॥ ३८ ॥ अनेनैव विधानेन येन राजाभिषेचितः ॥ ततस्त्व- मात्यान्सम्पूज्य सांवत्सरपुरोधसः ॥ ३९ ॥ ततो ब्राह्मणमुख्यानां पूजनं तु समाचरेत् ॥ गोवस्त्रातिलकरूप्यान्नफलाकाञ्चनगोरसैः ॥ ॥ ४० ॥ मोदकाक्षतपुष्पैश्च महीदानैश्च पार्थिवः ॥ मङ्गलालम्भनं कृत्वा गृहीत्वा सशरं धनुः ॥ ४१ ॥ वह्निं प्रदक्षिणीकृत्य प्रणिपत्य तथा गुरुम् ॥ पृष्ठतो वृषमालभ्य गां सवत्सां च पार्थिव ॥ ४२ ॥ पूजयित्वा च तुरगं मन्त्रितं चाभिषेचितम् ॥ मन्त्रितं दक्षिणे कर्णे स्वयं वेदविदा ततः ॥ ४३ ॥ आरुह्य राजमार्गेण स्वपुरं तु परिक्रामेत् ॥ मुख्यामात्यैश्च सामन्तैः सांवत्सरपुरोहितैः ॥ ४४ ॥ सहितः कुञ्जराढ्यैरभिगच्छेच्च देवताः ॥ तासां संपूजनं कृत्वा नगरे या निवेशिताः ॥ ४५ ॥ प्रविशेत् गृहं राजा प्रहृष्टनरवाहनः ॥ दानमानानि सत्कारैर्गृहीत्वात्मकृतीस्ततः ॥ ४६ ॥ संपूजितास्तास्तु विसर्जयित्वा गृहे स्वके स्यान्मुदितो महात्मा ॥ विधानमेतत्समवाप्य राजा कृत्स्नां स पृथ्वीं वशगां हि कुर्यात् ॥ ४७ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे राज्याभिषेकविधिर्नामैकविंशतितमोऽध्यायः ॥ २१ ॥

राम उवाच ॥ मन्त्रेण येन धर्मज्ञ कुर्याद्राज्ञाऽभिषेचनम् ॥ तमहं श्रोतुमिच्छामि त्वत्तो वदतां वर ॥ १ ॥ पुष्कर उवाच ॥ शृणुष्वाव- हितो मन्त्रं राम कल्मषनाशनम् ॥ येनाभिषिक्तो नृपतिः श्रियं यशांसि तिष्ठति ॥ २ ॥ राज्ञोऽभिषेकशब्दान्ते देवविष्णुकुशवारिणा ॥ कुम्भादभ्यु- क्षणं कुर्यान्मन्त्रान्ते सकलं न्यसेत् ॥ ३ ॥ सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ॥ वासुदेवो जगन्नाथस्तथा सङ्कर्षणो विभुः ॥ ४ ॥ प्रद्युम्नश्चानिरुद्धस्तु भवन्तु विजयाय ते ॥ आखण्डलोऽग्निर्भगवान्यमो वै नैर्ऋतिस्तथा ॥ ५ ॥ वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः ॥ ब्रह्मण- सहितः शेषो दिक्पालाः पान्तु ते सदा ॥ ६ ॥ भद्रो धर्मो मनुर्दक्षो रुचिः श्रद्धा च पार्थिव ॥ भृगुरत्रिर्वसिष्ठश्च सनकश्च सनन्दनः ॥ ७ ॥ सनत्कुमारश्च तथा भगवानपि चाङ्गिराः ॥ पुलहश्च पुलस्त्यश्च मरीचिः कश्यपः प्रभुः ॥ ८ ॥ एते त्वामभिषिञ्चन्तु प्रजाध्यक्षाः समागताः ॥ प्रभासुरा बर्हिषदो ह्यग्निष्वात्तास्तथैव च ॥ ९ ॥ क्रव्यादाश्चोपहूतश्च आज्यपाश्च सुकालिनः ॥ एते त्वामभिषिञ्चन्तु पितरश्चाग्निभिः सह ॥ १० ॥ लक्ष्मीर्देवी सती ख्यातिरनसूया तथा स्मृतिः ॥ संभूतिस्सन्ततिश्चैव क्षमा प्रीतिस्तथैव च ॥ ११ ॥ स्वाहा स्वधा च त्वा राज्ञन्तमभिषिञ्चन्तु मातरः ॥ कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा ॥ १२ ॥ बुद्धिर्लज्जा वपुः शान्तिस्तुष्टिः सिद्धिश्च पार्थिव ॥ एतास्त्वामभिषिञ्चन्तु धर्मपत्न्यः समागताः ॥ १३ ॥ अरुन्धती वसुर्यामी लम्बा भानुर्मरुत्वती ॥ संकल्पा च मुहूर्ता च

साध्या विश्वास्तथैव च ॥ १४ ॥ धर्मपत्न्यस्त्वन्यत्वात्त्वामभिषिञ्चन्तु पार्थिव ॥ अदितिश्च दितिस्ताम्रा अरिष्टा सुरसा मुनिः ॥ १५ ॥ कद्रूः क्रोधवशा प्राधा विनता सुरभिश्चाभिः ॥ एतास्त्वामभिषिञ्चन्तु कश्यपस्य प्रियाः स्त्रियः ॥ १६ ॥ पत्नी ते बहुपुत्रस्य ॥ सुप्रभा या च भामिनी ॥ समायान्त्वात्वभिषेकाय विजयाय च पार्थिव ॥ १७ ॥ कृशाश्वपत्नी च तथा सुप्रभा च जया तथा ॥ अस्त्रग्रामस्तयोः पुत्रो विजयं विदधातु ते ॥ १८ ॥ मनोरमा भानुमती विशाला या च बहुदा ॥ अरिष्टनेमी पत्न्यस्त्वामभिषिञ्चन्तु पार्थिव ॥ १९ ॥ कृत्तिका रोहिणी देवी इल्वलाबाहुदंश्च च ॥ पुनर्वसूश्च तिष्यश्च तथाश्लेषा च पार्थिव ॥ २० ॥ मघा च फाल्गुनी पूर्वा तथैवोत्तरफाल्गुनी ॥ हस्तश्चित्रा तथा स्वातिर्विशाखा च नराधिप ॥ २१ ॥ अनुराधा तथा ज्येष्ठा मूलं च वसुधाधिप ॥ आषाढा च तथा पूर्वा तथैव नृप चोत्तरा ॥ २२ ॥ अभिजिश्च तथाश्विन्यौ धनिष्ठा च नराधिप ॥ तथा शतभिषक्चैव पूर्वाभाद्रपदा च या ॥ २३ ॥ उत्तरा रेवती राजन्द्द्विनी भरणी तथा ॥ एतास्त्वामभिषिञ्चन्तु सोमपत्न्यः समागताः ॥ २४ ॥ इला च मृगमन्दा च श्वेता भद्रमना हरिः ॥ भूता च कपिशा दंष्ट्री सुरसा सरमा तथा ॥ २५ ॥ एताः पुलहपत्न्यस्त्वामभिषिञ्चन्तु पार्थिव ॥ श्वेती भासी तथा क्रौञ्ची धृतराष्ट्री शुकी तथा ॥ २६ ॥ पत्न्यस्त्वामभिषिञ्चन्तु अरुणस्यार्कसारथेः ॥ आयतिर्नियतिश्चैव गात्रिन्द्रा तथैव च ॥ २७ ॥ एतास्त्वामभिषिञ्चन्तु लोकसंस्थानहेतवः ॥ उमा मेना शची चैव धूम्रोर्णा निवृत्तिस्तथा ॥ २८ ॥ गौरी शिवा च सिद्धिश्च वला चैवाथ नह्वला ॥ असिक्नी च तथा ज्योत्स्ना द्या च देवी वनस्पतेः ॥ २९ ॥ एतास्त्वामभिषिञ्चन्तु देवपत्न्यः समागताः ॥ महाकल्पश्च कल्पश्च मन्वन्तरयुगानि च ॥ ३० ॥ संवत्सराणि सर्वाणि तथा चैवायनद्वयम् ॥ ऋतवश्च तथा मासाः पक्षा गद्यहनी तथा ॥ ३१ ॥ संध्याश्च तिथयश्चैव मुहूर्ताः करणानि च ॥ एते त्वामभिषिञ्चन्तु कालस्यावयवाः शुभाः ॥ ३२ ॥ आदित्यश्चन्द्रमा भौमो बुधो जीवः सितार्कजौ ॥ ग्रहास्त्वामभिषिञ्चन्तु राहुकेतू च पार्थिव ॥ ३३ ॥ स्वायम्भुवो मनुः पूर्वं मनुः स्वारोचिषस्तथा ॥ औत्तमस्तामसश्चैव रैवतश्चाक्षुषन्तथा ॥ ३४ ॥ वैवस्वतो यथाकणो दक्षा ब्रह्मसुतावुभौ ॥ धर्मपुत्रो रुद्रपुत्रो रौच्यो भौत्यश्च यो मनुः ॥ ३५ ॥ एते त्वामभिषिञ्चन्तु मनवश्च चतुर्दश ॥ विश्वभुक्च विपश्चिश्च सुशान्तिश्च शिखी विभुः ॥ ३६ ॥ मनोजवस्तथौजस्वी वह्निद्रुताशान्तिकौ ॥ वृषश्च ऋतधामा च दिवस्पाद्युचिरैव च ॥ ३७ ॥ एते त्वामभिषिञ्चन्तु देवनाथाश्चतुर्दश ॥ रैवतश्च कुमानश्च तथा वर्चान्विनायकः ॥ ३८ ॥ वीरभद्रश्च नन्दी च विश्वकर्मा मनोजवः ॥ एते त्वामभिषिञ्चन्तु सुमुख्याः समागताः ॥ ३९ ॥ आत्मा वायुर्मनोदक्षो ह्यापः प्राणस्तथैव

चाहविष्मांश्च गविष्ठश्च ऋतः सत्यश्च पार्थिव॥४०॥ अभिषिञ्चन्तु राजंस्त्वां देवा ह्याङ्गिरसा दश ॥ ऋतुर्दक्षो वसुस्सत्यः कालः कामो मुनिस्तथा॥
॥४१॥ कुर्वन्मनुजशार्दूल रोचमानस्तथैव च ॥ एते त्वामभिषिञ्चन्तु विश्वेदेवास्तथा दश॥४२॥ अङ्गाकरस्तथा सर्पो निर्ऋतिश्च तथा घसः ॥ अजैक
पाद हिर्बुध्न्यो धूमकेतुस्तथा द्विजः ॥४३॥ भरतश्च तथा मृत्युः कपालिरथ किङ्किणिः ॥ एकादशैते रुद्रास्त्वामभिषिञ्चन्तु पार्थिव ॥४४॥ भुवनो
भावनश्चैव सुजन्यः सुजनस्तथा ॥ ऋतुः सर्वेश्च मूर्धा च त्याज्यश्च स्तवस्तथाः ॥ ४५ ॥ प्रसवश्चाव्ययश्च दूषणश्च मनुजाधिप ॥ एते त्वाम
भिषिञ्चन्तु भृगवो नाम देवताः ॥ ४६ ॥ मनो मन्ता च प्राणश्च नरोऽपानश्च वीर्यवान् ॥ विनिर्भयो नयश्चैव हंसो नारायणस्तथा ॥ ४७ ॥
विभुश्चापि प्रभुश्चापि देवश्रेष्ठा जगद्धिताः ॥ एते त्वामभिषिञ्चन्तु साध्या द्वादश पार्थिव ॥ ४८ ॥ धाता मित्रोऽर्यमा पूषा शक्रोऽथ वरुणो भगः ॥
त्वष्टा विवस्वान्सविता विष्णुर्द्वादशमस्तथा ॥ ४९ ॥ एते त्वामभिषिञ्चन्तु कश्यपादितिसम्भवाः ॥ एकज्योतिश्च द्विज्योतिस्त्रिज्योतिर्वसुर्विस्तरेव चा
॥ ५० ॥ एकशुक्रो द्विशुक्रश्च त्रिशुक्रश्च महाबलः ॥ इन्द्राश्च गत्या दृश्यन्ते ततः प्रतिसकृत्तया ॥ ५१ ॥ मितश्च संमितश्चैव अमितश्च महा
बलः ॥ ऋतजित्सत्यजिच्चैव सुषेणः सत्यजित्तथा ॥ ५२ ॥ अतिमित्रो नमित्रश्च पुरुमित्रः पुरानितः ॥ ऋतश्च ऋतधाता च विधाता धार
णो ध्रुवः ॥ ५३ ॥ विधारणो महातेजा वासवस्य परः सखा ॥ ईदृक्षाश्चाप्यदृक्षाश्च एतादृग्गमिताशनः ॥ ५४ ॥ क्रतितः प्रसद्दक्षश्च सरम्भश्च महा
यशाः ॥ धातुरुग्रोऽवनिभिमो ह्यतिमुक्तः क्षिपः सहः ॥ ५५ ॥ द्युतिर्वपुर्नराणाञ्च्यो वासः कामो जयो विराट् ॥ एते त्वामभिषिञ्चन्तु मरुतस्ते समा
गताः ॥ ५६ ॥ देवा एकोनपञ्चाशन्महाबलपराक्रमाः ॥ चित्राङ्गदश्चित्ररथश्चित्रसेनश्च वीर्यवान् ॥ ५७ ॥ ऊर्णायुर्नग्नधश्चैव उग्रसेनश्च वीर्य
वान् ॥धृतराष्ट्रश्च गोपश्च सूर्यवर्चास्तथैव च ॥ ५८ ॥ युगपस्तृणपः कार्ष्णिर्नन्दिंश्चैवस्तथैव च ॥ कलिः शालिः शिरा राजन्पर्जन्यो नारदस्तथा
॥ ५९ ॥ वृषपर्वा च हंसश्च तथा चैव हहा हूहूः ॥ विश्वावसुस्तुम्बुरुश्च तथा च सुरुचिंश्च यः ॥ ६० ॥ एते त्वामभिषिञ्चन्तु गन्धर्वाः पृथिवी
पते ॥ आहुत्यस्ता भवन्त्यश्च वगैवत्यस्तथैव च ॥ ६१ ॥ आयुर्वत्यस्तथोजोश्व तथा वै कुरुवाः स्तवाः ॥ वह्न्यायुश्चामृतायुश्च भुवश्चैव रुचस्तथा
॥ ६२ ॥ भैरवः शोभयंन्त्यश्च दिव्या याश्चाप्सरोगणाः ॥ एते त्वामभिषिञ्चन्तु समागत्य महीपते ॥ ६३ ॥ अनवद्या सत्यकामा चानूना वरगुणा
प्रिया ॥ अनूपा सुभगा चैव सुकेशा च मनोवती ॥ ६४ ॥ मेनका सहजन्या च पर्णाशा पुञ्जिकस्थला ॥ कृतस्थला घृताची च विश्वाची पूर्व
चित्तिपि ॥ ६५ ॥ प्रम्लोचा चाप्यनुम्लोचा रंभा चैवोर्वशी तथा ॥ पञ्चचूडा सातुमती चित्रलेखा च पार्थिव ॥ ६६ ॥ मिश्रकेशी मरीचिश्च

वि० ध० । द्वि० खं० अ० २२ ॥१८३॥ । ॥१८४॥

विद्युत्पर्णा तिलोत्तमा ॥ अद्रिका लक्ष्मणा क्षेपा असिता रुचिका तथा ॥ ६७॥ सुहेमा चाथ हेमा च शाद्वली च वपुस्तथा ॥ सुव्रता च सुबाहुश्च सुगन्धा सुवपुस्तथा ॥ ६८॥ पुण्डरीका सुदाना चासुदाना सुवसा तथा ॥ हेमा शारद्वती चैव सुवृता कमलालया ॥६९॥ सुकुचों हंसपादी च वारुणी रतिलालसा ॥ एतास्त्वामभिषिञ्चन्तु राजनप्रसरः शुभाः ॥ ७०॥ प्रह्लादश्च महातेजास्तथा राजनविरोचनः ॥ बलिवर्णोपनामत्थान्ये च दितिसुताः समागताः ॥ ७१॥ अभिषिञ्चन्तु दैत्यास्त्वां दिव्यैर्नाद्यैरथाम्भसा स्वयम् ॥ विप्रचित्तिर्मुखैः सर्वै दानवास्त्वां समागताः ॥ ७२ ॥ अभिषिञ्चन्तु राजेन्द्र राजन्द्र राजशार्वण सम्बरः ॥ हेतिश्च प्रहेतिश्च माली शङ्कस्तथैव च ॥ ७३ ॥ सुकेशौ पौरुषेयश्च यज्ञा पुरुषाधमः ॥ विद्युत्स्फूर्जस्तथा व्याधो वधश्च स्मनस्तया ॥ ७४ ॥ एते त्वामभिषिञ्चन्तु समागम्याथ राक्षसाः ॥ सिद्धार्थो मणिभद्रश्च सुमनो नन्दनस्तथा ॥ ७५ ॥ काण्डभिः पञ्चमश्चैव मणिमाल्यथास्तित था ॥ सर्वाभूतः शंखश्च पिङ्गलाक्षस्तदस्तथा ॥ ७६ ॥ यशा मन्दरशोभा च पञ्चचन्द्रप्रभङ्गराः ॥ मेघवर्णः सुभद्रश्च प्रद्योतश्च महाद्यसः ॥ ७७॥ द्युतिमान्केतुमांश्चैव मौलिमांश्च सुदर्शनः ॥ श्वेतश्च विपुलश्चैव पुष्पवन्तो जयावहः ॥ ७८ ॥ पद्मवर्णो वलाक्षश्च कुमुदश्च वलाहकः ॥ पद्मनाभः सुगन्धश्च प्रवरो विजयः कृतिः ॥ ७९ ॥ पूर्णमासो हिरण्याक्षः शतजिह्वश्च वीर्यवान् ॥ एते त्वामभिषिञ्चन्तु राजन्यक्षन्द्र सत्तमाः ॥ ८० ॥ शंखपद्मस्तु राजेन्द्र मकरः कच्छपस्तथा ॥ एते त्वामभिषिञ्चन्तु निधयस्तु समागताः ॥ ८१ ॥ पलगल्लाक्षैवं वक्राक्ष ये च मूर्ची मुखा नृप ॥ दुःखपूर्णा विषादाश्च ज्वलनाङ्गारकास्तथा ॥ ८२ ॥ कुष्मपाताः प्रतुण्डाश्च तपवीरा उलूबलाः ॥ अकर्णाश्च कृपण्डाश्च तथा ये पात्र पाणयः ॥ ८३ ॥ पांसवश्च वितुण्डाश्च निपुणाः स्कन्दनास्तथा ॥ एते त्वामभिषिञ्चन्तु पिशाचानाञ्च जातयः ॥ ८४ ॥ ब्रह्मत्वं स्थिता दान्ताः सर्वज्ञाः सर्वदर्शिनः ॥ नानाप्रकारवदना नानाबाहुशिरोधराः ॥८५॥ चतुष्पथपुराह्लालशून्यालयनिकेतनाः ॥ मधूत्वं भवेर्देवे ये गता मनुजेश्वराः ॥ ८६॥ ते त्वामभिषिञ्चन्तु भूता भूतपतेः स्वयम् ॥ महाकालं पुरस्कृत्य नरसिंहं च मातरः ॥ ८७ ॥ सर्वास्त्वामभिषिञ्चन्तु राजराज्य नराधिप ॥ गृहः स्कन्दो विशालश्च नैगमेयस्तथैव च ॥ ८८ ॥ अभिषिञ्चन्तु राजेस्त्वां सर्वं स्कन्दग्रहाः शुभाः ॥ डाकिन्यो याश्च योगिन्यः खेचरीभूचरीश्च याः ॥ ८९ ॥ सर्वास्त्वामभिषिञ्चन्तु समेत्य मनुजेश्वर ॥ गरुडश्चारुणश्चैव आरुणिथ महायशाः ॥ ९० ॥ संपाती विनतश्चैव विष्णुगन्धः कुमारकः ॥ एते त्वामभिषिञ्चन्तु सुपर्णाः पृथिवीपते ॥ ९१ ॥ अनन्तश्च महानागः शेषो वासुकिस्तक्षको ॥ सुपर्णोश्च कुम्भश्च


१ ‘पुष्पदकः’ इति ख० । २ ‘फगालोक्षैव’ इति ख० ।

वामनश्चाञ्जनस्तथा ॥ ९२ ॥ ऐरावतो महानागः कम्बलाश्वतरावुभौ ॥ ऐलमन्त्रश्च शंखश्च कर्कोटकधनंजयौ ॥ ९३ ॥ महाकर्णोमहानीलो धृतराष्ट्रबलाहकौ ॥ कुमारः पुष्पद्रुन्तश्च सुमुखो दुर्मुखस्तथा ॥ ९४ ॥ सूचीमुखो दधिमुखः कालियः शालिपिण्डकः ॥ बिल्वपादः पाण्डुरको नागश्चापूरणस्तथा ॥ ९५॥ कपिलाश्चाम्बरीषश्च कुमारश्चाथ कश्यपः ॥ प्रह्लादः पुष्पदन्तश्च गन्धर्व्वश्च मनस्विकः ॥ ९६ ॥ नहुषः स्वरोमा च शंखपालस्तथैव च ॥ पद्मश्च कुलिकश्चैव पाणिरित्येवमादयः ॥ ९७ ॥ नागास्त्वामभिषिञ्चन्तु राजराज्वेन पार्थिव ॥ कुसुमैरगणौ पद्मः पुष्पदन्तोऽथ वामनः ॥ ९८ ॥ सुप्रतीकोऽञ्जनो नीलः पान्तु त्वां सर्वतः सदा ॥ चक्रं त्रिशूलं वज्रञ्च नन्दकोऽक्षाणि चाप्यथ ॥ ९९ ॥ पैतामहस्तथा हंसो वृषभः शङ्करस्य च ॥ दुर्गासिंहश्च पान्तु त्वां यमस्य महिषस्तथा ॥ १०० ॥ उच्चैःश्रवाश्चाश्वपतिस्तथा धन्वन्तरिर्नृप ॥ कौस्तुभः शंकरोज्ञश्च पान्तु त्वां सर्वतः सदा ॥ १०१॥ सर्वऽभिषेकं दत्त्वा ते दिशन्तु विजयं ध्रुवम् ॥ धर्मश्च व्यवसायश्च सत्यो दानं तपस्तथा ॥ १०२ ॥ यमो यज्ञस्तथा वायुर्ब्रह्मचर्यं दमः शमः ॥ एते त्वामभिषिञ्चन्तु चित्रगुप्तश्च पार्थिव ॥ १०३ ॥ दण्डश्च पिङ्गलश्चैव मृत्युःकालउभा तथा ॥ बालखिल्यास्तथा सर्वे भवन्तु विजयाय ते ॥ १०४॥ दिग्घनवश्चतस्रस्त्वां सुराग्रिमभ्र तथा नृप ॥ अभिषिञ्चन्तु सर्वाभिर्भागिभिः सार्धं नरेश्वर ॥ १०५ ॥ वेदव्यासश्च वाल्मीकिः कमठोऽथ पराशरः ॥ देवलः पर्वतश्चैव दुर्वासाश्च तथा मुनिः ॥ १०६ ॥ याज्ञवल्क्यश्च जाबालिः जमदग्निः शुचिश्रवाः ॥ विश्वामित्रः स्थूलशिराश्च्यवनोऽत्रिर्णिवांदुरथः ॥ १०७ ॥ एकतश्च द्वितश्चैव त्रितो गौतमगालवौ ॥ शाण्डिल्यश्च भरद्वाजो मौद्गल्यो वेदवाहनः ॥ १०८॥ बृहदश्वः कुटिशठो जटाजालवृहटोदरः ॥ यवक्रोतोऽथैरवेश्च आत्मवानथ जैमिनिः ॥१०९॥ ऋषिः शाङ्खरवश्चैव तथागस्त्यो महातपाः ॥ उन्मुचुर्मुचुवश्चैव दृढबाहुर्महोदयः ॥ ११० ॥ कात्यायनश्च कण्वश्च वल्वकाम्बोन्हनन्दनः ॥ एते त्वामभिषिञ्चन्तु ऋषयः पार्थिवोत्तम ॥ १११ ॥ पृथुर्दिलिपो भरतो दुष्यन्तः शत्रुजिद्रली ॥ मनुः ककुत्स्थश्चान्धनेना युवनाश्वो जयद्रथः ॥ ११२ ॥ मान्धाता मुचुकुन्दश्च तथा राजा पुरूरवाः ॥ आयुश्च नहुषश्चैव ययातिश्चपराजितः ॥ ११३ ॥ इक्ष्वाकुश्च यदुश्चैव पुनर्भूरिश्चवास्तथा ॥ अम्बरीषश्च नाभागो बृहद्रथो महारतुः ॥ ११४ ॥ प्रद्युम्नश्चाथ सुद्युम्नो भूरिद्युम्नश्च सृञ्जयः ॥ एते चान्ये च राजानस्तव राजन्दिवाङ्गताः ॥ ११५ ॥ समायान्त्वभिषेकाय विजयाय तथा श्रिये ॥ पर्जन्याद्यास्तथा सर्व वास्तुदेवास्समासतः ॥ ११६ ॥ दुग्धाश्चौषधयो रत्नबीजानि विविधानि च ॥ सर्वै त्वामभिषिञ्चन्तु राजन्राज्येन सत्वराः ॥ ११७ ॥ पुरुषश्चाम्रयात्मा महाभूतानि यानि च ॥ पृथिवीवायुराकाशमापो ज्योतिस्तथैव च ॥ ११८ ॥ मनोबुद्धिस्तथै

ब्री० ध०                                                                       द्वि० खं०
॥१८४॥                                                                         अ० २२

वात्मा अध्यक्षश्च महीपते ॥ एते त्वामभिषिञ्चन्तु समेता वसुधाधिप ॥ ११९ ॥ रक्तभौमः शिलाभौमः पातालो नीलमृत्तिकः ॥
पीतो रक्तक्षितिश्चैव श्वेतभौमस्तथैव च ॥ १२० ॥ एते त्वामभिषिञ्चन्तु विजयाय महीपते ॥ भूर्लोकश्च भुवर्लोकः स्वर्लो-
कोऽथ महज्जनः ॥ १२१ ॥ तपः सत्यञ्च राजेन्द्र विजयाय भवन्तु ते ॥ जम्बूशाककुशक्रोञ्चाः शाल्मलिर्द्वीप एव च ॥ १२२ ॥ गोमेधः
पुष्करश्चैव स्वसाम्यं प्रदिशन्तु ते ॥ उत्तराः कुरवः पुण्या रम्या हैमवतस्तथा ॥ १२३ ॥ भद्राश्वः केतुमालञ्च वर्षञ्चैव इलावृतः ॥ हरिवर्षः
किंपुरुषो वर्षं भारतसंज्ञिकः ॥ १२४ ॥ एते त्वामभिषिञ्चन्तु समेत्य वसुधाधिप ॥ इन्द्रद्वीपः कशेरुश्च ताम्रपर्णो गभस्तिमान् ॥ १२५ ॥
नागद्वीपस्तथा सौम्यो गान्धर्वो वारुणस्तथा ॥ अयं चरुसमस्तेषां स्वसाम्यं प्रदिशन्तु ते ॥ १२६ ॥ हिमवान्हेमकूटश्च निषधो
नीलपर्वतः ॥ श्वेतश्च शृङ्गवान्मेरुर्मल्यवान्गन्धमादनः ॥ १२७ ॥ महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवांस्तथा ॥ विन्ध्यश्च पारियात्रश्च सर्वे एव
महीधराः ॥ १२८ ॥ समागम्याभिषिञ्चन्तु त्वामद्य वसुधाधिप ! ॥ ऋग्वेदोऽथ यजुर्वेदः सामवेदस्तथैव च ॥ १२९ ॥ अथर्ववेदो वेदान्तमद्यम-
भिषिञ्चन्तु पार्थिव ॥ इतिहासो धनुर्वेदो गन्धर्वश्चायुसंज्ञितः ॥ १३० ॥ वेदोपवेदाश्च तथा विजयाय भवन्तु ते ॥ शिक्षा कल्पो व्याकरणं
निरुक्तं ज्योतिषाङ्कितः ॥ १३१ ॥ छन्दोविचितिरित्यानि विजयं प्रदिशन्तु ते ॥ अङ्गानि वेदशस्त्राणां मीमांसा न्यायविस्तरः ॥ १३२ ॥
धर्मशास्त्रं पुराणञ्च विद्या एताश्चतुर्दश ॥ सांख्यंयोगः पञ्चरात्रं वेदाः पाशुपतं तथा ॥ १३३ ॥ कृतान्तपंचकं ह्येतच्छास्त्राणि विविधानि च ॥
गायत्री पापशमनी दुर्गा देवी महाशिवा ॥ १३४ ॥ गन्धर्वी च तथा विद्या विजयं प्रदिशन्तु ते ॥ देवदानवगन्धर्वयक्षराक्षसपन्नगाः ॥ १३५ ॥
ऋषयो मनवो गावो देवमातर एव च ॥ देवपत्न्यो द्रुमा नागाः दैत्याश्चाप्सरसाङ्गणाः ॥ १३६ ॥ शस्त्राणि सर्वशास्त्राणि गजाश्वा वाहनानि च ॥
ओषधानि च रत्नानि कालस्यावयवास्तथा ॥१३७॥ स्थानानि च समस्तानि पुण्यान्यायतनानि च ॥ जीमूतानि च सर्वाणि तडित्काश्च न-
तथा ॥ १३८ ॥ उक्तानि चाऽप्यनुक्तानि विजयाय भवन्तु ते ॥ लवणः क्षीरतोयश्च घृतमण्डोदकस्तथा ॥ १३९ ॥ दधिमण्डोदकश्चैव सुराऽब्धिश्च
नराधिप ॥ तथैवेक्षुरसोदश्च तथा स्वादूदकश्च यः ॥ १४० ॥ गभीराश्च स्वतोयेस्त्वामभिषिञ्चन्तु पार्थिव ॥ चन्द्रभागश्च गङ्गा चैव स्व-
तोयेन पार्थिव ॥ १४१ ॥ समागम्याभिषिञ्चन्तु विजयं प्रदिशन्तु ते ॥ पुष्करञ्च प्रयागञ्च प्रभासो नैमिषस्तथा ॥ १४२ ॥ तथा ब्रह्मसरः पुण्यं
गयाशीर्षं च पार्थिव ॥ कालोदको नन्दिकुण्डः तथैवोत्पलमानसः ॥ १४३ ॥ स्वर्गमार्गप्रदश्चैव तथा पञ्चनदश्च यः ॥ भृगुतीर्थं

                                                                               ॥१८४॥

चौजसश्च तथैवामरकण्टकः ॥ १४४ ॥ आश्रमः कालिकायाश्च तृणबिन्दोस्तथाश्रमः ॥ गोपत्तीर्थं चापत्तीर्थं विमलः स्वर्ग एव च ॥ १४५ ॥ जम्बूमार्गश्च राजेन्द्र पुण्यस्तण्डुलिकाश्रमः ॥ कपिलस्य तथा तीर्थं तीर्थं वटिकषण्डिके ॥ १४६ ॥ महासरस्तथागस्त्यः कुमारी तीर्थं एव च ॥ गङ्गातीरः कुशावर्ती बिल्वको नीलपर्वतः ॥ १४७ ॥ वराहपर्वतश्चैव तीर्थः कनखलस्तथा ॥ स्वर्गन्था वशकुम्भा च तथा शाक- म्भरी च या ॥ १४८ ॥ भृगुतुङ्गः सकुब्जाम्रः कपिलस्य तथाश्रमम् ॥ १४९ ॥ चमोसोद्भेदतः पुण्यस्तथा विनाशनः शुभः ॥ अजतुङ्गश्च सोमश्च अजोगन्यश्च पार्थिव ॥ कालञ्जरश्च केदारो रुद्रकोटिस्तथैव च ॥ १५० ॥ महालयश्च राजेन्द्र वदनाश्रम एव च ॥ नन्दा च सूर्यतीर्थं च सोमतीर्थं शतक्रतोः ॥ १५१ ॥ अश्विनोर्वरुणस्यापि वायोर्वैश्ववणस्य च ॥ ब्रह्मणश्चैव शर्वस्य यमस्य च्यवनस्य च ॥ १५२ ॥ विरूपाक्षस्य धर्मस्य तथा चाप्सरसां नृप ॥ ऋषीणां च वसूनां च साध्यानां मरुतां तथा ॥ १५३ ॥ आदित्यानां च रुद्राणां तथा चाङ्गिरसां नृप ॥ विश्वे- देवभृगूणां च गन्धर्वाणां च मानद ॥ १५४ ॥ पुक्षप्रस्रवणश्चैव सुषेणश्च नराधिप ॥ शालियामसरश्चैव वराहो वामनस्तथा ॥ १५५ ॥ कामं श्रमत्रिकूटश्च चित्रकूटस्तथैव च ॥ सतर्चः क्रतुसारश्च तथा विष्णुपदं सरः ॥ १५६ ॥ कपिलस्य तथा तीर्थं वासुकैस्तीर्थमेव च ॥ सिन्धूत्तमं तपो दानं तथा शूर्पाकरः शुभः ॥ १५७ ॥ पौण्डरीकश्च राजेन्द्र गङ्गासागरसङ्गमः ॥ सिन्धुसागरयोश्चैव सङ्गमः सुमनोहरः ॥ १५८ ॥ तथा कुन्दावसुन्ध्वश्च मानसं च महत्सरः ॥ तथा बिन्दुसरः पुण्यं सश्रच्छोदकं तथा ॥ १५९ ॥ धर्मारण्यं फलुतीर्थं सविमुक्तं तथैव च ॥ लौहित्यश्च तथा पुण्यो बदरीपावनः शिवः ॥ १६० ॥ तीर्थं सतप्तर्षीणां च वशिष्ठतीर्थं च पार्थिव ॥ वस्त्रापथस्ततो मेषशृङ्गालेशश्च पार्थिव ॥ ॥ १६१॥ पुष्पव्यासस्तसकामोशस्तीर्थो हंसपदस्तथा ॥ अश्वशीर्षः स कृष्णाख्यो मणिभद्रस्तथैव च ॥ १६२ ॥ देविका सिन्धुमार्गश्च स्वर्णबिन्दुस्त- थैव च ॥ आहल्यकस्तथा तीर्थस्तीर्थश्चैरावतस्तथा ॥ १६३॥एरावतिसुमुद्वेद्रे तीर्थं भोगयस्तस्तथा ॥ करवीराश्रमश्चैव नागमोदानिकस्तथा ॥ १६४॥ पापमोचनिकश्चैव ऋणमोचनिकस्तथा ॥ उद्धेजनस्तथा पुण्यः पुण्यश्च हरिशेधरः ॥ १६५ ॥ देवब्रह्मसरः पुण्यं सर्पिदर्वी च पार्थिव ॥ एते चान्ये च बहवः पुण्यसङ्कीर्तिताः शुभाः ॥ १६६ ॥ तोयेस्तत्वामभिषिञ्चन्तु सर्वपातकनाशनैः ॥ गङ्गा महानदी पुण्या ह्लादिनी बाहिनी तथा ॥ ॥ १६७ ॥ पावनी च तथा सीता चक्षुः सिन्धुश्च नर्मदा ॥ सुप्रभा कातराक्षी च शिथिला मानसी हृदा ॥ १६८ ॥ सरस्वत्योचनादा च सुवे- र्णाविमलोदका ॥ सिप्रा शोणः शतद्रुश्च सरयूर्गण्डकी तथा ॥ १६९ ॥ अच्छोदा च विपाशा च चन्द्रभागा इरावती ॥ वितस्ता देविका रम्भा

वि० ध० ॥१८५॥ द्वि० खं० अ० २२

सीता दृषद्वदा शिवा ॥ १७० ॥ तथैवक्षुमती पुण्या कौशिकी यमुना तथा ॥ गोमती धूतपापा च बाहुदा च दृषद्वती ॥ १७१ ॥ निश्चीरा च तृतीया च लौहित्यश्च महानदः ॥ वेदस्मृतिर्वेदसिन्ती वेत्रवञ्जी वरदा तथा ॥ १७२ ॥ वर्णा मा चन्दना चैव बहुनागा कुहूद्वती ॥ पारा चर्मण्वती रूपा विदिशा वेणुमत्यपि ॥ १७३ ॥ अवन्ती च तथा कुन्ती सुरसा च पयोष्णिी ॥ मन्दाकिनी दशार्णा च चित्रकूटा दृषद्वती ॥ १७४ ॥ तमसा पिप्पला सेनी करमोदा पिशाचिका ॥ चित्रोत्पला चित्रवर्णा मंजुला बालुकावती ॥ १७५ ॥ शुक्तिमती सिन्धौ गन्ध्वा मङ्गुणातप्यकान्तः ॥ तापी पयोषणी निर्बन्ध्या सिता च निषधावती ॥ १७६ ॥ दया वैतरणी भीमा चर्मा रामा तथा कुहूः ॥ तोया चैव महागौरी दुर्गा मतृशिला तथा ॥ १७७ ॥ गोदावरी भीमरथी कृष्णा वेणा च वंजुला ॥ तुङ्गभद्रा सुप्रयोगा वाह्या कावेरयेव च ॥ १७८ ॥ कृतमाला ताम्रपर्णा पुष्पजा ह्युत्पलावती ॥ त्रिसमा ऋषिकुल्या च इक्षुका त्रिदिवालया ॥ १७९ ॥ लाङ्गलिनी वंशधरा सुकुमारा कुलावती ॥ ऋषिका कारिवेगा च मन्दगा मन्दवाहिनी ॥ १८० ॥ कृपा दुर्वा दया व्योमा दृगेष्णा कोलजा हिनी ॥ कम्पना च विरशल्या च करतोयांशुवाहिनी ॥ १८१ ॥ ताम्रारुणा वेत्रवती गोमती चाथ नद्यपि ॥ अङ्गिणी क्लिन्ना चैव सुपक्रणा हिरण्वती ॥ १८२ ॥ आपगा चालका भासी सन्ध्या च मडवा नदी ॥ नन्दा चारुकरेतन्द्रा च जुङ्गा च वसुवाहिनी ॥ १८३ ॥ एताश्चान्याश्च राजेन्द्र नद्यस्त्वो विमलोदकाः ॥ सर्वपापप्रशमनास्सर्वलोकस्य मातरः ॥ स्वतोयपूर्णैः कलशैरभिषिञ्चन्तु पार्थिव ॥ १८४ ॥ एतेष्वर्थामिषेतुप राजराज्ये दत्ताभिषेकः पृथिवीं समग्राम् ॥ ससागरां भुंक्त्व चिरं च जीव धर्मं च ते बुद्धिरतीव चास्तु ॥ १८५॥

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० भार्गवरामं प्रति पुष्करव्यास्यानोऽभिषेकमन्त्रो नाम द्वाविंशतितमोऽध्यायः॥२२॥

पुष्कर उवाच ॥ मन्त्रा ये कीर्तिता राम मयाभिषेकमन्त्र भार्गव ॥ तेषां संकीर्तनं धन्यं सर्वपापप्रणाशनम् ॥ १॥ एतेषां कल्पसृत्याय यः कुर्यात्कीर्तनं नरः ॥ सर्वपापविनिर्मुक्तः स्वर्गलोकमवाप्नुयात्॥२॥ तिर्यग्योनिं न गच्छेत्तु नरकं संकराणि च ॥ न च दुःखं न च भयं मरणं न च बुद्ध्यति ॥ ३ ॥ एतेषां न नमस्कारं यः कुर्यान्नियतो नरः ॥ न तस्य तिष्ठते पापमबिन्दुरिव पुष्करे ॥ ४॥ एतेषां तर्पणं कृत्वा स्नातः प्रयतमानसः ॥ महापातकयुक्तोऽपि त्वेववाहिर्विमुच्यते ॥ ५ ॥ इत्येषां पुष्पदनेन महतीं श्रियमश्नुते ॥ एतेषां चार्च्यदानेन पूज्यो भवति मानवः ॥ ६ ॥ एतेषां दीपदानेन भ्राजन्तं चन्द्रवद्दिवि ॥ एतेषामाहुतिं दत्त्वा कामानामोति पुष्कलान् ॥ ७॥ नैवेद्यं च बलिं दत्त्वा भोगानभ्रामोत्यनुत्तमान् ॥ एतामुद्दिश्य विप्रेषु दद्या मानव भोजनम् ॥ ८ ॥

॥१८६॥

संतर्प्य दक्षिणाभिश्च त्रिदिवं प्राप्नुयाच्चिरम् ॥ अभिषेकदिने राज्ञां पुष्पस्नाने तथैव च ॥ ९ ॥ तथा संवत्सराद्गन्धे सर्वे पूज्या हितैषिणा ॥ यानि तीर्थानि चोक्तानि सरितश्च समासतः ॥ १० ॥ तेषां गमनेन पूज्यन्ते येऽपि पातकिनो जनाः ॥ स्नानं महाफलं तेषां तपः श्राद्धं क्रियास्तथा ॥ ११ ॥ दानं बहुफलं प्रोक्तं दर्शनं पापनाशनम् ॥ कीर्तनं भार्गवश्रेष्ठ न मे चास्ति विचपणा ॥ १२ ॥ तीर्थेष्वेतेषु सुपूण्यान स्नाता नरा यान्ति नरेन्द्र सद्यः॥ तीर्थानि गम्यान्यि ततः प्रयत्नात्पुण्याश्च सर्वास्समितिश्च गम ॥ १३ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे तीर्थफलवर्णनो नाम त्रयोविंशतितमोऽध्यायः ॥ २३ ॥ ॥ गम उवाच ॥ ॥ गजोऽभिषिक्तामन्त्रस्य किन्नु कृत्यतमं भवेत् ॥ एतन्मे सर्वमाचक्ष्व सर्ववेत्ति यतो भवान् ॥ १ ॥ ॥ पुष्कर उवाच ॥ अभिषेकार्द्रशिरा राजा राजीवलोचन ॥ सहायवर्णनं कार्यं तत्र राज्यं प्रतिष्ठितम् ॥ २ ॥ यदल्पतरं कर्म तदेकेन दुष्करम् ॥ पुरुषेणासहायेन किन्नु राज्यं महत्पदम् ॥ ३ ॥ तस्मात्सहायान्रयेत्कुलीनान्नृपतिः स्वयम् ॥ शूराञ्छुतमजातियान्बल्युक्ताञ्छूतिनान्वितान् ॥ ४ ॥ रूपसत्त्वगुणोपेतान्र्संयुक्तांश्च मया युतान् ॥ क्लेशक्षमान्महोत्साहान्धर्मज्ञांश्च प्रियंवदान् ॥ ५ ॥ हितोपदेशिकान्प्राज्ञांस्वामिभक्त्यान्विशोधिनः ॥ एवं विधान्सहायांस्तु शुभ कर्मणि योजयेत् ॥ ६ ॥ गुणहीनानपि तथा विज्ञाय नृपतिः स्वयम् ॥ कर्मस्वेव नियुञ्जीत यथायोग्येषु भार्गव ॥ ७ ॥ कुलीनाः शीलसंपन्ना धनुर्वेदविशारदाः ॥ हस्तिशिक्षाश्वशिक्षासु कुशलाश्लक्ष्णभाषिणः ॥ ८ ॥ निमित्ते शकुनज्ञाने वित्तेविद्यचिकित्सके ॥ पुरान्तर्विज्ञाने पाण्ड्य प्येन विनिश्चिताः ॥ ९ ॥ कृतज्ञाः कर्मणां शूरास्तथा क्लेशसहा भृगुः ॥ व्युत्पन्नतत्त्वविद्वांसः फलसारविशेषवित् ॥ १० ॥ राजां सेनापतिः कार्यों ब्राह्मणः क्षत्रियोऽथवा ॥ प्रांशुः सुरूपो दक्षश्च प्रियवादी न चोद्धतः ॥ ११ ॥ चित्तमाज्ञाय सर्वेषां प्रतीहारो विधीयते ॥ यथोक्तवादी धूर्तः स्याद्देशभाषाविशारदः ॥ १२ ॥ शाब्दः क्लेशसहो वाग्मी देशकालविभाषिता ॥ विज्ञाय देशं कालं वा हितं यत्स्या न्महीक्षितः ॥ १३ ॥ वक्तापि तस्यः यः काले स दूतो नृपतेर्भवेत् ॥ प्रांशुवो व्यायताः शूरा दृढभक्ता निराकुलाः ॥ १४ ॥ राज्ञा तु रक्षिणः कार्यास्तदा क्लेशसहा हिताः ॥ अहार्याश्चानृशंसाश्च दृढभक्तोश्च पार्थिवे ॥ १५ ॥ ताम्बूलधारी भवति नारी चाप्यथ तद्गुणा ॥ पाड्गुण्यविधि तत्त्वज्ञो देशभाषाविशारदः ॥ १६ ॥ सन्धिविग्रहकः कार्यो राजा नयविशारदः ॥ आयव्ययज्ञो लेखज्ञो देशोत्पत्तिविशारदः ॥ १७ ॥ कृतकृतज्ञो भृत्यानां ज्ञेयः स्यादक्षदर्शिता ॥ सुरूपस्तरुणः शूरो दृढभक्तः कुलोचितः ॥ १८ ॥ शूरः क्लेशसहश्चैव खड्गधारी प्रकीर्तितः ॥ १९ ॥

वि० ध० ॥१८६॥

द्वि० खं० अ० २४

बहुश्रुतश्च गजाश्वरथकोविदः ॥ १९ ॥ कोषाध्यक्षो भवेत्प्राज्ञः सदा क्लेशसहश्च यः ॥ निमित्तशकुनज्ञानहयशिक्षाविशारदः ॥ २० ॥ हयायुर्वेदतत्त्वज्ञो भूमिभागविशेषवित् ॥ बलवांल्लोभहीनो वा स्थिरबुद्धिर्विशारदः ॥ २१ ॥ शूरश्च कृतविद्यश्च सारथिः परिकीर्तितः ॥ अनाहार्यः शुचिर्दक्षः चिकित्सकस्ततोरतः ॥ २२ ॥ सूपशास्त्रविधानज्ञः सदाध्यक्षः प्रशस्यते ॥ सूपशास्त्रविधानज्ञाः परा मेध्याः कुलोद्गताः ॥ २३ ॥ सर्वे महानसे कार्या नीचकेशनखा जनाः ॥ समः शत्रौ च मित्रे च धर्मशास्त्रविशारदः ॥ २४ ॥ विप्रमुख्यः कुलीनश्च धर्माधिकरणो भवेत् ॥ कार्यास्तथाविधास्तत्र द्विजमुख्याः सभासदः ॥ २५ ॥ सर्वदेशाक्षराभिज्ञः सर्वशास्त्रविशारदः ॥ लेखकाः कथिता राम सर्वाधिकरणेषु वै ॥ २६ ॥ शोधितोक्तान्सम्पूर्णान्सम- द्रोणीगतान्समान् ॥ अक्षरान्ल्लिखेद्यस्तु लेखकः स वरः स्मृतः ॥ २७ ॥ उपायवाक्यकुशलः सर्वशास्त्रविशारदः ॥ बहुवक्ता चाल्पेन लेखकः स्याद्गुणोत्तम ॥ २८ ॥ पुरुषान्तरतत्त्वज्ञाः प्रांशवश्चाप्यलोलुपाः ॥ धर्माधिकरणे कार्या जनाह्वानकरा नराः ॥ २९ ॥ एवंविधास्तथा कार्या राज्ञो दौवारिका जनाः ॥ लोहवस्त्रादिधातूनां रत्नानां च विभागवित् ॥ ३० ॥ विज्ञाता फल्गुसाराणां त्वनाहार्यः शुचिस्सदा ॥ निपुणश्चा- प्रमत्तश्च धनाध्यक्षः प्रकीर्तितः ॥ ३१ ॥ आयद्वारेषु सर्वेषु धनाध्यक्षसमा नराः ॥ व्ययद्वारेषु सर्वेषु कर्तव्याः पृथिवीक्षिता ॥ ३२ ॥ पुरं पारं गतो यः स्याद्दृष्टेऽङ्गे चिकित्सिते ॥ अनाहार्यस्स वैद्यः स्याद्दात्मा च कुलोद्गतः ॥ ३३ ॥ प्राणाचार्यस्स विज्ञेयो वचनं तस्य भूभुजा ॥ राम स्नेहात्सदा कार्यं यथा कार्यं पृथग्जनैः ॥ ३४ ॥ हस्तिशिक्षाविधानज्ञो वनजातिविशारदः ॥ क्लेशक्षमस्तथा राज्ञो गजाध्यक्षः प्रशस्यते ॥ ३५ ॥ एतैरेव गुणैर्युक्तो स्वाधीनश्च विशाम्पते ॥ गजारोहो नरेन्द्रस्य सर्वकर्मसु शस्यते ॥ ३६ ॥ हयशिक्षाविधानज्ञ- स्तांश्चिकित्सितपारगः ॥ अश्वाध्यक्षो महीभर्तुः स्वातन्त्रश्च प्रशस्यते ॥ ३७ ॥ अनाहार्यश्च शूरश्च तथा प्राज्ञः कुलोद्गतः ॥ दुर्गाध्यक्षः स्मृतो राम उद्युक्तः सर्वकर्मसु ॥ ३८ ॥ वास्तुविद्याविधानज्ञो लघुहस्तो जितश्रमः ॥ दीर्घदर्शी च शूरश्च स्थपतिः परिकीर्तितः ॥ ३९ ॥ यन्त्रमुक्ते पाणिमुक्ते अमुक्ते मुक्तधारिते ॥ अस्त्राचार्या नियुङ्के च कुशलञ्च तथेष्यते ॥ ४० ॥ पञ्चाशदधिका नार्यः पुरुषाः सप्ततिस्तथा ॥ अन्तःपुरचराः कार्या राज्ञा सर्वेषु कर्मसु ॥ ४१ ॥ स्थविरा जातितत्त्वज्ञाः सततं प्रतिजाग्रतः ॥ गवां स्याद्गवाश्वागारे दक्षः कर्मसु चोद्यतः ॥ ४२ ॥ कर्माण्याख्यायमानानि राज्ञां शृणुकुलोद्वह ॥ उत्तमाधममध्यानि बुद्ध्या कर्माणि पार्थिव ॥ ४३ ॥ उत्तमाधममध्यांस्तु पुरुषांन्विनियोजयेत् ॥ न कर्मणि विपर्यासद्राज्ञा नाशमवाप्नुयात् ॥ ४४ ॥ नृपकृत्येषु भक्तिः श्रुतं शौर्यं बलं कुलम् ॥

॥१८६॥

ज्ञात्वा वृत्तिर्विधातव्या पुरुषाणां महीक्षिता ॥ ४५ ॥ पुरुषान्तरविज्ञाने तत्त्वमात्रनिबन्धनाः ॥ नरेन्द्रलक्ष्या धर्मज्ञास्तत्रायतौ भवेन्नृपः ॥४६॥
स्वभृत्यांश्च तथा पुत्रांस्ततं प्रतिमानिताः ॥ राजा सहायाः कर्तव्याः पृथिवीं जेतुमिच्छता ॥४७॥ यथार्ह चाथ सुभृतात्राजा कर्मसु योजयेत् ॥
धर्म्याण्यान्वीक्षकयिँषु शूरान्संग्रामकर्मणि ॥ ४८ ॥ निपुणानर्थकृत्येषु सर्वत्र च तथा शुचीन् ॥ क्लींबु षण्ढान्नियुञ्जीत तीक्ष्णान्दारुणकर्मसु ॥४९॥
धर्मे चार्थे च कामे च भये च भृशुनन्दन ॥ राजा यथार्हं कुर्यात्ताननुपधाभिः परीक्षितान् ॥ ५० ॥ समतीतो यथार्हाणां कुर्याद्बिभित्तवेनं
चरान् ॥ उत्पादनन्वेषणे यत्तानध्यक्षांस्तत्र कारयेत् ॥ ५१ ॥ एवमादीनि कर्माणि यानि राज्ञां भृगूत्तम ॥ सन्तानिकानि न कुर्वन्ति तस्मात्तानन्विभूष्यान्नृपः
राज्ञांस्तीक्ष्णोपकरणक्षयः ॥ ५२ ॥ पापसाध्यानि कर्माणि यानि राज्ञां
॥ ५३ ॥ नेष्यते पृथिवीशानां तीक्ष्णोपकरणक्षयः ॥ यस्मिन्कर्मणि यस्य स्वादेशेषण च कौशलम् ॥ ५४ ॥ तस्मिन्कर्मणि तं राजा
परीक्ष्य विनियोजयेत् ॥ पितृपितामहान्भृत्यान्सर्वकर्मसु योजयेत् ॥ ५५ ॥ विना दायादकृत्येषु तत्र ते हि समासततः ॥ राजा दायादकृत्येषु
परीक्ष्य स्वकृतान्नरान् ॥ ५६ ॥ नियुञ्जीत महाभागः तस्य ते हितकारिणः ॥ परराज्यगृहान्भ्रातृन्संसंग्रहकाम्यया ॥ ५७ ॥ उद्धाव्याप्य
वा दुष्टान्संश्रयेत प्रयत्नतः ॥ दुष्टं विज्ञाय विश्वासं न कुर्यात्तत्र भूमिपः ॥ ५८ ॥ वृत्तिं तस्यापि वर्त्तेत जनसंग्रहकाम्यया ॥
राजा देशान्तरप्राप्तं पुरुषं पूजयेद्भृशम् ॥ ५९ ॥ सहायं देशसंप्राप्तं बहुमानेन चिन्तयेत् ॥ कामं भृत्यार्जने राजा नैव कुर्याद्धनक्षयम् ॥ ६० ॥
न वै वासं विभक्तं तु भृत्यं कुर्यात्कथञ्चन ॥ शत्रुमग्निं विषं सर्पारिनिंविशामपि चेकतः ॥ ६१ ॥ भृत्या मनुजशार्दूल कुप्यन्त्याश्च तथैकतः ॥ तेषां
चारेण विज्ञानं राजा विज्ञाय नित्यशः ॥ ६२ ॥ गुणिनां पूजनं कुर्यान्निर्गुणानां च शासनम् ॥ कथिताः सततं राम राजानश्चारचक्षुषः ॥
॥ ६३ ॥ स्वदेशे परदेशे च जातिशीलान्विचक्षणान् ॥ अनाहार्याञ्कुशलाञ्छूराँस्त्रियुञ्जीत सदा चरान् ॥ ६४ ॥ जनस्र्यावितवातन्सौम्याँस्तथा
ज्ञातानस्परम् ॥ वणिजो मन्त्रकुशलान्संवत्सरचिकित्सितान् ॥ ६५ ॥ तथा प्रव्राजिताकारात्राजा चारन्नियोजयेत् ॥ नैकस्य राजा श्रद्दध्या
चारस्यापि च भाषितम् ॥ ६६ ॥ द्वयोस्संवादमाज्ञाय सन्दध्यान्नृपतिस्ततः ॥ परस्परस्याविदितौ यदि स्यातां न ताबभौ ॥ ६७ ॥ तस्माद्राज्ञां
प्रयत्नेन गूढांश्चारान्प्रयोजयेत् ॥ राज्यस्य मूलमेतावद्वृक्षस्येवारुदिष्टिता ॥ ६८ ॥ चारणामपि यत्नेन राजा कार्यं परीक्षणम् ॥ गणापरागौ
भृत्यानां जनस्य च गुणगुणान् ॥ ६९ ॥ उन्मानामक्षुभानां च विज्ञानं राम कर्मणाम् ॥ सर्वं राज्ञां चरायत्तं तेष्वायत्तस्सदा भवेत् ॥ ७० ॥

३२

कर्मणा केन मे लोके जनस्सर्वेऽनुरज्यते ॥ विरज्यते तथा केन विज्ञेयं तन्महीक्षिता ॥ विरागजननं सर्वं वर्जनीयं प्रयत्नतः ॥ ७१ ॥ जनानुरागप्रभवो हि लक्ष्म्यो राज्ञां यतो भार्गववंशचन्द्र ॥ तस्मात्प्रयत्नेन नरेन्द्रसूनोः कार्योऽनुरागो भुवि मानवेषु ॥ ७२ ॥ इति श्रीविष्णुधर्मो त्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे सहायसम्पत्तिर्नाम चतुर्विंशोऽध्यायः ॥ २४ ॥ ॥ पुष्कर उवाच ॥ यथातुवर्तितव्यं स्याद्राज्ञ राजोपजी विभिः ॥ तथा ते कथयिष्यामि निबोध गदतो मम ॥ १ ॥ आज्ञा सर्वात्मना कार्या स्वस्थस्य भृगुनन्दन ॥ आक्षिप्य वचनं तस्य न वक्तव्यं तथा वचः ॥ २ ॥ अनुकूलं प्रियं तस्य वक्तव्यं जनसन्निधौ ॥ रहोगातस्य वक्तव्यमप्रियं यद्धितं भवेत् ॥ ३ ॥ परार्थमथ वक्तव्यं स्वस्थे चेतसि भार्गव ॥ स्वास्थ्यं सुहृद्विद्वैर्त्तव्यं न स्वयं तु कथंचन ॥ ४ ॥ कार्यातिपातकं कार्ये रक्षितव्यं प्रयत्नतः ॥ न च हिन्त्यवचं किंचिन्नियुक्तेन च कर्मणि ॥ ५ ॥ नोपेक्ष्यं तस्य मानं च तथा राज्ञा प्रियो भवेत् ॥ राज्ञश्च न तथा कार्यं वेशभाषितचेष्टितम् ॥ ६॥ राजलीला न कर्तव्या तद्दिष्टं च विवर्जयेत् ॥ राज्ञस्समाशिको वेशो न तु कार्यों विजानता ॥ ७ ॥ द्यूतादिषु तथैवास्य कौशलं तु प्रदर्शयेत् ॥ प्रदर्श्य कौशलं चास्य राजानं न विशेषयेत् ॥ ८ ॥ अन्तःपुरधनाध्यक्षैर्बहिर्दूतैर्नराधिपैः ॥ संसर्गं न व्रजेद्राम विना पार्थिवशासनम् ॥ ९ ॥ निम्नेहतां चावमानं तत्प्रयुक्तं च गोपयेत् ॥ यच्च गुह्यं भवेद्राज्ञास्तन्न लोके प्रकाशयेत् ॥ १० ॥ नृपेण श्रावितं यत्स्या द्ब्रूयाद्बह्वं भृगूत्तम ॥ न तत्संश्रावयेल्लोके तथा राज्ञः प्रियो भवेत् ॥ ११ ॥ आज्ञायमाने चान्यस्मिन्सुत्वराय त्वरा न्वितः ॥ अहं किङ्करवाणीति वाच्यो राजा विजानता ॥ १२ ॥ कार्यावस्थामं च विज्ञाय कार्यमेतत्तथा भवेत् ॥ सततं क्रियमाणस्मिंश्छो घनं तु व्रजेद्बुधः ॥ १३ ॥ राज्ञः प्रियाणि वाक्यानि न चान्यत्थं पुनःपुनः ॥ न हास्यशीलश्च भवेन्न चापि भृकुटीमुखः ॥ ॥ १४ ॥ नातिवक्ता न निर्वक्ता न च मात्सरिकस्तथा ॥ आत्मसम्भावितश्चैव न भवेत्तु कथञ्चन ॥ १५ ॥ दुष्कृतानि नरेन्द्रस्य न च संकीर्त येत्क्वचित् ॥ वस्त्रं पद्ममलंङ्कारं राजा दत्तं तु धारयेत् ॥ १६॥ औदासीन्यं न तद्देयमन्यस्मिन्भूतिमच्छता ॥ न चैवाध्यशनं राज्ञः स्वपनं चापि कारयेत् ॥ १७॥ नानिर्दिष्टे तथा द्वारे प्रविशेत कथञ्चन ॥ न च पश्येत राजानमयतायासु च भूमिषु ॥ १८ ॥ राज्ञस्तु दक्षिणे पार्श्वे वामे चोपविशेतदा ॥ पुरस्तात्तु यथा पश्चादासने तु विगर्हितम् ॥ १९॥ जृम्भा निष्ठीवनं कामं कोपं पर्यस्तिकाव्यथम् ॥ मुकुटं वातसङ्गारं तत्समीपे विवर्जयेत् ॥ २० ॥ स्वयं तथा न कुर्वीत स्वगुणाख्यापनं बुधः ॥ स्वगुणाख्यापने कुर्यात्परमेव प्रयोजकम् ॥ २१ ॥ हृदयं निर्मलं कृत्वा

परं भक्तिमुपाश्रितैः ॥ अनुजीविगणेनार्य्यं नित्यं राजामतिन्दितैः ॥ २२ ॥ शाठ्यं लौल्यमपैशुन्यं नास्तिक्यं क्षुद्रतां तथा ॥ चापल्यं च परं त्याज्यं नित्यं राजानुजीविना ॥ २३ ॥ श्रुतेन विद्याशिल्पैश्च संयोज्यात्मानमात्मना ॥ राजसेवां ततः कुर्य्याद्दृत्यै भीतिवर्धनः ॥ २४ ॥ नम- स्कार्य्यस्सदा चास्य पुत्रवल्लभमन्त्रिणः ॥ सचिवैश्वास्य विश्वासं न तु कार्यं कथञ्चन ॥ २५ ॥ अपृष्टश्चास्य न ब्रूयात्कामं ब्रूयात्तथापदि ॥ हितं पथ्यं च वचनं हितस्सह सुनिश्चितम् ॥ २६ ॥ चित्तं चैवास्य विज्ञेयं नित्यमेवानुजीविना ॥ भर्तुराराधनं कुर्य्याच्चित्तज्ञो मानवः सुखम् ॥ २७ ॥ रगापरागौ चैवास्य विज्ञेयौ भूतिमिच्छता ॥ त्यजेद्विरक्तं नृपतिं रक्तञ्चेति तु कामयेत् ॥ २८ ॥ कर्मोपकारयोर्नाशं विपक्षाम्युदयं तथा ॥ आशासंवर्धनं कृत्वा फलनाशं करोति च ॥ २९ ॥ अकोडोऽपि प्रकोपामः प्रसन्नोऽपि च निष्फलः ॥ वाक्यं समन्दं वदति वृत्तिच्छेदं करोति च ॥ ॥ ३० ॥ प्रवेशवाक्यादिदौ तं न संभावयतीत्यथ ॥ आराधनासु सर्वासु सुतवच्च विचेष्टते ॥ ३१ ॥ कथासु दोषः क्षिपति वाक्यच्छेदं करोति च ॥ लक्ष्यते विमुखश्चैव गुणसङ्कीर्त्तने कृते ॥ ३२ ॥ दधि क्षिप्त्यथाप्यन्यत्र क्रियमाणे च कर्मणि ॥ विरक्तलक्षणं श्रुत्वा शृणु रक्तस्य लक्षणम् ॥ ३३ ॥ दृष्ट्वा प्रसन्नो भवति वाक्यं गृह्णाति चादरात् ॥ कुशलानिपरिप्रश्ने संप्रयच्छति चासनम् ॥ ३४ ॥ विविक्तदर्शने चास्य रहस्ये न च शङ्कते ॥ जायते हृष्टवदनः श्रुत्वा तस्य तु सङ्कथाम् ॥ ३५ ॥ अप्रियाण्यपि वाक्यानि तदुक्तान्यभिनन्दति ॥ उपायनं च गृह्णाति स्तोकमप्यादरात्तथा ॥ ३६ ॥ कथान्तरेषु स्मरति प्रहृष्टवदनस्तथा ॥ इति रक्तस्य कर्त्तव्या सेवा भृगुकुलोद्वह ॥ आपत्सु न त्यजेत्पूर्व विरक्तमपि सेवितम् ॥ ३७ ॥ मित्रं न चापत्सु तथा न भृत्यं व्रजन्ति ये निर्गुणमप्रमेयम् ॥ प्रभुं विशेषेण च ते व्रजन्ति सुरेन्द्रधामासुरवृन्द- जुष्टम् ॥ ३८ ॥ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे अनुजीविवृत्तं नाम पञ्चविंशोऽध्यायः ॥ २५ ॥ ॥ पुष्कर उवाच ॥ ॥ राजा सहायसंयुक्तः प्रभूतयवसेन्धनम् ॥ रम्यमानतसामन्तः पशव्यं देशमावसेत् ॥ १ ॥ वैश्यशूद्रजनप्रायमनाहार्यं तथा परैः ॥ किञ्चिद्ब्राह्मणसंयुक्तं बहुकर्मकरं तथा ॥ २ ॥ अदेवमातृकं कर्मस्वनुरक्तजनान्वितम् ॥ करैरपीडितं चापि बहुपुष्पं फलं तथा ॥ ३ ॥ अगम्यं परचक्राणां तडागसहमापदि ॥ समदुःखसुखं राज्ञः सततं च प्रिये स्थितम् ॥ ४ ॥ सरीसृपविहीनं च व्याधितस्करवर्जितम् ॥ एवंविधं यथालार्म राजा विषयमावसेत् ॥ ५ ॥ तत्र दुर्गं नृपः कुर्य्यात्तृषणामेकतमं बुधः ॥ धन्वदुर्गं महीदुर्गं नरदुर्गं तथैव च ॥ ६ ॥ वार्क्षं चैवांबुदुर्गं च गिरिदुर्गं च भार्गव ॥ सर्वेषामेव दुर्गाणां गिरिदुर्गं प्रशस्यते ॥ ७ ॥ दुर्गं च परिखोपेतं नृपाट्टालकसंयुतम् ॥ शतघ्नीयन्त्रसुश्लक्ष्णं शतशश्च

द्वि० खं० अ० २६

वि० ध० ॥१८८॥

तथा युतम् ॥ ८॥ गोपुरं सङ्कपाटं च तत्र स्यात्सुमनोहरम् ॥ सपताकगजारूढो येन राजा विशेत्पुरम् ॥ ९ ॥ चतस्रश्च तथा तत्र कार्याश्चापण- वीथयः ॥ एकस्मिंस्तत्र वीथ्यग्रे देववेश्म भवेद्दृढम् ॥ १० ॥ वीथ्यग्रे च द्वितीये वै राजवेश्माभिधीयते ॥ धर्माधिकरणं कार्यं वीथ्यग्रे च तृतीयके ॥ ११ ॥ चतुर्थे चैव वीथ्यग्रे गोपुरं च विधीयते ॥ आयतं चतुरस्रं वा वृत्तं चाकारयेत्पुरम् ॥ १२ ॥ मुक्तिहीनं त्रिकोणं च यवमध्यं तथैव च ॥ अर्धचन्द्रप्रकारं च वज्राकारं च वर्जयेत् ॥ १३ ॥ अर्धचन्द्रं प्रशंसन्ति नदीतीरे तु तद्वशात् ॥ अन्यत्र तन्न कर्तव्यं प्रयत्नेन विजानता ॥ १४ ॥ राज्ञः कोशगृहं कार्यं दक्षिणे राजवेश्मनः ॥ तस्यापि दक्षिणे भागे गजस्थानं विधीयतो॥१५॥गजानां प्राङ्मुखी शाला कर्तव्या चायुधस्युर्वो ॥ आग्नेये च तथा भागे आयुधागार इष्यते ॥१६॥ महानसं च धर्मज्ञः कर्मशालास्तथापराः ॥ गृहं पुरोधसः कार्यं वामतो राजवेश्मनः ॥ १७ ॥ मन्त्रिदेविद्विदां चैव चिकित्सत्कर्तुमेव च ॥ तत्रैव च तथा भागे कोष्ठागारं विधीयते ॥ १८ ॥ गवां स्थानं तु कर्तव्यं तुरगाणां तथैव च ॥ उत्तराभिमुखी श्रेणी तुरगाणां विधीयते ॥ १९ ॥ प्राङ्मुखी चापि धर्मज्ञ परिशेषा विगर्हिता ॥ तुरगाश्च तथा धायाः प्रशस्तैः सार्वरात्रिकैः ॥ ॥ २० ॥ कुक्कुटान्श्वानरोमांश्च मर्कटांश्च नराधिपः ॥ धारयेदथ शालासु सवत्सां धेनुमेव च ॥ २१ ॥ अजाश्च धार्या यत्नेन तुरगाणां हिते विष्णो ॥ गोगजाश्वविशालासु तत्पुरीषस्य निष्क्रमम् ॥ २२ ॥ अस्तङ्गते न कर्तव्यं देवदेवे दिवाकरे ॥ ततस्तत्र यथान्यायं राजा विधाय सार वित् ॥ २३ ॥ द्वादशाववसथस्थानं सर्वेषामनुपूर्वशः ॥ योधानां शिल्पिनां चैव सर्वेषामविशेषतः ॥ २४ ॥ द्वादशावसथान्दुर्गे मन्त्रकालविदां सताम् ॥ गोवैद्यानश्ववैद्यांश्च गजवैद्यांस्तथैव च ॥ २५ ॥ आहरेत भृशं राजा दुर्गे परबलारुजः ॥ कुशलीनावां विप्राणां दुर्गे स्थानं विधीयते ॥ ॥ २६ ॥ न बहूनां न तैर्दुगं विना कार्यं तथा भवेत् ॥ दुर्गं च यन्त्रताः कर्तव्या नानाप्रहरणान्विताः ॥ २७ ॥ सहस्रघातिनो राम तैस्तु रक्षा विधीयते ॥ दुर्गे द्वाराणि गुप्तानि कार्याण्यपि च भूभुजा ॥ २८ ॥ संचयश्चात्र सर्वेषां चायुधानां प्रशस्यते ॥ धनुषां क्षेपणीयानां तोमराणां च भार्गव ॥ २९ ॥ शराणामथ खङ्गानां कनकानां तथैव च ॥ लघुडानां गदानां च दृढानां पट्टिधैः सह ॥ ३० ॥ अश्मनां च प्रभूतानां सुदूराणां तथैव च ॥ कणिचानां त्रिशूलानां पट्टिशानां च भार्गव ॥ ३१ ॥ प्रासानां च त्सरूणां च शक्तीनां च नरोत्तम ॥ पर- शूधानां चक्राणां चर्मणां वर्मभिः सह ॥ ३२ ॥ कुठाररज्जुनेत्राणां पिटिकानां तथैव च ॥ हस्तकानां च पात्राणामगरस्य च संश्र- यम् ॥ ३३ ॥ सर्वेषां चित्रभाण्डानां सञ्चयश्चात्र इष्यते ॥ वाद्यानां च सर्वेषामौषधानां तथैव च ॥ ३४ ॥ यवसानां प्रभूतानां

॥१८८॥

चेन्धनस्य च सञ्चयम् ॥ गुडस्य सर्वशैलानां गोरसानां तथैव च ॥ ३६ ॥ चर्मणां च ससर्ज्जानां स्नायूनामस्थिभिः सह ॥ गोरसस्य पट्टानां च धान्यानां सर्वतस्तथा ॥ ३६ ॥ तथैव प्रपटानां च यवगोधूमयोरपि ॥ रत्नानां सर्ववस्त्राणां लोहानां चाप्यशेषतः ॥ ३७॥ कलायमुद्गमाषाणां चणकानां तिलैः सह ॥ तथा च सर्वसस्यानां पांशुगोमययोरपि ॥३८॥ सणसर्जसरं भूर्जन्तुलाक्षाकंटकंटपम् ॥ राजा सञ्चिनुयाद्गेहे पश्चान्नद्यपि किञ्चन ॥ ३९ ॥ कुम्भाः सार्षाविषा धात्री व्याघ्रसिंहादयस्तथा ॥ मृगाश्च पक्षिणश्चैव पशवश्च पृथग्विधाः ॥४०॥ संचयानि विरुद्धानां सुगुप्तानि पृथक्पृथक् ॥ कर्तव्यानि महाभाग यत्नेन पृथिवीक्षिता ॥ ४१ ॥ उक्तानि चाप्यनुक्तानि राजद्रव्याण्यशेषतः ॥ सुगुप्तानि पुरे कुर्याज्जनानां हित काम्यया ॥ ४२ ॥ जीवकर्षभककोलीरामलकयः परूषकम् ॥ शालिपर्णी पृश्निपर्णी मुद्गपर्णी तथैव च ॥ ४३ ॥ माषपर्णी तथा चैव सारि वे द्वेबलामयम् ॥ वीराश्वगन्धा वृश्चीका बृहती कण्टकारिका ॥४४॥ शृङ्गाटिका रोद्रगोधा वंशशृङ्गमभृङ्गन्द्का ॥ मधुपर्णीविदार्यौ द्वे महाद्रोणं महा तथा ॥ ४५ ॥ धन्वना महाशृङ्ग्याह्वा त्रिकोटी ण्डकं विषम् ॥ पर्णासनाह्वौ मृद्वीका फल्गुः खर्जूरयष्टिका ॥ ४६ ॥ युक्तातिमुक्तकाशर्मष्युच्छ्र त्रातिच्छत्रावीरणम् ॥ इक्षुरेक्षुविकारश्च फाणिताद्याश्च भार्गव ॥ ४७ ॥ सहाश्च सहदेवाश्च विश्वेदेवाहरूषकम् ॥ मयूरपृष्ठं हंसाख्या शतपुष्पमधू लिका ॥ ४८ ॥ शतावरी मधूकं च प्रियालं तालमेव च ॥ आत्मगुप्ता कट्फलाख्या दृग्दा राजसेरुका ॥४९॥राजर्षभकधानक्य चक्राम्रोक्ता तथो त्कटा ॥ कंटकटा पञ्चबीजं गोवल्ली मधुवल्लिका ॥५०॥ शीतपाकी कुलिक्षाक्षी काकोलिर्द्वेणरिणविका ॥ एवांश्रुपसी चोभो सुआतकपपुननर्वा ॥५१॥ काशेरुका तुगाक्षीरा बिल्वेशालूककेसरम् ॥ शुक्तधान्यानि सर्वाणि शम्बीधान्यानि यानि च ॥ ५२ ॥ क्षीरं क्षौद्रं तथा शुकं मज्जा तैलं वसा घृतम् ॥ निकोचामिषुकक्षोटं वातातं सोरुखाणकम् ॥ ५३ ॥ एवमादीनि चान्यानि विज्ञेयो मधुरो गणः ॥ राजा सञ्चिनुयात्सर्वं पुरे निवश्रो पतः ॥ ५४ ॥ दाडिमाम्रातकं लीनं तिन्तिडीकाम्लवेतसम् ॥ भव्यकः कण्डलीकक्ष मकरन्दकूरूपकम् ॥५५॥ बीजपूरककाण्डोरमातली राज धन्वना ॥ कोलद्वयपणानि द्वयोश्छोक्योरापिवा॥५६॥ पालेवतं मार्गानिकं प्राचीनारूकमेव च ॥ कपित्थामलकं चुक्रं क्लिन्दं च शठस्य चा॥५७॥ जाम्बवं नवनीतं च सौवीरकतषोचके ॥ सुरासवं च मद्यानि मण्डं तक्रदधीनि च ॥ ५८ ॥ शुक्तानि चैव सर्वाणि ज्ञेयान्यम्लगणानि वै ॥ सैन्धवोद्भिद्नार्नदयःसयसामुद्ररोचकम् ॥ कूपसोवर्णचेलंविडं वालकेलोपबालुकम् ॥ ५९ ॥ उपक्षारं कालभस्म विज्ञेयो लावणो गणः ॥ एवमादीनि चान्यानि राजा सञ्चिनुयात्पुरे ॥ ६० ॥ पिप्पली पिप्पलीमूलं चव्यचित्रकनागरम् ॥ कुठेरकं समरिचं शिग्रुं भल्लात

वि० ध० ॥१८२॥ हिं० सं० अ० २६

सर्पषाः ॥ ६१ ॥ कुष्ठजमोदकटिभिङ्गीमूलकधान्यकम् ॥ कारव्यः कुचिकादाव्यः सुषुवः कालपालिका ॥ ६२॥ फणिज्जकोऽथ लशुनं भूतॄणं सुरसस्तथा ॥ कायस्था च वयस्था च हरितालं मनःशिला ॥६३॥ अमृतारुद्रदन्ती च रोहिंतं कुंकुमं तथा॥ अवल्गुजः सोमराजी कृष्णसर्पा शिंला- जतु ॥ ६४ ॥ कपित्थकें तेजवती विडंगानिगुडानि च ॥ एडकाक्षी प्रकीर्या च पुण्डीरं स्वर्णयूथिका ॥ ६५ ॥ सौगन्धिकं गुंजनकं वेश्मधूमंऽथ रोचना ॥ यवा एरण्डकोडीरं सत्यको दृपुषा तथा ॥ ६६॥सर्वपीतानि सूत्राणि प्रायो हारिद्रकानि चा॥ फलानि चैषां च तथा सूक्ष्मेला हिङ्गुपत्रिका ॥ ६७ ॥ एमादीनि चान्यानि गणं कटुकसंज्ञकम् ॥ राजा संचिनुयाङ्गे प्रयत्नतेन भूपतम् ॥६८॥ मुस्तञ्चन्दनह्रीवेरकृतमालकदारवम् ॥ हरिद्रा नलदोशीरमंक्तामलकवास्तुकम् ॥ ६९ ॥ पूर्वा पटोलकटुका पाठत्वक्पत्रतम्बुकः ॥ किरातातिक्तको निम्बं यष्टीकातिविषा तथा ॥ ७० ॥ तालीशं पत्रं तगरं सप्तपर्णं निकान्तकम् ॥ काकोदुम्बरकोद्दीपसुपर्वणिकणिकासनाः ॥७१॥ पद्मन्था च हिङ्गी मांसी पर्पटं मद्यन्तिका ॥ रसाञ्जनं भृङ्ग- रसं पतङ्गपरिपेलवम् ॥ ७२ ॥ दुःस्पर्शा गुरुणी काशो रक्तं गन्धनाकुली ॥ तुषवल्ली व्याघ्रनखं शांगद्यचतुरंगुलः ॥ ७३ ॥ रास्त्रा चैव कुशा स्फीता हरेणुश्च रेणुका ॥ वेत्राग्रं वेतसस्तूर्वी विषाणं लोहमञ्जनम् ॥ ७४ ॥ मालती नतितारुस्या वृषगोझिलकर्कशाः ॥ पर्पटी च गुडूची च गणस्तिक्तकसंज्ञकः ॥ ७५ ॥ एवमादीनि चान्यानि राजा संचिनुयात्पुरे ॥ अभयामल्कं क्षोभं तथैव च विभीतकम् ॥ ७६ ॥ प्रियङ्गुघातकी पुष्पमोचरोचासनाऽर्जुना ॥ अनन्ताम्रास्थि नागह्वास्तायना कङ्कफलं तथा ॥ ७७ ॥ भूर्जपत्रं शिवोद्भाडे पाटला वकुलोद्भवम् ॥ समङ्गा त्रिवृतामूलं कपासा गैरिकाञ्जनम् ॥ ७८ ॥ विद्रुमं समधुच्छिष्टं कुम्भीककुसुदोत्पले ॥ न्यग्रोधोदुम्बरवक्षस्थल्यकिंशुकाः शिशपा शमी ॥ ७९ ॥ प्रियाला पलु कासारं शिरीषं पद्मकं तथा ॥ बिल्वाग्निमन्थे प्लक्षश्च श्यामाकायचकोयनम् ॥ गजादनं करीरं च चम्पकप्रियकौ तथा ॥ ८० ॥ अंकोलोशीरख- दिराः कदम्बाखदिगाह्वयम् ॥ येषां पत्राणि साराणि मूलानि कुसुमानि च ॥ ८१ ॥ एवमादीनि चान्यानि कषायाख्यो गणोस्ति च ॥ प्रयत्नेन नृपश्रेष्ठ राजा संचिनुयात्पुरे ॥ ८२ ॥ कीटाश्मरणे योगा व्यञ्जनायां तथैव च ॥ वातधूमाम्बुमार्गाणां दूषणानि तथैव च ॥ ८३ ॥ धार्याणि पार्थिवैर्गेहे नाहं वक्ष्यामि तानि ते ॥ विषाणां धारणं कार्यं प्रयत्नेन महीभुजा ॥ ८४ ॥ विचित्राश्चागदा धार्या विषप्रशमनास्तथा ॥ रक्षोभूतादिशमनाः पापघ्नाः पृथिवर्धनाः ॥ ८५ ॥ कालविद्वेश्च पुरुषाः पुरे धार्याः प्रयत्नतः ॥ भीतानभ्रान्तान्कुपितांस्तथैव च विमानितान् ॥ ॥ ८६ ॥ कुमृव्यानकुलीनांश्च न राजा वासयेत्पुरो ॥ ८७ ॥ यन्नायुधार्हाल्लोच्योपपन्नं समर्थधान्योपचयंतथायुक्तम् ॥ वणिग्जनैः शोभनमावसेत

॥१८१॥

दुर्गं सुगुप्तं नृपतिस्सदैव॥८८॥इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०गर्गं प्रति पुष्कराख्याने दुर्गसम्पत्तिर्नाम षड्विंशतितमोऽध्यायः॥२६॥ राम उवाच ॥ रक्षांसि विषघ्नानि यानि कार्याणि भूभुजा॥ अगदानि समाचक्ष्व तानि धर्मभृतां वर ॥ १॥ पुष्कर उवाच॥ बिल्वाढकी यवक्षारपाटलीबाहिकोषणम् ॥ श्रीपर्णी सहकौमुद्या निष्क्वाथः प्रोक्षणं परम् ॥ २॥ सविषं प्रोक्षितं तेन सद्यो भवति निर्विषः ॥ गवक्षेन्घवपानीयं वंशस्यासनोदनम् ॥ ३॥ कवचामरणच्छत्रबालव्यजनमेव च ॥ शैलूषात्पलितिष्वारिश्शुगोपीपुनर्नवाः ॥ ४॥ समञ्जङ्कुशमूलत्वकपित्थं वृकशोणितम् ॥ सहदन्तशठं तद्वत्तोक्षिणं विषनाशनम् ॥ ५ ॥ लाक्षा प्रियङ्गुमञ्जिष्ठासमङ्गा सहरेणुका ॥ मधू घृताह्वमध्वूपेता वभ्रुपित्तेन कल्कित्ताः ॥ ६॥ निवर्त्तयेद्गोविषाणस्था सप्तरात्रं महीतले ॥ ततः कृत्वा मणिं हेम्ना बद्धं हस्तेन धारयेत् ॥ ॥ ७ ॥ संस्पृष्टस्तद्विषस्तेन सद्यो भवति निर्विषः ॥ मनोहालशमीपुष्पत्वङनिशानीतसर्षपाः ॥ ८ ॥ कपित्थकुसुमंशिङ्घाः पित्तेन श्लूष्णकल्कित्ताः ॥ धनेागवः कपिष्ठायाः सौम्याख्याऽथ पुरो गदः ॥ ९ ॥ विषजित्परमः प्रोक्तो मणिगत्र च पूर्ववत् ॥ मूपकाजिरका चापि हस्ते बद्धा विषापहा ॥ १० ॥ हरेणुमांसी मञ्जिष्ठा रजनीमधुकं मधु ॥ अलक्तवपुसशं......थपित्तं पूर्वमणिं ॥ ११ ॥ वादिन्नाणि पताकाश्च विष्टेरैतैः प्रलेपिताः ॥ श्रुत्वा दृष्ट्वा समाघ्राय सद्यो भवति निर्विषः ॥ १२ ॥ तत्पूषणं पक्षलवणं मञ्जिष्ठा रजनीद्वयम् ॥ सूक्ष्मैला त्रिवृतापत्रं विरुङ्गानिद्रिवारुणी ॥ १३ ॥ मधुकं चेति सन्नाहं गोविषाणैर्निधापयेत् ॥ तस्मादुष्णाव्बुना मात्रां प्रागुक्तां योजयेत्तथा ॥ ॥१४॥ विषं मुक्तं जरां याति निर्विषोपि न दोषकृत् ॥ संतृसर्जरसोरीसपर्षपापत्रवालुकैः ॥१५॥ संवेल्लहङ्करपूरैः कुसुमैर्जुनस्य च ॥ धूपावासो गृहे हन्ति विषं स्थावरजङ्गमम् ॥ १६ ॥ न तत्र कीटा न विषा दुर्दुरा न सरीसृपाः ॥ न कृत्याः कर्म नाऽन्येषु धूपोयं यत्र दह्यते ॥ १७॥ कल्किंतैश्चन्दनक्षौपलाशद्रुमवल्कैः ॥ पूर्वलवालुकुरसानानुलीतण्डुलीयकैः ॥ १८ ॥ क्वाथः सर्वोदकांयेषु काकमाचीजलैर्वृतः ॥ गेचनापद्म नेपालीकुंकुमैस्तिलकं वहन् ॥ १९ ॥ विषं न बाधते स्याच्च नरनारीनृपप्रियः ॥ चूर्णेहरिद्रामंजिष्ठाकिष्किणीकणनिम्बकैः ॥ २० ॥ जिभ्रं त्रिविषतामेति गात्रं सर्वविषादितम् ॥ शिरीषस्य फलं पत्रं पुष्पं त्वङ्मूलमेव च ॥ २१ ॥ गोमूत्रपिष्टो हृगदः सर्वकर्मकरः स्मृतः ॥ एता वीमहो पथ्यः शुण चातः परं द्विज ॥ २२ ॥ वन्ध्या कर्कोटकी राम विष्णुक्रान्ता तथोत्कटा ॥ शतमूला शतानन्दा बलास्फोटा पटोलिका ॥ २३॥


¹ 'वज्र' इत्यपि पाठः ।

वि० ध० ॥१३०॥ द्वि० खं० अ० २८

सोमा पिण्डा निशा चैव तथा दृग्गरुहा जया ॥ स्थले कमलिनी या च पिपिली शृङ्गमूलिका¹ ॥ २४ ॥ चण्डाली हस्तिचण्डाली गोचण्डाली क्व न्चिका ॥ रक्ता चैव महारक्ता तथा बर्हिशिखा च या ॥ २५ ॥ कोशातकी नक्तमालं पियालं च स्वलक्षणा ॥ चारणा च सुगन्धा च तथा वै गन्धनाकुली ॥ २६ ॥ ईश्वरी च सलिङ्गी च सोमली वंशनालिका ॥ जतुकारी तथा श्वेता श्वेता च मधुयष्टिका ॥ २७ ॥ वज्रटः पारिभद्रश्च तथा वै सिन्धुवारिका ॥ जीवानन्दी वसुमती न ते नागकटं कटुम् ॥ २८ ॥ तालना जालपातालं तथा च वटपत्रिका ॥ कशीरा महानीली कहारं हंसादिका ॥ २९ ॥ मण्डूकपर्णी वाराही द्वे तथा तण्डुलीयकै ॥ सपाक्षी लवणा ब्राह्मी विश्वरूपा सुवर्चरी ॥ ३० ॥ रुजापहा शृङ्गिकरी तथा शल्यापहा च या ॥ पत्रिका रोहिणी चैव रक्तला च महौषधी ॥ ३१ ॥ तथामलकवन्दारु वार्वचित्रा पटोलिका ॥ काकोली क्षीरकाकोली पीलुपर्णी मनोवती ॥ ३२ ॥ केशानी वृश्चिका काली महानागा शतावरी ॥ तथा गरुडवेगा च या श्वेतकुसुदिनी च या ॥ ३३ ॥ स्थले चोत्प- लिनी या च महासुमिलता च या ॥ उन्मादिनी सोमराजी सर्वरत्नानि भार्गव ॥ ३४ ॥ विशेषान्मरकंतं तत्र कीटपक्षं विशेषतः ॥ जीवञ्जा- ताश्च मणयस्सर्वे धार्या विशेषतः ॥ ३५ ॥ रक्षोघ्नाश्च पशस्याश्च कृत्वा वेतालनाशिनः ॥ विशेषानन्तरनागाश्च गोखरोष्ट्रसुसु- मृवाः ॥ ३६ ॥ सर्पतिलतुरंगमोशायुबुभुक्षमण्डूकाश्च ये ॥ सिंहव्याघ्रमार्जारद्वीपवातनसम्भवाः ॥ ३७ ॥ कपिजलजगोधाविमाहिषेणमवाश्व- ये ॥ ३८ ॥ इत्येवमेतैस्सकलैरुपेतं द्रव्यैः पुरं रक्षितसञ्चयं च ॥ राजा वसेत्तत्र गृहं च शुभ्रं गुणान्वितं लक्षणसंमयुक्तम् ॥ ३९ ॥ इति श्रीविष्णुधर्मोत्तरे मा०सं० द्वितीयखण्डे अङ्गङ्गद्वयायोगो नाम सप्तविंशतितमोऽध्यायः ॥ २७ ॥ ॥ राम उवाच ॥ राजरक्षागृहस्यानि यानि दुर्गे निधापयेत् ॥ कारयेद्वा महीभर्ता कथयस्वाशु तानि मे ॥ १ ॥ पुष्कर उवाच ॥ शिरीषोदुम्बराम्रास्थिबीजपूरं घृतप्लुतम् ॥ धूपयोगः कथितो राम मासार्धेस्य पुरातनैः ॥ २ ॥ कपेरुत्पलकुलानि इक्षुमूलं तथा विषम् ॥ दूर्वाक्षीरघृतेर्मण्डैः³ सिद्धोऽयं मार्मिकः² परम् ॥ ३ ॥ शूलमंतं नरं प्राप्य तस्यास्थामरणौ भवेत् ॥ कलशापविपुना तत्र जनयेत् विभावसुम् ॥ ४ ॥ गृहे विरपमव्यं तन्क्रियते यत्र भार्गव ॥ नान्योन्यिज्ज्वेलते तत्र नात्र कार्या विचारणा ॥ ५ ॥ कपासास्थि भुजङ्गस्य तथा निर्मोचनं परम् ॥ सर्पनिर्वासने धूपः प्रशस्तः सततं गृहे ॥ ६ ॥ सान्द्रसत्त्वा च वयसा विशुद्धा च मृतिका ॥ तयावलिप्तं गृहम नाग्निना दह्यते द्विज ॥ ७ ॥ दिवा च दुर्गे रक्षोऽग्निर्वार्ति

॥१३०॥


¹ 'शंखमूलिका' इति ख० ।
² 'विषम्' इति ख० ।
³ 'कुण्डः' इति क० ।