विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 418, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० ॥१८५॥ द्वि० खं० अ० २२
सीता दृषद्वदा शिवा ॥ १७० ॥ तथैवक्षुमती पुण्या कौशिकी यमुना तथा ॥ गोमती धूतपापा च बाहुदा च दृषद्वती ॥ १७१ ॥ निश्चीरा च तृतीया च लौहित्यश्च महानदः ॥ वेदस्मृतिर्वेदसिन्ती वेत्रवञ्जी वरदा तथा ॥ १७२ ॥ वर्णा मा चन्दना चैव बहुनागा कुहूद्वती ॥ पारा चर्मण्वती रूपा विदिशा वेणुमत्यपि ॥ १७३ ॥ अवन्ती च तथा कुन्ती सुरसा च पयोष्णिी ॥ मन्दाकिनी दशार्णा च चित्रकूटा दृषद्वती ॥ १७४ ॥ तमसा पिप्पला सेनी करमोदा पिशाचिका ॥ चित्रोत्पला चित्रवर्णा मंजुला बालुकावती ॥ १७५ ॥ शुक्तिमती सिन्धौ गन्ध्वा मङ्गुणातप्यकान्तः ॥ तापी पयोषणी निर्बन्ध्या सिता च निषधावती ॥ १७६ ॥ दया वैतरणी भीमा चर्मा रामा तथा कुहूः ॥ तोया चैव महागौरी दुर्गा मतृशिला तथा ॥ १७७ ॥ गोदावरी भीमरथी कृष्णा वेणा च वंजुला ॥ तुङ्गभद्रा सुप्रयोगा वाह्या कावेरयेव च ॥ १७८ ॥ कृतमाला ताम्रपर्णा पुष्पजा ह्युत्पलावती ॥ त्रिसमा ऋषिकुल्या च इक्षुका त्रिदिवालया ॥ १७९ ॥ लाङ्गलिनी वंशधरा सुकुमारा कुलावती ॥ ऋषिका कारिवेगा च मन्दगा मन्दवाहिनी ॥ १८० ॥ कृपा दुर्वा दया व्योमा दृगेष्णा कोलजा हिनी ॥ कम्पना च विरशल्या च करतोयांशुवाहिनी ॥ १८१ ॥ ताम्रारुणा वेत्रवती गोमती चाथ नद्यपि ॥ अङ्गिणी क्लिन्ना चैव सुपक्रणा हिरण्वती ॥ १८२ ॥ आपगा चालका भासी सन्ध्या च मडवा नदी ॥ नन्दा चारुकरेतन्द्रा च जुङ्गा च वसुवाहिनी ॥ १८३ ॥ एताश्चान्याश्च राजेन्द्र नद्यस्त्वो विमलोदकाः ॥ सर्वपापप्रशमनास्सर्वलोकस्य मातरः ॥ स्वतोयपूर्णैः कलशैरभिषिञ्चन्तु पार्थिव ॥ १८४ ॥ एतेष्वर्थामिषेतुप राजराज्ये दत्ताभिषेकः पृथिवीं समग्राम् ॥ ससागरां भुंक्त्व चिरं च जीव धर्मं च ते बुद्धिरतीव चास्तु ॥ १८५॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० भार्गवरामं प्रति पुष्करव्यास्यानोऽभिषेकमन्त्रो नाम द्वाविंशतितमोऽध्यायः॥२२॥
पुष्कर उवाच ॥ मन्त्रा ये कीर्तिता राम मयाभिषेकमन्त्र भार्गव ॥ तेषां संकीर्तनं धन्यं सर्वपापप्रणाशनम् ॥ १॥ एतेषां कल्पसृत्याय यः कुर्यात्कीर्तनं नरः ॥ सर्वपापविनिर्मुक्तः स्वर्गलोकमवाप्नुयात्॥२॥ तिर्यग्योनिं न गच्छेत्तु नरकं संकराणि च ॥ न च दुःखं न च भयं मरणं न च बुद्ध्यति ॥ ३ ॥ एतेषां न नमस्कारं यः कुर्यान्नियतो नरः ॥ न तस्य तिष्ठते पापमबिन्दुरिव पुष्करे ॥ ४॥ एतेषां तर्पणं कृत्वा स्नातः प्रयतमानसः ॥ महापातकयुक्तोऽपि त्वेववाहिर्विमुच्यते ॥ ५ ॥ इत्येषां पुष्पदनेन महतीं श्रियमश्नुते ॥ एतेषां चार्च्यदानेन पूज्यो भवति मानवः ॥ ६ ॥ एतेषां दीपदानेन भ्राजन्तं चन्द्रवद्दिवि ॥ एतेषामाहुतिं दत्त्वा कामानामोति पुष्कलान् ॥ ७॥ नैवेद्यं च बलिं दत्त्वा भोगानभ्रामोत्यनुत्तमान् ॥ एतामुद्दिश्य विप्रेषु दद्या मानव भोजनम् ॥ ८ ॥
॥१८६॥