भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 417, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 417

चौजसश्च तथैवामरकण्टकः ॥ १४४ ॥ आश्रमः कालिकायाश्च तृणबिन्दोस्तथाश्रमः ॥ गोपत्तीर्थं चापत्तीर्थं विमलः स्वर्ग एव च ॥ १४५ ॥ जम्बूमार्गश्च राजेन्द्र पुण्यस्तण्डुलिकाश्रमः ॥ कपिलस्य तथा तीर्थं तीर्थं वटिकषण्डिके ॥ १४६ ॥ महासरस्तथागस्त्यः कुमारी तीर्थं एव च ॥ गङ्गातीरः कुशावर्ती बिल्वको नीलपर्वतः ॥ १४७ ॥ वराहपर्वतश्चैव तीर्थः कनखलस्तथा ॥ स्वर्गन्था वशकुम्भा च तथा शाक- म्भरी च या ॥ १४८ ॥ भृगुतुङ्गः सकुब्जाम्रः कपिलस्य तथाश्रमम् ॥ १४९ ॥ चमोसोद्भेदतः पुण्यस्तथा विनाशनः शुभः ॥ अजतुङ्गश्च सोमश्च अजोगन्यश्च पार्थिव ॥ कालञ्जरश्च केदारो रुद्रकोटिस्तथैव च ॥ १५० ॥ महालयश्च राजेन्द्र वदनाश्रम एव च ॥ नन्दा च सूर्यतीर्थं च सोमतीर्थं शतक्रतोः ॥ १५१ ॥ अश्विनोर्वरुणस्यापि वायोर्वैश्ववणस्य च ॥ ब्रह्मणश्चैव शर्वस्य यमस्य च्यवनस्य च ॥ १५२ ॥ विरूपाक्षस्य धर्मस्य तथा चाप्सरसां नृप ॥ ऋषीणां च वसूनां च साध्यानां मरुतां तथा ॥ १५३ ॥ आदित्यानां च रुद्राणां तथा चाङ्गिरसां नृप ॥ विश्वे- देवभृगूणां च गन्धर्वाणां च मानद ॥ १५४ ॥ पुक्षप्रस्रवणश्चैव सुषेणश्च नराधिप ॥ शालियामसरश्चैव वराहो वामनस्तथा ॥ १५५ ॥ कामं श्रमत्रिकूटश्च चित्रकूटस्तथैव च ॥ सतर्चः क्रतुसारश्च तथा विष्णुपदं सरः ॥ १५६ ॥ कपिलस्य तथा तीर्थं वासुकैस्तीर्थमेव च ॥ सिन्धूत्तमं तपो दानं तथा शूर्पाकरः शुभः ॥ १५७ ॥ पौण्डरीकश्च राजेन्द्र गङ्गासागरसङ्गमः ॥ सिन्धुसागरयोश्चैव सङ्गमः सुमनोहरः ॥ १५८ ॥ तथा कुन्दावसुन्ध्वश्च मानसं च महत्सरः ॥ तथा बिन्दुसरः पुण्यं सश्रच्छोदकं तथा ॥ १५९ ॥ धर्मारण्यं फलुतीर्थं सविमुक्तं तथैव च ॥ लौहित्यश्च तथा पुण्यो बदरीपावनः शिवः ॥ १६० ॥ तीर्थं सतप्तर्षीणां च वशिष्ठतीर्थं च पार्थिव ॥ वस्त्रापथस्ततो मेषशृङ्गालेशश्च पार्थिव ॥ ॥ १६१॥ पुष्पव्यासस्तसकामोशस्तीर्थो हंसपदस्तथा ॥ अश्वशीर्षः स कृष्णाख्यो मणिभद्रस्तथैव च ॥ १६२ ॥ देविका सिन्धुमार्गश्च स्वर्णबिन्दुस्त- थैव च ॥ आहल्यकस्तथा तीर्थस्तीर्थश्चैरावतस्तथा ॥ १६३॥एरावतिसुमुद्वेद्रे तीर्थं भोगयस्तस्तथा ॥ करवीराश्रमश्चैव नागमोदानिकस्तथा ॥ १६४॥ पापमोचनिकश्चैव ऋणमोचनिकस्तथा ॥ उद्धेजनस्तथा पुण्यः पुण्यश्च हरिशेधरः ॥ १६५ ॥ देवब्रह्मसरः पुण्यं सर्पिदर्वी च पार्थिव ॥ एते चान्ये च बहवः पुण्यसङ्कीर्तिताः शुभाः ॥ १६६ ॥ तोयेस्तत्वामभिषिञ्चन्तु सर्वपातकनाशनैः ॥ गङ्गा महानदी पुण्या ह्लादिनी बाहिनी तथा ॥ ॥ १६७ ॥ पावनी च तथा सीता चक्षुः सिन्धुश्च नर्मदा ॥ सुप्रभा कातराक्षी च शिथिला मानसी हृदा ॥ १६८ ॥ सरस्वत्योचनादा च सुवे- र्णाविमलोदका ॥ सिप्रा शोणः शतद्रुश्च सरयूर्गण्डकी तथा ॥ १६९ ॥ अच्छोदा च विपाशा च चन्द्रभागा इरावती ॥ वितस्ता देविका रम्भा