भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 416, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 416
ब्री० ध०                                                                       द्वि० खं०
॥१८४॥                                                                         अ० २२

वात्मा अध्यक्षश्च महीपते ॥ एते त्वामभिषिञ्चन्तु समेता वसुधाधिप ॥ ११९ ॥ रक्तभौमः शिलाभौमः पातालो नीलमृत्तिकः ॥
पीतो रक्तक्षितिश्चैव श्वेतभौमस्तथैव च ॥ १२० ॥ एते त्वामभिषिञ्चन्तु विजयाय महीपते ॥ भूर्लोकश्च भुवर्लोकः स्वर्लो-
कोऽथ महज्जनः ॥ १२१ ॥ तपः सत्यञ्च राजेन्द्र विजयाय भवन्तु ते ॥ जम्बूशाककुशक्रोञ्चाः शाल्मलिर्द्वीप एव च ॥ १२२ ॥ गोमेधः
पुष्करश्चैव स्वसाम्यं प्रदिशन्तु ते ॥ उत्तराः कुरवः पुण्या रम्या हैमवतस्तथा ॥ १२३ ॥ भद्राश्वः केतुमालञ्च वर्षञ्चैव इलावृतः ॥ हरिवर्षः
किंपुरुषो वर्षं भारतसंज्ञिकः ॥ १२४ ॥ एते त्वामभिषिञ्चन्तु समेत्य वसुधाधिप ॥ इन्द्रद्वीपः कशेरुश्च ताम्रपर्णो गभस्तिमान् ॥ १२५ ॥
नागद्वीपस्तथा सौम्यो गान्धर्वो वारुणस्तथा ॥ अयं चरुसमस्तेषां स्वसाम्यं प्रदिशन्तु ते ॥ १२६ ॥ हिमवान्हेमकूटश्च निषधो
नीलपर्वतः ॥ श्वेतश्च शृङ्गवान्मेरुर्मल्यवान्गन्धमादनः ॥ १२७ ॥ महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवांस्तथा ॥ विन्ध्यश्च पारियात्रश्च सर्वे एव
महीधराः ॥ १२८ ॥ समागम्याभिषिञ्चन्तु त्वामद्य वसुधाधिप ! ॥ ऋग्वेदोऽथ यजुर्वेदः सामवेदस्तथैव च ॥ १२९ ॥ अथर्ववेदो वेदान्तमद्यम-
भिषिञ्चन्तु पार्थिव ॥ इतिहासो धनुर्वेदो गन्धर्वश्चायुसंज्ञितः ॥ १३० ॥ वेदोपवेदाश्च तथा विजयाय भवन्तु ते ॥ शिक्षा कल्पो व्याकरणं
निरुक्तं ज्योतिषाङ्कितः ॥ १३१ ॥ छन्दोविचितिरित्यानि विजयं प्रदिशन्तु ते ॥ अङ्गानि वेदशस्त्राणां मीमांसा न्यायविस्तरः ॥ १३२ ॥
धर्मशास्त्रं पुराणञ्च विद्या एताश्चतुर्दश ॥ सांख्यंयोगः पञ्चरात्रं वेदाः पाशुपतं तथा ॥ १३३ ॥ कृतान्तपंचकं ह्येतच्छास्त्राणि विविधानि च ॥
गायत्री पापशमनी दुर्गा देवी महाशिवा ॥ १३४ ॥ गन्धर्वी च तथा विद्या विजयं प्रदिशन्तु ते ॥ देवदानवगन्धर्वयक्षराक्षसपन्नगाः ॥ १३५ ॥
ऋषयो मनवो गावो देवमातर एव च ॥ देवपत्न्यो द्रुमा नागाः दैत्याश्चाप्सरसाङ्गणाः ॥ १३६ ॥ शस्त्राणि सर्वशास्त्राणि गजाश्वा वाहनानि च ॥
ओषधानि च रत्नानि कालस्यावयवास्तथा ॥१३७॥ स्थानानि च समस्तानि पुण्यान्यायतनानि च ॥ जीमूतानि च सर्वाणि तडित्काश्च न-
तथा ॥ १३८ ॥ उक्तानि चाऽप्यनुक्तानि विजयाय भवन्तु ते ॥ लवणः क्षीरतोयश्च घृतमण्डोदकस्तथा ॥ १३९ ॥ दधिमण्डोदकश्चैव सुराऽब्धिश्च
नराधिप ॥ तथैवेक्षुरसोदश्च तथा स्वादूदकश्च यः ॥ १४० ॥ गभीराश्च स्वतोयेस्त्वामभिषिञ्चन्तु पार्थिव ॥ चन्द्रभागश्च गङ्गा चैव स्व-
तोयेन पार्थिव ॥ १४१ ॥ समागम्याभिषिञ्चन्तु विजयं प्रदिशन्तु ते ॥ पुष्करञ्च प्रयागञ्च प्रभासो नैमिषस्तथा ॥ १४२ ॥ तथा ब्रह्मसरः पुण्यं
गयाशीर्षं च पार्थिव ॥ कालोदको नन्दिकुण्डः तथैवोत्पलमानसः ॥ १४३ ॥ स्वर्गमार्गप्रदश्चैव तथा पञ्चनदश्च यः ॥ भृगुतीर्थं

                                                                               ॥१८४॥