विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 419, कुल 1001 में से
संदर्भ में पढ़ेंसंतर्प्य दक्षिणाभिश्च त्रिदिवं प्राप्नुयाच्चिरम् ॥ अभिषेकदिने राज्ञां पुष्पस्नाने तथैव च ॥ ९ ॥ तथा संवत्सराद्गन्धे सर्वे पूज्या हितैषिणा ॥ यानि तीर्थानि चोक्तानि सरितश्च समासतः ॥ १० ॥ तेषां गमनेन पूज्यन्ते येऽपि पातकिनो जनाः ॥ स्नानं महाफलं तेषां तपः श्राद्धं क्रियास्तथा ॥ ११ ॥ दानं बहुफलं प्रोक्तं दर्शनं पापनाशनम् ॥ कीर्तनं भार्गवश्रेष्ठ न मे चास्ति विचपणा ॥ १२ ॥ तीर्थेष्वेतेषु सुपूण्यान स्नाता नरा यान्ति नरेन्द्र सद्यः॥ तीर्थानि गम्यान्यि ततः प्रयत्नात्पुण्याश्च सर्वास्समितिश्च गम ॥ १३ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे तीर्थफलवर्णनो नाम त्रयोविंशतितमोऽध्यायः ॥ २३ ॥ ॥ गम उवाच ॥ ॥ गजोऽभिषिक्तामन्त्रस्य किन्नु कृत्यतमं भवेत् ॥ एतन्मे सर्वमाचक्ष्व सर्ववेत्ति यतो भवान् ॥ १ ॥ ॥ पुष्कर उवाच ॥ अभिषेकार्द्रशिरा राजा राजीवलोचन ॥ सहायवर्णनं कार्यं तत्र राज्यं प्रतिष्ठितम् ॥ २ ॥ यदल्पतरं कर्म तदेकेन दुष्करम् ॥ पुरुषेणासहायेन किन्नु राज्यं महत्पदम् ॥ ३ ॥ तस्मात्सहायान्रयेत्कुलीनान्नृपतिः स्वयम् ॥ शूराञ्छुतमजातियान्बल्युक्ताञ्छूतिनान्वितान् ॥ ४ ॥ रूपसत्त्वगुणोपेतान्र्संयुक्तांश्च मया युतान् ॥ क्लेशक्षमान्महोत्साहान्धर्मज्ञांश्च प्रियंवदान् ॥ ५ ॥ हितोपदेशिकान्प्राज्ञांस्वामिभक्त्यान्विशोधिनः ॥ एवं विधान्सहायांस्तु शुभ कर्मणि योजयेत् ॥ ६ ॥ गुणहीनानपि तथा विज्ञाय नृपतिः स्वयम् ॥ कर्मस्वेव नियुञ्जीत यथायोग्येषु भार्गव ॥ ७ ॥ कुलीनाः शीलसंपन्ना धनुर्वेदविशारदाः ॥ हस्तिशिक्षाश्वशिक्षासु कुशलाश्लक्ष्णभाषिणः ॥ ८ ॥ निमित्ते शकुनज्ञाने वित्तेविद्यचिकित्सके ॥ पुरान्तर्विज्ञाने पाण्ड्य प्येन विनिश्चिताः ॥ ९ ॥ कृतज्ञाः कर्मणां शूरास्तथा क्लेशसहा भृगुः ॥ व्युत्पन्नतत्त्वविद्वांसः फलसारविशेषवित् ॥ १० ॥ राजां सेनापतिः कार्यों ब्राह्मणः क्षत्रियोऽथवा ॥ प्रांशुः सुरूपो दक्षश्च प्रियवादी न चोद्धतः ॥ ११ ॥ चित्तमाज्ञाय सर्वेषां प्रतीहारो विधीयते ॥ यथोक्तवादी धूर्तः स्याद्देशभाषाविशारदः ॥ १२ ॥ शाब्दः क्लेशसहो वाग्मी देशकालविभाषिता ॥ विज्ञाय देशं कालं वा हितं यत्स्या न्महीक्षितः ॥ १३ ॥ वक्तापि तस्यः यः काले स दूतो नृपतेर्भवेत् ॥ प्रांशुवो व्यायताः शूरा दृढभक्ता निराकुलाः ॥ १४ ॥ राज्ञा तु रक्षिणः कार्यास्तदा क्लेशसहा हिताः ॥ अहार्याश्चानृशंसाश्च दृढभक्तोश्च पार्थिवे ॥ १५ ॥ ताम्बूलधारी भवति नारी चाप्यथ तद्गुणा ॥ पाड्गुण्यविधि तत्त्वज्ञो देशभाषाविशारदः ॥ १६ ॥ सन्धिविग्रहकः कार्यो राजा नयविशारदः ॥ आयव्ययज्ञो लेखज्ञो देशोत्पत्तिविशारदः ॥ १७ ॥ कृतकृतज्ञो भृत्यानां ज्ञेयः स्यादक्षदर्शिता ॥ सुरूपस्तरुणः शूरो दृढभक्तः कुलोचितः ॥ १८ ॥ शूरः क्लेशसहश्चैव खड्गधारी प्रकीर्तितः ॥ १९ ॥