भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 427, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 427

दुर्गं सुगुप्तं नृपतिस्सदैव॥८८॥इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०गर्गं प्रति पुष्कराख्याने दुर्गसम्पत्तिर्नाम षड्विंशतितमोऽध्यायः॥२६॥ राम उवाच ॥ रक्षांसि विषघ्नानि यानि कार्याणि भूभुजा॥ अगदानि समाचक्ष्व तानि धर्मभृतां वर ॥ १॥ पुष्कर उवाच॥ बिल्वाढकी यवक्षारपाटलीबाहिकोषणम् ॥ श्रीपर्णी सहकौमुद्या निष्क्वाथः प्रोक्षणं परम् ॥ २॥ सविषं प्रोक्षितं तेन सद्यो भवति निर्विषः ॥ गवक्षेन्घवपानीयं वंशस्यासनोदनम् ॥ ३॥ कवचामरणच्छत्रबालव्यजनमेव च ॥ शैलूषात्पलितिष्वारिश्शुगोपीपुनर्नवाः ॥ ४॥ समञ्जङ्कुशमूलत्वकपित्थं वृकशोणितम् ॥ सहदन्तशठं तद्वत्तोक्षिणं विषनाशनम् ॥ ५ ॥ लाक्षा प्रियङ्गुमञ्जिष्ठासमङ्गा सहरेणुका ॥ मधू घृताह्वमध्वूपेता वभ्रुपित्तेन कल्कित्ताः ॥ ६॥ निवर्त्तयेद्गोविषाणस्था सप्तरात्रं महीतले ॥ ततः कृत्वा मणिं हेम्ना बद्धं हस्तेन धारयेत् ॥ ॥ ७ ॥ संस्पृष्टस्तद्विषस्तेन सद्यो भवति निर्विषः ॥ मनोहालशमीपुष्पत्वङनिशानीतसर्षपाः ॥ ८ ॥ कपित्थकुसुमंशिङ्घाः पित्तेन श्लूष्णकल्कित्ताः ॥ धनेागवः कपिष्ठायाः सौम्याख्याऽथ पुरो गदः ॥ ९ ॥ विषजित्परमः प्रोक्तो मणिगत्र च पूर्ववत् ॥ मूपकाजिरका चापि हस्ते बद्धा विषापहा ॥ १० ॥ हरेणुमांसी मञ्जिष्ठा रजनीमधुकं मधु ॥ अलक्तवपुसशं......थपित्तं पूर्वमणिं ॥ ११ ॥ वादिन्नाणि पताकाश्च विष्टेरैतैः प्रलेपिताः ॥ श्रुत्वा दृष्ट्वा समाघ्राय सद्यो भवति निर्विषः ॥ १२ ॥ तत्पूषणं पक्षलवणं मञ्जिष्ठा रजनीद्वयम् ॥ सूक्ष्मैला त्रिवृतापत्रं विरुङ्गानिद्रिवारुणी ॥ १३ ॥ मधुकं चेति सन्नाहं गोविषाणैर्निधापयेत् ॥ तस्मादुष्णाव्बुना मात्रां प्रागुक्तां योजयेत्तथा ॥ ॥१४॥ विषं मुक्तं जरां याति निर्विषोपि न दोषकृत् ॥ संतृसर्जरसोरीसपर्षपापत्रवालुकैः ॥१५॥ संवेल्लहङ्करपूरैः कुसुमैर्जुनस्य च ॥ धूपावासो गृहे हन्ति विषं स्थावरजङ्गमम् ॥ १६ ॥ न तत्र कीटा न विषा दुर्दुरा न सरीसृपाः ॥ न कृत्याः कर्म नाऽन्येषु धूपोयं यत्र दह्यते ॥ १७॥ कल्किंतैश्चन्दनक्षौपलाशद्रुमवल्कैः ॥ पूर्वलवालुकुरसानानुलीतण्डुलीयकैः ॥ १८ ॥ क्वाथः सर्वोदकांयेषु काकमाचीजलैर्वृतः ॥ गेचनापद्म नेपालीकुंकुमैस्तिलकं वहन् ॥ १९ ॥ विषं न बाधते स्याच्च नरनारीनृपप्रियः ॥ चूर्णेहरिद्रामंजिष्ठाकिष्किणीकणनिम्बकैः ॥ २० ॥ जिभ्रं त्रिविषतामेति गात्रं सर्वविषादितम् ॥ शिरीषस्य फलं पत्रं पुष्पं त्वङ्मूलमेव च ॥ २१ ॥ गोमूत्रपिष्टो हृगदः सर्वकर्मकरः स्मृतः ॥ एता वीमहो पथ्यः शुण चातः परं द्विज ॥ २२ ॥ वन्ध्या कर्कोटकी राम विष्णुक्रान्ता तथोत्कटा ॥ शतमूला शतानन्दा बलास्फोटा पटोलिका ॥ २३॥


¹ 'वज्र' इत्यपि पाठः ।