विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 422, कुल 1001 में से
संदर्भ में पढ़ेंकर्मणा केन मे लोके जनस्सर्वेऽनुरज्यते ॥ विरज्यते तथा केन विज्ञेयं तन्महीक्षिता ॥ विरागजननं सर्वं वर्जनीयं प्रयत्नतः ॥ ७१ ॥ जनानुरागप्रभवो हि लक्ष्म्यो राज्ञां यतो भार्गववंशचन्द्र ॥ तस्मात्प्रयत्नेन नरेन्द्रसूनोः कार्योऽनुरागो भुवि मानवेषु ॥ ७२ ॥ इति श्रीविष्णुधर्मो त्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे सहायसम्पत्तिर्नाम चतुर्विंशोऽध्यायः ॥ २४ ॥ ॥ पुष्कर उवाच ॥ यथातुवर्तितव्यं स्याद्राज्ञ राजोपजी विभिः ॥ तथा ते कथयिष्यामि निबोध गदतो मम ॥ १ ॥ आज्ञा सर्वात्मना कार्या स्वस्थस्य भृगुनन्दन ॥ आक्षिप्य वचनं तस्य न वक्तव्यं तथा वचः ॥ २ ॥ अनुकूलं प्रियं तस्य वक्तव्यं जनसन्निधौ ॥ रहोगातस्य वक्तव्यमप्रियं यद्धितं भवेत् ॥ ३ ॥ परार्थमथ वक्तव्यं स्वस्थे चेतसि भार्गव ॥ स्वास्थ्यं सुहृद्विद्वैर्त्तव्यं न स्वयं तु कथंचन ॥ ४ ॥ कार्यातिपातकं कार्ये रक्षितव्यं प्रयत्नतः ॥ न च हिन्त्यवचं किंचिन्नियुक्तेन च कर्मणि ॥ ५ ॥ नोपेक्ष्यं तस्य मानं च तथा राज्ञा प्रियो भवेत् ॥ राज्ञश्च न तथा कार्यं वेशभाषितचेष्टितम् ॥ ६॥ राजलीला न कर्तव्या तद्दिष्टं च विवर्जयेत् ॥ राज्ञस्समाशिको वेशो न तु कार्यों विजानता ॥ ७ ॥ द्यूतादिषु तथैवास्य कौशलं तु प्रदर्शयेत् ॥ प्रदर्श्य कौशलं चास्य राजानं न विशेषयेत् ॥ ८ ॥ अन्तःपुरधनाध्यक्षैर्बहिर्दूतैर्नराधिपैः ॥ संसर्गं न व्रजेद्राम विना पार्थिवशासनम् ॥ ९ ॥ निम्नेहतां चावमानं तत्प्रयुक्तं च गोपयेत् ॥ यच्च गुह्यं भवेद्राज्ञास्तन्न लोके प्रकाशयेत् ॥ १० ॥ नृपेण श्रावितं यत्स्या द्ब्रूयाद्बह्वं भृगूत्तम ॥ न तत्संश्रावयेल्लोके तथा राज्ञः प्रियो भवेत् ॥ ११ ॥ आज्ञायमाने चान्यस्मिन्सुत्वराय त्वरा न्वितः ॥ अहं किङ्करवाणीति वाच्यो राजा विजानता ॥ १२ ॥ कार्यावस्थामं च विज्ञाय कार्यमेतत्तथा भवेत् ॥ सततं क्रियमाणस्मिंश्छो घनं तु व्रजेद्बुधः ॥ १३ ॥ राज्ञः प्रियाणि वाक्यानि न चान्यत्थं पुनःपुनः ॥ न हास्यशीलश्च भवेन्न चापि भृकुटीमुखः ॥ ॥ १४ ॥ नातिवक्ता न निर्वक्ता न च मात्सरिकस्तथा ॥ आत्मसम्भावितश्चैव न भवेत्तु कथञ्चन ॥ १५ ॥ दुष्कृतानि नरेन्द्रस्य न च संकीर्त येत्क्वचित् ॥ वस्त्रं पद्ममलंङ्कारं राजा दत्तं तु धारयेत् ॥ १६॥ औदासीन्यं न तद्देयमन्यस्मिन्भूतिमच्छता ॥ न चैवाध्यशनं राज्ञः स्वपनं चापि कारयेत् ॥ १७॥ नानिर्दिष्टे तथा द्वारे प्रविशेत कथञ्चन ॥ न च पश्येत राजानमयतायासु च भूमिषु ॥ १८ ॥ राज्ञस्तु दक्षिणे पार्श्वे वामे चोपविशेतदा ॥ पुरस्तात्तु यथा पश्चादासने तु विगर्हितम् ॥ १९॥ जृम्भा निष्ठीवनं कामं कोपं पर्यस्तिकाव्यथम् ॥ मुकुटं वातसङ्गारं तत्समीपे विवर्जयेत् ॥ २० ॥ स्वयं तथा न कुर्वीत स्वगुणाख्यापनं बुधः ॥ स्वगुणाख्यापने कुर्यात्परमेव प्रयोजकम् ॥ २१ ॥ हृदयं निर्मलं कृत्वा