भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 421, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 421

ज्ञात्वा वृत्तिर्विधातव्या पुरुषाणां महीक्षिता ॥ ४५ ॥ पुरुषान्तरविज्ञाने तत्त्वमात्रनिबन्धनाः ॥ नरेन्द्रलक्ष्या धर्मज्ञास्तत्रायतौ भवेन्नृपः ॥४६॥
स्वभृत्यांश्च तथा पुत्रांस्ततं प्रतिमानिताः ॥ राजा सहायाः कर्तव्याः पृथिवीं जेतुमिच्छता ॥४७॥ यथार्ह चाथ सुभृतात्राजा कर्मसु योजयेत् ॥
धर्म्याण्यान्वीक्षकयिँषु शूरान्संग्रामकर्मणि ॥ ४८ ॥ निपुणानर्थकृत्येषु सर्वत्र च तथा शुचीन् ॥ क्लींबु षण्ढान्नियुञ्जीत तीक्ष्णान्दारुणकर्मसु ॥४९॥
धर्मे चार्थे च कामे च भये च भृशुनन्दन ॥ राजा यथार्हं कुर्यात्ताननुपधाभिः परीक्षितान् ॥ ५० ॥ समतीतो यथार्हाणां कुर्याद्बिभित्तवेनं
चरान् ॥ उत्पादनन्वेषणे यत्तानध्यक्षांस्तत्र कारयेत् ॥ ५१ ॥ एवमादीनि कर्माणि यानि राज्ञां भृगूत्तम ॥ सन्तानिकानि न कुर्वन्ति तस्मात्तानन्विभूष्यान्नृपः
राज्ञांस्तीक्ष्णोपकरणक्षयः ॥ ५२ ॥ पापसाध्यानि कर्माणि यानि राज्ञां
॥ ५३ ॥ नेष्यते पृथिवीशानां तीक्ष्णोपकरणक्षयः ॥ यस्मिन्कर्मणि यस्य स्वादेशेषण च कौशलम् ॥ ५४ ॥ तस्मिन्कर्मणि तं राजा
परीक्ष्य विनियोजयेत् ॥ पितृपितामहान्भृत्यान्सर्वकर्मसु योजयेत् ॥ ५५ ॥ विना दायादकृत्येषु तत्र ते हि समासततः ॥ राजा दायादकृत्येषु
परीक्ष्य स्वकृतान्नरान् ॥ ५६ ॥ नियुञ्जीत महाभागः तस्य ते हितकारिणः ॥ परराज्यगृहान्भ्रातृन्संसंग्रहकाम्यया ॥ ५७ ॥ उद्धाव्याप्य
वा दुष्टान्संश्रयेत प्रयत्नतः ॥ दुष्टं विज्ञाय विश्वासं न कुर्यात्तत्र भूमिपः ॥ ५८ ॥ वृत्तिं तस्यापि वर्त्तेत जनसंग्रहकाम्यया ॥
राजा देशान्तरप्राप्तं पुरुषं पूजयेद्भृशम् ॥ ५९ ॥ सहायं देशसंप्राप्तं बहुमानेन चिन्तयेत् ॥ कामं भृत्यार्जने राजा नैव कुर्याद्धनक्षयम् ॥ ६० ॥
न वै वासं विभक्तं तु भृत्यं कुर्यात्कथञ्चन ॥ शत्रुमग्निं विषं सर्पारिनिंविशामपि चेकतः ॥ ६१ ॥ भृत्या मनुजशार्दूल कुप्यन्त्याश्च तथैकतः ॥ तेषां
चारेण विज्ञानं राजा विज्ञाय नित्यशः ॥ ६२ ॥ गुणिनां पूजनं कुर्यान्निर्गुणानां च शासनम् ॥ कथिताः सततं राम राजानश्चारचक्षुषः ॥
॥ ६३ ॥ स्वदेशे परदेशे च जातिशीलान्विचक्षणान् ॥ अनाहार्याञ्कुशलाञ्छूराँस्त्रियुञ्जीत सदा चरान् ॥ ६४ ॥ जनस्र्यावितवातन्सौम्याँस्तथा
ज्ञातानस्परम् ॥ वणिजो मन्त्रकुशलान्संवत्सरचिकित्सितान् ॥ ६५ ॥ तथा प्रव्राजिताकारात्राजा चारन्नियोजयेत् ॥ नैकस्य राजा श्रद्दध्या
चारस्यापि च भाषितम् ॥ ६६ ॥ द्वयोस्संवादमाज्ञाय सन्दध्यान्नृपतिस्ततः ॥ परस्परस्याविदितौ यदि स्यातां न ताबभौ ॥ ६७ ॥ तस्माद्राज्ञां
प्रयत्नेन गूढांश्चारान्प्रयोजयेत् ॥ राज्यस्य मूलमेतावद्वृक्षस्येवारुदिष्टिता ॥ ६८ ॥ चारणामपि यत्नेन राजा कार्यं परीक्षणम् ॥ गणापरागौ
भृत्यानां जनस्य च गुणगुणान् ॥ ६९ ॥ उन्मानामक्षुभानां च विज्ञानं राम कर्मणाम् ॥ सर्वं राज्ञां चरायत्तं तेष्वायत्तस्सदा भवेत् ॥ ७० ॥

३२

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण) · पृष्ठ 421, कुल 1001 में से · BharatKosha