विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
ज्ञात्वा वृत्तिर्विधातव्या पुरुषाणां महीक्षिता ॥ ४५ ॥ पुरुषान्तरविज्ञाने तत्त्वमात्रनिबन्धनाः ॥ नरेन्द्रलक्ष्या धर्मज्ञास्तत्रायतौ भवेन्नृपः ॥४६॥
स्वभृत्यांश्च तथा पुत्रांस्ततं प्रतिमानिताः ॥ राजा सहायाः कर्तव्याः पृथिवीं जेतुमिच्छता ॥४७॥ यथार्ह चाथ सुभृतात्राजा कर्मसु योजयेत् ॥
धर्म्याण्यान्वीक्षकयिँषु शूरान्संग्रामकर्मणि ॥ ४८ ॥ निपुणानर्थकृत्येषु सर्वत्र च तथा शुचीन् ॥ क्लींबु षण्ढान्नियुञ्जीत तीक्ष्णान्दारुणकर्मसु ॥४९॥
धर्मे चार्थे च कामे च भये च भृशुनन्दन ॥ राजा यथार्हं कुर्यात्ताननुपधाभिः परीक्षितान् ॥ ५० ॥ समतीतो यथार्हाणां कुर्याद्बिभित्तवेनं
चरान् ॥ उत्पादनन्वेषणे यत्तानध्यक्षांस्तत्र कारयेत् ॥ ५१ ॥ एवमादीनि कर्माणि यानि राज्ञां भृगूत्तम ॥ सन्तानिकानि न कुर्वन्ति तस्मात्तानन्विभूष्यान्नृपः
राज्ञांस्तीक्ष्णोपकरणक्षयः ॥ ५२ ॥ पापसाध्यानि कर्माणि यानि राज्ञां
॥ ५३ ॥ नेष्यते पृथिवीशानां तीक्ष्णोपकरणक्षयः ॥ यस्मिन्कर्मणि यस्य स्वादेशेषण च कौशलम् ॥ ५४ ॥ तस्मिन्कर्मणि तं राजा
परीक्ष्य विनियोजयेत् ॥ पितृपितामहान्भृत्यान्सर्वकर्मसु योजयेत् ॥ ५५ ॥ विना दायादकृत्येषु तत्र ते हि समासततः ॥ राजा दायादकृत्येषु
परीक्ष्य स्वकृतान्नरान् ॥ ५६ ॥ नियुञ्जीत महाभागः तस्य ते हितकारिणः ॥ परराज्यगृहान्भ्रातृन्संसंग्रहकाम्यया ॥ ५७ ॥ उद्धाव्याप्य
वा दुष्टान्संश्रयेत प्रयत्नतः ॥ दुष्टं विज्ञाय विश्वासं न कुर्यात्तत्र भूमिपः ॥ ५८ ॥ वृत्तिं तस्यापि वर्त्तेत जनसंग्रहकाम्यया ॥
राजा देशान्तरप्राप्तं पुरुषं पूजयेद्भृशम् ॥ ५९ ॥ सहायं देशसंप्राप्तं बहुमानेन चिन्तयेत् ॥ कामं भृत्यार्जने राजा नैव कुर्याद्धनक्षयम् ॥ ६० ॥
न वै वासं विभक्तं तु भृत्यं कुर्यात्कथञ्चन ॥ शत्रुमग्निं विषं सर्पारिनिंविशामपि चेकतः ॥ ६१ ॥ भृत्या मनुजशार्दूल कुप्यन्त्याश्च तथैकतः ॥ तेषां
चारेण विज्ञानं राजा विज्ञाय नित्यशः ॥ ६२ ॥ गुणिनां पूजनं कुर्यान्निर्गुणानां च शासनम् ॥ कथिताः सततं राम राजानश्चारचक्षुषः ॥
॥ ६३ ॥ स्वदेशे परदेशे च जातिशीलान्विचक्षणान् ॥ अनाहार्याञ्कुशलाञ्छूराँस्त्रियुञ्जीत सदा चरान् ॥ ६४ ॥ जनस्र्यावितवातन्सौम्याँस्तथा
ज्ञातानस्परम् ॥ वणिजो मन्त्रकुशलान्संवत्सरचिकित्सितान् ॥ ६५ ॥ तथा प्रव्राजिताकारात्राजा चारन्नियोजयेत् ॥ नैकस्य राजा श्रद्दध्या
चारस्यापि च भाषितम् ॥ ६६ ॥ द्वयोस्संवादमाज्ञाय सन्दध्यान्नृपतिस्ततः ॥ परस्परस्याविदितौ यदि स्यातां न ताबभौ ॥ ६७ ॥ तस्माद्राज्ञां
प्रयत्नेन गूढांश्चारान्प्रयोजयेत् ॥ राज्यस्य मूलमेतावद्वृक्षस्येवारुदिष्टिता ॥ ६८ ॥ चारणामपि यत्नेन राजा कार्यं परीक्षणम् ॥ गणापरागौ
भृत्यानां जनस्य च गुणगुणान् ॥ ६९ ॥ उन्मानामक्षुभानां च विज्ञानं राम कर्मणाम् ॥ सर्वं राज्ञां चरायत्तं तेष्वायत्तस्सदा भवेत् ॥ ७० ॥
३२
कर्मणा केन मे लोके जनस्सर्वेऽनुरज्यते ॥ विरज्यते तथा केन विज्ञेयं तन्महीक्षिता ॥ विरागजननं सर्वं वर्जनीयं प्रयत्नतः ॥ ७१ ॥ जनानुरागप्रभवो हि लक्ष्म्यो राज्ञां यतो भार्गववंशचन्द्र ॥ तस्मात्प्रयत्नेन नरेन्द्रसूनोः कार्योऽनुरागो भुवि मानवेषु ॥ ७२ ॥ इति श्रीविष्णुधर्मो त्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे सहायसम्पत्तिर्नाम चतुर्विंशोऽध्यायः ॥ २४ ॥ ॥ पुष्कर उवाच ॥ यथातुवर्तितव्यं स्याद्राज्ञ राजोपजी विभिः ॥ तथा ते कथयिष्यामि निबोध गदतो मम ॥ १ ॥ आज्ञा सर्वात्मना कार्या स्वस्थस्य भृगुनन्दन ॥ आक्षिप्य वचनं तस्य न वक्तव्यं तथा वचः ॥ २ ॥ अनुकूलं प्रियं तस्य वक्तव्यं जनसन्निधौ ॥ रहोगातस्य वक्तव्यमप्रियं यद्धितं भवेत् ॥ ३ ॥ परार्थमथ वक्तव्यं स्वस्थे चेतसि भार्गव ॥ स्वास्थ्यं सुहृद्विद्वैर्त्तव्यं न स्वयं तु कथंचन ॥ ४ ॥ कार्यातिपातकं कार्ये रक्षितव्यं प्रयत्नतः ॥ न च हिन्त्यवचं किंचिन्नियुक्तेन च कर्मणि ॥ ५ ॥ नोपेक्ष्यं तस्य मानं च तथा राज्ञा प्रियो भवेत् ॥ राज्ञश्च न तथा कार्यं वेशभाषितचेष्टितम् ॥ ६॥ राजलीला न कर्तव्या तद्दिष्टं च विवर्जयेत् ॥ राज्ञस्समाशिको वेशो न तु कार्यों विजानता ॥ ७ ॥ द्यूतादिषु तथैवास्य कौशलं तु प्रदर्शयेत् ॥ प्रदर्श्य कौशलं चास्य राजानं न विशेषयेत् ॥ ८ ॥ अन्तःपुरधनाध्यक्षैर्बहिर्दूतैर्नराधिपैः ॥ संसर्गं न व्रजेद्राम विना पार्थिवशासनम् ॥ ९ ॥ निम्नेहतां चावमानं तत्प्रयुक्तं च गोपयेत् ॥ यच्च गुह्यं भवेद्राज्ञास्तन्न लोके प्रकाशयेत् ॥ १० ॥ नृपेण श्रावितं यत्स्या द्ब्रूयाद्बह्वं भृगूत्तम ॥ न तत्संश्रावयेल्लोके तथा राज्ञः प्रियो भवेत् ॥ ११ ॥ आज्ञायमाने चान्यस्मिन्सुत्वराय त्वरा न्वितः ॥ अहं किङ्करवाणीति वाच्यो राजा विजानता ॥ १२ ॥ कार्यावस्थामं च विज्ञाय कार्यमेतत्तथा भवेत् ॥ सततं क्रियमाणस्मिंश्छो घनं तु व्रजेद्बुधः ॥ १३ ॥ राज्ञः प्रियाणि वाक्यानि न चान्यत्थं पुनःपुनः ॥ न हास्यशीलश्च भवेन्न चापि भृकुटीमुखः ॥ ॥ १४ ॥ नातिवक्ता न निर्वक्ता न च मात्सरिकस्तथा ॥ आत्मसम्भावितश्चैव न भवेत्तु कथञ्चन ॥ १५ ॥ दुष्कृतानि नरेन्द्रस्य न च संकीर्त येत्क्वचित् ॥ वस्त्रं पद्ममलंङ्कारं राजा दत्तं तु धारयेत् ॥ १६॥ औदासीन्यं न तद्देयमन्यस्मिन्भूतिमच्छता ॥ न चैवाध्यशनं राज्ञः स्वपनं चापि कारयेत् ॥ १७॥ नानिर्दिष्टे तथा द्वारे प्रविशेत कथञ्चन ॥ न च पश्येत राजानमयतायासु च भूमिषु ॥ १८ ॥ राज्ञस्तु दक्षिणे पार्श्वे वामे चोपविशेतदा ॥ पुरस्तात्तु यथा पश्चादासने तु विगर्हितम् ॥ १९॥ जृम्भा निष्ठीवनं कामं कोपं पर्यस्तिकाव्यथम् ॥ मुकुटं वातसङ्गारं तत्समीपे विवर्जयेत् ॥ २० ॥ स्वयं तथा न कुर्वीत स्वगुणाख्यापनं बुधः ॥ स्वगुणाख्यापने कुर्यात्परमेव प्रयोजकम् ॥ २१ ॥ हृदयं निर्मलं कृत्वा
परं भक्तिमुपाश्रितैः ॥ अनुजीविगणेनार्य्यं नित्यं राजामतिन्दितैः ॥ २२ ॥ शाठ्यं लौल्यमपैशुन्यं नास्तिक्यं क्षुद्रतां तथा ॥ चापल्यं च परं त्याज्यं नित्यं राजानुजीविना ॥ २३ ॥ श्रुतेन विद्याशिल्पैश्च संयोज्यात्मानमात्मना ॥ राजसेवां ततः कुर्य्याद्दृत्यै भीतिवर्धनः ॥ २४ ॥ नम- स्कार्य्यस्सदा चास्य पुत्रवल्लभमन्त्रिणः ॥ सचिवैश्वास्य विश्वासं न तु कार्यं कथञ्चन ॥ २५ ॥ अपृष्टश्चास्य न ब्रूयात्कामं ब्रूयात्तथापदि ॥ हितं पथ्यं च वचनं हितस्सह सुनिश्चितम् ॥ २६ ॥ चित्तं चैवास्य विज्ञेयं नित्यमेवानुजीविना ॥ भर्तुराराधनं कुर्य्याच्चित्तज्ञो मानवः सुखम् ॥ २७ ॥ रगापरागौ चैवास्य विज्ञेयौ भूतिमिच्छता ॥ त्यजेद्विरक्तं नृपतिं रक्तञ्चेति तु कामयेत् ॥ २८ ॥ कर्मोपकारयोर्नाशं विपक्षाम्युदयं तथा ॥ आशासंवर्धनं कृत्वा फलनाशं करोति च ॥ २९ ॥ अकोडोऽपि प्रकोपामः प्रसन्नोऽपि च निष्फलः ॥ वाक्यं समन्दं वदति वृत्तिच्छेदं करोति च ॥ ॥ ३० ॥ प्रवेशवाक्यादिदौ तं न संभावयतीत्यथ ॥ आराधनासु सर्वासु सुतवच्च विचेष्टते ॥ ३१ ॥ कथासु दोषः क्षिपति वाक्यच्छेदं करोति च ॥ लक्ष्यते विमुखश्चैव गुणसङ्कीर्त्तने कृते ॥ ३२ ॥ दधि क्षिप्त्यथाप्यन्यत्र क्रियमाणे च कर्मणि ॥ विरक्तलक्षणं श्रुत्वा शृणु रक्तस्य लक्षणम् ॥ ३३ ॥ दृष्ट्वा प्रसन्नो भवति वाक्यं गृह्णाति चादरात् ॥ कुशलानिपरिप्रश्ने संप्रयच्छति चासनम् ॥ ३४ ॥ विविक्तदर्शने चास्य रहस्ये न च शङ्कते ॥ जायते हृष्टवदनः श्रुत्वा तस्य तु सङ्कथाम् ॥ ३५ ॥ अप्रियाण्यपि वाक्यानि तदुक्तान्यभिनन्दति ॥ उपायनं च गृह्णाति स्तोकमप्यादरात्तथा ॥ ३६ ॥ कथान्तरेषु स्मरति प्रहृष्टवदनस्तथा ॥ इति रक्तस्य कर्त्तव्या सेवा भृगुकुलोद्वह ॥ आपत्सु न त्यजेत्पूर्व विरक्तमपि सेवितम् ॥ ३७ ॥ मित्रं न चापत्सु तथा न भृत्यं व्रजन्ति ये निर्गुणमप्रमेयम् ॥ प्रभुं विशेषेण च ते व्रजन्ति सुरेन्द्रधामासुरवृन्द- जुष्टम् ॥ ३८ ॥ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे अनुजीविवृत्तं नाम पञ्चविंशोऽध्यायः ॥ २५ ॥ ॥ पुष्कर उवाच ॥ ॥ राजा सहायसंयुक्तः प्रभूतयवसेन्धनम् ॥ रम्यमानतसामन्तः पशव्यं देशमावसेत् ॥ १ ॥ वैश्यशूद्रजनप्रायमनाहार्यं तथा परैः ॥ किञ्चिद्ब्राह्मणसंयुक्तं बहुकर्मकरं तथा ॥ २ ॥ अदेवमातृकं कर्मस्वनुरक्तजनान्वितम् ॥ करैरपीडितं चापि बहुपुष्पं फलं तथा ॥ ३ ॥ अगम्यं परचक्राणां तडागसहमापदि ॥ समदुःखसुखं राज्ञः सततं च प्रिये स्थितम् ॥ ४ ॥ सरीसृपविहीनं च व्याधितस्करवर्जितम् ॥ एवंविधं यथालार्म राजा विषयमावसेत् ॥ ५ ॥ तत्र दुर्गं नृपः कुर्य्यात्तृषणामेकतमं बुधः ॥ धन्वदुर्गं महीदुर्गं नरदुर्गं तथैव च ॥ ६ ॥ वार्क्षं चैवांबुदुर्गं च गिरिदुर्गं च भार्गव ॥ सर्वेषामेव दुर्गाणां गिरिदुर्गं प्रशस्यते ॥ ७ ॥ दुर्गं च परिखोपेतं नृपाट्टालकसंयुतम् ॥ शतघ्नीयन्त्रसुश्लक्ष्णं शतशश्च
द्वि० खं० अ० २६
वि० ध० ॥१८८॥
तथा युतम् ॥ ८॥ गोपुरं सङ्कपाटं च तत्र स्यात्सुमनोहरम् ॥ सपताकगजारूढो येन राजा विशेत्पुरम् ॥ ९ ॥ चतस्रश्च तथा तत्र कार्याश्चापण- वीथयः ॥ एकस्मिंस्तत्र वीथ्यग्रे देववेश्म भवेद्दृढम् ॥ १० ॥ वीथ्यग्रे च द्वितीये वै राजवेश्माभिधीयते ॥ धर्माधिकरणं कार्यं वीथ्यग्रे च तृतीयके ॥ ११ ॥ चतुर्थे चैव वीथ्यग्रे गोपुरं च विधीयते ॥ आयतं चतुरस्रं वा वृत्तं चाकारयेत्पुरम् ॥ १२ ॥ मुक्तिहीनं त्रिकोणं च यवमध्यं तथैव च ॥ अर्धचन्द्रप्रकारं च वज्राकारं च वर्जयेत् ॥ १३ ॥ अर्धचन्द्रं प्रशंसन्ति नदीतीरे तु तद्वशात् ॥ अन्यत्र तन्न कर्तव्यं प्रयत्नेन विजानता ॥ १४ ॥ राज्ञः कोशगृहं कार्यं दक्षिणे राजवेश्मनः ॥ तस्यापि दक्षिणे भागे गजस्थानं विधीयतो॥१५॥गजानां प्राङ्मुखी शाला कर्तव्या चायुधस्युर्वो ॥ आग्नेये च तथा भागे आयुधागार इष्यते ॥१६॥ महानसं च धर्मज्ञः कर्मशालास्तथापराः ॥ गृहं पुरोधसः कार्यं वामतो राजवेश्मनः ॥ १७ ॥ मन्त्रिदेविद्विदां चैव चिकित्सत्कर्तुमेव च ॥ तत्रैव च तथा भागे कोष्ठागारं विधीयते ॥ १८ ॥ गवां स्थानं तु कर्तव्यं तुरगाणां तथैव च ॥ उत्तराभिमुखी श्रेणी तुरगाणां विधीयते ॥ १९ ॥ प्राङ्मुखी चापि धर्मज्ञ परिशेषा विगर्हिता ॥ तुरगाश्च तथा धायाः प्रशस्तैः सार्वरात्रिकैः ॥ ॥ २० ॥ कुक्कुटान्श्वानरोमांश्च मर्कटांश्च नराधिपः ॥ धारयेदथ शालासु सवत्सां धेनुमेव च ॥ २१ ॥ अजाश्च धार्या यत्नेन तुरगाणां हिते विष्णो ॥ गोगजाश्वविशालासु तत्पुरीषस्य निष्क्रमम् ॥ २२ ॥ अस्तङ्गते न कर्तव्यं देवदेवे दिवाकरे ॥ ततस्तत्र यथान्यायं राजा विधाय सार वित् ॥ २३ ॥ द्वादशाववसथस्थानं सर्वेषामनुपूर्वशः ॥ योधानां शिल्पिनां चैव सर्वेषामविशेषतः ॥ २४ ॥ द्वादशावसथान्दुर्गे मन्त्रकालविदां सताम् ॥ गोवैद्यानश्ववैद्यांश्च गजवैद्यांस्तथैव च ॥ २५ ॥ आहरेत भृशं राजा दुर्गे परबलारुजः ॥ कुशलीनावां विप्राणां दुर्गे स्थानं विधीयते ॥ ॥ २६ ॥ न बहूनां न तैर्दुगं विना कार्यं तथा भवेत् ॥ दुर्गं च यन्त्रताः कर्तव्या नानाप्रहरणान्विताः ॥ २७ ॥ सहस्रघातिनो राम तैस्तु रक्षा विधीयते ॥ दुर्गे द्वाराणि गुप्तानि कार्याण्यपि च भूभुजा ॥ २८ ॥ संचयश्चात्र सर्वेषां चायुधानां प्रशस्यते ॥ धनुषां क्षेपणीयानां तोमराणां च भार्गव ॥ २९ ॥ शराणामथ खङ्गानां कनकानां तथैव च ॥ लघुडानां गदानां च दृढानां पट्टिधैः सह ॥ ३० ॥ अश्मनां च प्रभूतानां सुदूराणां तथैव च ॥ कणिचानां त्रिशूलानां पट्टिशानां च भार्गव ॥ ३१ ॥ प्रासानां च त्सरूणां च शक्तीनां च नरोत्तम ॥ पर- शूधानां चक्राणां चर्मणां वर्मभिः सह ॥ ३२ ॥ कुठाररज्जुनेत्राणां पिटिकानां तथैव च ॥ हस्तकानां च पात्राणामगरस्य च संश्र- यम् ॥ ३३ ॥ सर्वेषां चित्रभाण्डानां सञ्चयश्चात्र इष्यते ॥ वाद्यानां च सर्वेषामौषधानां तथैव च ॥ ३४ ॥ यवसानां प्रभूतानां
॥१८८॥
चेन्धनस्य च सञ्चयम् ॥ गुडस्य सर्वशैलानां गोरसानां तथैव च ॥ ३६ ॥ चर्मणां च ससर्ज्जानां स्नायूनामस्थिभिः सह ॥ गोरसस्य पट्टानां च धान्यानां सर्वतस्तथा ॥ ३६ ॥ तथैव प्रपटानां च यवगोधूमयोरपि ॥ रत्नानां सर्ववस्त्राणां लोहानां चाप्यशेषतः ॥ ३७॥ कलायमुद्गमाषाणां चणकानां तिलैः सह ॥ तथा च सर्वसस्यानां पांशुगोमययोरपि ॥३८॥ सणसर्जसरं भूर्जन्तुलाक्षाकंटकंटपम् ॥ राजा सञ्चिनुयाद्गेहे पश्चान्नद्यपि किञ्चन ॥ ३९ ॥ कुम्भाः सार्षाविषा धात्री व्याघ्रसिंहादयस्तथा ॥ मृगाश्च पक्षिणश्चैव पशवश्च पृथग्विधाः ॥४०॥ संचयानि विरुद्धानां सुगुप्तानि पृथक्पृथक् ॥ कर्तव्यानि महाभाग यत्नेन पृथिवीक्षिता ॥ ४१ ॥ उक्तानि चाप्यनुक्तानि राजद्रव्याण्यशेषतः ॥ सुगुप्तानि पुरे कुर्याज्जनानां हित काम्यया ॥ ४२ ॥ जीवकर्षभककोलीरामलकयः परूषकम् ॥ शालिपर्णी पृश्निपर्णी मुद्गपर्णी तथैव च ॥ ४३ ॥ माषपर्णी तथा चैव सारि वे द्वेबलामयम् ॥ वीराश्वगन्धा वृश्चीका बृहती कण्टकारिका ॥४४॥ शृङ्गाटिका रोद्रगोधा वंशशृङ्गमभृङ्गन्द्का ॥ मधुपर्णीविदार्यौ द्वे महाद्रोणं महा तथा ॥ ४५ ॥ धन्वना महाशृङ्ग्याह्वा त्रिकोटी ण्डकं विषम् ॥ पर्णासनाह्वौ मृद्वीका फल्गुः खर्जूरयष्टिका ॥ ४६ ॥ युक्तातिमुक्तकाशर्मष्युच्छ्र त्रातिच्छत्रावीरणम् ॥ इक्षुरेक्षुविकारश्च फाणिताद्याश्च भार्गव ॥ ४७ ॥ सहाश्च सहदेवाश्च विश्वेदेवाहरूषकम् ॥ मयूरपृष्ठं हंसाख्या शतपुष्पमधू लिका ॥ ४८ ॥ शतावरी मधूकं च प्रियालं तालमेव च ॥ आत्मगुप्ता कट्फलाख्या दृग्दा राजसेरुका ॥४९॥राजर्षभकधानक्य चक्राम्रोक्ता तथो त्कटा ॥ कंटकटा पञ्चबीजं गोवल्ली मधुवल्लिका ॥५०॥ शीतपाकी कुलिक्षाक्षी काकोलिर्द्वेणरिणविका ॥ एवांश्रुपसी चोभो सुआतकपपुननर्वा ॥५१॥ काशेरुका तुगाक्षीरा बिल्वेशालूककेसरम् ॥ शुक्तधान्यानि सर्वाणि शम्बीधान्यानि यानि च ॥ ५२ ॥ क्षीरं क्षौद्रं तथा शुकं मज्जा तैलं वसा घृतम् ॥ निकोचामिषुकक्षोटं वातातं सोरुखाणकम् ॥ ५३ ॥ एवमादीनि चान्यानि विज्ञेयो मधुरो गणः ॥ राजा सञ्चिनुयात्सर्वं पुरे निवश्रो पतः ॥ ५४ ॥ दाडिमाम्रातकं लीनं तिन्तिडीकाम्लवेतसम् ॥ भव्यकः कण्डलीकक्ष मकरन्दकूरूपकम् ॥५५॥ बीजपूरककाण्डोरमातली राज धन्वना ॥ कोलद्वयपणानि द्वयोश्छोक्योरापिवा॥५६॥ पालेवतं मार्गानिकं प्राचीनारूकमेव च ॥ कपित्थामलकं चुक्रं क्लिन्दं च शठस्य चा॥५७॥ जाम्बवं नवनीतं च सौवीरकतषोचके ॥ सुरासवं च मद्यानि मण्डं तक्रदधीनि च ॥ ५८ ॥ शुक्तानि चैव सर्वाणि ज्ञेयान्यम्लगणानि वै ॥ सैन्धवोद्भिद्नार्नदयःसयसामुद्ररोचकम् ॥ कूपसोवर्णचेलंविडं वालकेलोपबालुकम् ॥ ५९ ॥ उपक्षारं कालभस्म विज्ञेयो लावणो गणः ॥ एवमादीनि चान्यानि राजा सञ्चिनुयात्पुरे ॥ ६० ॥ पिप्पली पिप्पलीमूलं चव्यचित्रकनागरम् ॥ कुठेरकं समरिचं शिग्रुं भल्लात
वि० ध० ॥१८२॥ हिं० सं० अ० २६
सर्पषाः ॥ ६१ ॥ कुष्ठजमोदकटिभिङ्गीमूलकधान्यकम् ॥ कारव्यः कुचिकादाव्यः सुषुवः कालपालिका ॥ ६२॥ फणिज्जकोऽथ लशुनं भूतॄणं सुरसस्तथा ॥ कायस्था च वयस्था च हरितालं मनःशिला ॥६३॥ अमृतारुद्रदन्ती च रोहिंतं कुंकुमं तथा॥ अवल्गुजः सोमराजी कृष्णसर्पा शिंला- जतु ॥ ६४ ॥ कपित्थकें तेजवती विडंगानिगुडानि च ॥ एडकाक्षी प्रकीर्या च पुण्डीरं स्वर्णयूथिका ॥ ६५ ॥ सौगन्धिकं गुंजनकं वेश्मधूमंऽथ रोचना ॥ यवा एरण्डकोडीरं सत्यको दृपुषा तथा ॥ ६६॥सर्वपीतानि सूत्राणि प्रायो हारिद्रकानि चा॥ फलानि चैषां च तथा सूक्ष्मेला हिङ्गुपत्रिका ॥ ६७ ॥ एमादीनि चान्यानि गणं कटुकसंज्ञकम् ॥ राजा संचिनुयाङ्गे प्रयत्नतेन भूपतम् ॥६८॥ मुस्तञ्चन्दनह्रीवेरकृतमालकदारवम् ॥ हरिद्रा नलदोशीरमंक्तामलकवास्तुकम् ॥ ६९ ॥ पूर्वा पटोलकटुका पाठत्वक्पत्रतम्बुकः ॥ किरातातिक्तको निम्बं यष्टीकातिविषा तथा ॥ ७० ॥ तालीशं पत्रं तगरं सप्तपर्णं निकान्तकम् ॥ काकोदुम्बरकोद्दीपसुपर्वणिकणिकासनाः ॥७१॥ पद्मन्था च हिङ्गी मांसी पर्पटं मद्यन्तिका ॥ रसाञ्जनं भृङ्ग- रसं पतङ्गपरिपेलवम् ॥ ७२ ॥ दुःस्पर्शा गुरुणी काशो रक्तं गन्धनाकुली ॥ तुषवल्ली व्याघ्रनखं शांगद्यचतुरंगुलः ॥ ७३ ॥ रास्त्रा चैव कुशा स्फीता हरेणुश्च रेणुका ॥ वेत्राग्रं वेतसस्तूर्वी विषाणं लोहमञ्जनम् ॥ ७४ ॥ मालती नतितारुस्या वृषगोझिलकर्कशाः ॥ पर्पटी च गुडूची च गणस्तिक्तकसंज्ञकः ॥ ७५ ॥ एवमादीनि चान्यानि राजा संचिनुयात्पुरे ॥ अभयामल्कं क्षोभं तथैव च विभीतकम् ॥ ७६ ॥ प्रियङ्गुघातकी पुष्पमोचरोचासनाऽर्जुना ॥ अनन्ताम्रास्थि नागह्वास्तायना कङ्कफलं तथा ॥ ७७ ॥ भूर्जपत्रं शिवोद्भाडे पाटला वकुलोद्भवम् ॥ समङ्गा त्रिवृतामूलं कपासा गैरिकाञ्जनम् ॥ ७८ ॥ विद्रुमं समधुच्छिष्टं कुम्भीककुसुदोत्पले ॥ न्यग्रोधोदुम्बरवक्षस्थल्यकिंशुकाः शिशपा शमी ॥ ७९ ॥ प्रियाला पलु कासारं शिरीषं पद्मकं तथा ॥ बिल्वाग्निमन्थे प्लक्षश्च श्यामाकायचकोयनम् ॥ गजादनं करीरं च चम्पकप्रियकौ तथा ॥ ८० ॥ अंकोलोशीरख- दिराः कदम्बाखदिगाह्वयम् ॥ येषां पत्राणि साराणि मूलानि कुसुमानि च ॥ ८१ ॥ एवमादीनि चान्यानि कषायाख्यो गणोस्ति च ॥ प्रयत्नेन नृपश्रेष्ठ राजा संचिनुयात्पुरे ॥ ८२ ॥ कीटाश्मरणे योगा व्यञ्जनायां तथैव च ॥ वातधूमाम्बुमार्गाणां दूषणानि तथैव च ॥ ८३ ॥ धार्याणि पार्थिवैर्गेहे नाहं वक्ष्यामि तानि ते ॥ विषाणां धारणं कार्यं प्रयत्नेन महीभुजा ॥ ८४ ॥ विचित्राश्चागदा धार्या विषप्रशमनास्तथा ॥ रक्षोभूतादिशमनाः पापघ्नाः पृथिवर्धनाः ॥ ८५ ॥ कालविद्वेश्च पुरुषाः पुरे धार्याः प्रयत्नतः ॥ भीतानभ्रान्तान्कुपितांस्तथैव च विमानितान् ॥ ॥ ८६ ॥ कुमृव्यानकुलीनांश्च न राजा वासयेत्पुरो ॥ ८७ ॥ यन्नायुधार्हाल्लोच्योपपन्नं समर्थधान्योपचयंतथायुक्तम् ॥ वणिग्जनैः शोभनमावसेत
॥१८१॥
दुर्गं सुगुप्तं नृपतिस्सदैव॥८८॥इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०गर्गं प्रति पुष्कराख्याने दुर्गसम्पत्तिर्नाम षड्विंशतितमोऽध्यायः॥२६॥ राम उवाच ॥ रक्षांसि विषघ्नानि यानि कार्याणि भूभुजा॥ अगदानि समाचक्ष्व तानि धर्मभृतां वर ॥ १॥ पुष्कर उवाच॥ बिल्वाढकी यवक्षारपाटलीबाहिकोषणम् ॥ श्रीपर्णी सहकौमुद्या निष्क्वाथः प्रोक्षणं परम् ॥ २॥ सविषं प्रोक्षितं तेन सद्यो भवति निर्विषः ॥ गवक्षेन्घवपानीयं वंशस्यासनोदनम् ॥ ३॥ कवचामरणच्छत्रबालव्यजनमेव च ॥ शैलूषात्पलितिष्वारिश्शुगोपीपुनर्नवाः ॥ ४॥ समञ्जङ्कुशमूलत्वकपित्थं वृकशोणितम् ॥ सहदन्तशठं तद्वत्तोक्षिणं विषनाशनम् ॥ ५ ॥ लाक्षा प्रियङ्गुमञ्जिष्ठासमङ्गा सहरेणुका ॥ मधू घृताह्वमध्वूपेता वभ्रुपित्तेन कल्कित्ताः ॥ ६॥ निवर्त्तयेद्गोविषाणस्था सप्तरात्रं महीतले ॥ ततः कृत्वा मणिं हेम्ना बद्धं हस्तेन धारयेत् ॥ ॥ ७ ॥ संस्पृष्टस्तद्विषस्तेन सद्यो भवति निर्विषः ॥ मनोहालशमीपुष्पत्वङनिशानीतसर्षपाः ॥ ८ ॥ कपित्थकुसुमंशिङ्घाः पित्तेन श्लूष्णकल्कित्ताः ॥ धनेागवः कपिष्ठायाः सौम्याख्याऽथ पुरो गदः ॥ ९ ॥ विषजित्परमः प्रोक्तो मणिगत्र च पूर्ववत् ॥ मूपकाजिरका चापि हस्ते बद्धा विषापहा ॥ १० ॥ हरेणुमांसी मञ्जिष्ठा रजनीमधुकं मधु ॥ अलक्तवपुसशं......थपित्तं पूर्वमणिं ॥ ११ ॥ वादिन्नाणि पताकाश्च विष्टेरैतैः प्रलेपिताः ॥ श्रुत्वा दृष्ट्वा समाघ्राय सद्यो भवति निर्विषः ॥ १२ ॥ तत्पूषणं पक्षलवणं मञ्जिष्ठा रजनीद्वयम् ॥ सूक्ष्मैला त्रिवृतापत्रं विरुङ्गानिद्रिवारुणी ॥ १३ ॥ मधुकं चेति सन्नाहं गोविषाणैर्निधापयेत् ॥ तस्मादुष्णाव्बुना मात्रां प्रागुक्तां योजयेत्तथा ॥ ॥१४॥ विषं मुक्तं जरां याति निर्विषोपि न दोषकृत् ॥ संतृसर्जरसोरीसपर्षपापत्रवालुकैः ॥१५॥ संवेल्लहङ्करपूरैः कुसुमैर्जुनस्य च ॥ धूपावासो गृहे हन्ति विषं स्थावरजङ्गमम् ॥ १६ ॥ न तत्र कीटा न विषा दुर्दुरा न सरीसृपाः ॥ न कृत्याः कर्म नाऽन्येषु धूपोयं यत्र दह्यते ॥ १७॥ कल्किंतैश्चन्दनक्षौपलाशद्रुमवल्कैः ॥ पूर्वलवालुकुरसानानुलीतण्डुलीयकैः ॥ १८ ॥ क्वाथः सर्वोदकांयेषु काकमाचीजलैर्वृतः ॥ गेचनापद्म नेपालीकुंकुमैस्तिलकं वहन् ॥ १९ ॥ विषं न बाधते स्याच्च नरनारीनृपप्रियः ॥ चूर्णेहरिद्रामंजिष्ठाकिष्किणीकणनिम्बकैः ॥ २० ॥ जिभ्रं त्रिविषतामेति गात्रं सर्वविषादितम् ॥ शिरीषस्य फलं पत्रं पुष्पं त्वङ्मूलमेव च ॥ २१ ॥ गोमूत्रपिष्टो हृगदः सर्वकर्मकरः स्मृतः ॥ एता वीमहो पथ्यः शुण चातः परं द्विज ॥ २२ ॥ वन्ध्या कर्कोटकी राम विष्णुक्रान्ता तथोत्कटा ॥ शतमूला शतानन्दा बलास्फोटा पटोलिका ॥ २३॥
¹ 'वज्र' इत्यपि पाठः ।
वि० ध० ॥१३०॥ द्वि० खं० अ० २८
सोमा पिण्डा निशा चैव तथा दृग्गरुहा जया ॥ स्थले कमलिनी या च पिपिली शृङ्गमूलिका¹ ॥ २४ ॥ चण्डाली हस्तिचण्डाली गोचण्डाली क्व न्चिका ॥ रक्ता चैव महारक्ता तथा बर्हिशिखा च या ॥ २५ ॥ कोशातकी नक्तमालं पियालं च स्वलक्षणा ॥ चारणा च सुगन्धा च तथा वै गन्धनाकुली ॥ २६ ॥ ईश्वरी च सलिङ्गी च सोमली वंशनालिका ॥ जतुकारी तथा श्वेता श्वेता च मधुयष्टिका ॥ २७ ॥ वज्रटः पारिभद्रश्च तथा वै सिन्धुवारिका ॥ जीवानन्दी वसुमती न ते नागकटं कटुम् ॥ २८ ॥ तालना जालपातालं तथा च वटपत्रिका ॥ कशीरा महानीली कहारं हंसादिका ॥ २९ ॥ मण्डूकपर्णी वाराही द्वे तथा तण्डुलीयकै ॥ सपाक्षी लवणा ब्राह्मी विश्वरूपा सुवर्चरी ॥ ३० ॥ रुजापहा शृङ्गिकरी तथा शल्यापहा च या ॥ पत्रिका रोहिणी चैव रक्तला च महौषधी ॥ ३१ ॥ तथामलकवन्दारु वार्वचित्रा पटोलिका ॥ काकोली क्षीरकाकोली पीलुपर्णी मनोवती ॥ ३२ ॥ केशानी वृश्चिका काली महानागा शतावरी ॥ तथा गरुडवेगा च या श्वेतकुसुदिनी च या ॥ ३३ ॥ स्थले चोत्प- लिनी या च महासुमिलता च या ॥ उन्मादिनी सोमराजी सर्वरत्नानि भार्गव ॥ ३४ ॥ विशेषान्मरकंतं तत्र कीटपक्षं विशेषतः ॥ जीवञ्जा- ताश्च मणयस्सर्वे धार्या विशेषतः ॥ ३५ ॥ रक्षोघ्नाश्च पशस्याश्च कृत्वा वेतालनाशिनः ॥ विशेषानन्तरनागाश्च गोखरोष्ट्रसुसु- मृवाः ॥ ३६ ॥ सर्पतिलतुरंगमोशायुबुभुक्षमण्डूकाश्च ये ॥ सिंहव्याघ्रमार्जारद्वीपवातनसम्भवाः ॥ ३७ ॥ कपिजलजगोधाविमाहिषेणमवाश्व- ये ॥ ३८ ॥ इत्येवमेतैस्सकलैरुपेतं द्रव्यैः पुरं रक्षितसञ्चयं च ॥ राजा वसेत्तत्र गृहं च शुभ्रं गुणान्वितं लक्षणसंमयुक्तम् ॥ ३९ ॥ इति श्रीविष्णुधर्मोत्तरे मा०सं० द्वितीयखण्डे अङ्गङ्गद्वयायोगो नाम सप्तविंशतितमोऽध्यायः ॥ २७ ॥ ॥ राम उवाच ॥ राजरक्षागृहस्यानि यानि दुर्गे निधापयेत् ॥ कारयेद्वा महीभर्ता कथयस्वाशु तानि मे ॥ १ ॥ पुष्कर उवाच ॥ शिरीषोदुम्बराम्रास्थिबीजपूरं घृतप्लुतम् ॥ धूपयोगः कथितो राम मासार्धेस्य पुरातनैः ॥ २ ॥ कपेरुत्पलकुलानि इक्षुमूलं तथा विषम् ॥ दूर्वाक्षीरघृतेर्मण्डैः³ सिद्धोऽयं मार्मिकः² परम् ॥ ३ ॥ शूलमंतं नरं प्राप्य तस्यास्थामरणौ भवेत् ॥ कलशापविपुना तत्र जनयेत् विभावसुम् ॥ ४ ॥ गृहे विरपमव्यं तन्क्रियते यत्र भार्गव ॥ नान्योन्यिज्ज्वेलते तत्र नात्र कार्या विचारणा ॥ ५ ॥ कपासास्थि भुजङ्गस्य तथा निर्मोचनं परम् ॥ सर्पनिर्वासने धूपः प्रशस्तः सततं गृहे ॥ ६ ॥ सान्द्रसत्त्वा च वयसा विशुद्धा च मृतिका ॥ तयावलिप्तं गृहम नाग्निना दह्यते द्विज ॥ ७ ॥ दिवा च दुर्गे रक्षोऽग्निर्वार्ति
॥१३०॥
¹ 'शंखमूलिका' इति ख० ।
² 'विषम्' इति ख० ।
³ 'कुण्डः' इति क० ।
वाते विशेषतः ॥ विषान्नं रक्ष्यो नृपतिस्तत्र युक्तिं निबोध मे ॥ ८ ॥ क्रीडानिभित्तं नृपतेर्धार्याः स्युर्मृगपक्षिणः ॥ अन्नं च प्राक्परीक्षेत वह्नावथ नरेषु च ॥ ९ ॥ वस्त्रं पत्रमलङ्कारं भोजनाच्छादने तथा ॥ नापरीक्षितपूर्वं तु स्पृशेदपि महीपतिः ॥ १० ॥ श्यावास्यवक्त्रः सस्वेदं च परीक्षते ॥ विषदेन विषं दत्तं यत्र तत्र निरीक्षते ॥ ११ ॥ सस्तोन्तरीयो$^{२}$ विमनाः स्तम्भकुड्यादिभिस्तथा ॥ प्रच्छादयति चात्मानं स्विद्यते लज्जते तथा ॥ १२ ॥ भुवं विलिखते ग्रीवां तथा चालयते द्विज ॥ कण्डूयति च मूर्धानं परिलेढ्योष्ठयं तथा ॥ १३ ॥ क्रियासु त्वरते राग विपगीतस्त्वपि ध्रुवम् ॥ एवमादीनि चिह्नानि विषदस्य परीक्षयेत् ॥ १४ ॥ ततो विचारयेदग्नौ तदन्नं त्वरयान्वितः ॥ इन्द्रायुधसवर्णस्तु वृक्षस्फोटसमन्वितः ॥ १५ ॥ एकावर्तोऽथ दुर्गन्धी भृशं चटचटायते ॥ तद्धूमसेवनाज्जन्तोः शिरोरोगश्च जायते ॥ १६ ॥ सविषेऽन्ने निलोयन्ते न च भार्गव मक्षिकाः ॥ निर्लीनाश्च विपद्यन्ते दृष्टे च सविषे तथा ॥ १७ ॥ विरज्यति चकोरस्य दृष्टिर्भागवतोत्तम ॥ विकृतिं च स्वरे याति कोकिलस्य तथा द्विज ॥ १८ ॥ गतिः स्खलति हंसस्य भृङ्गराजश्च कूजति ॥ क्रौंचो मदमथाभ्येति कृकवाकुर्विरौति च ॥ १९ ॥ विक्रोशति चकोरश्च शारिका वाशते तथा ॥ चामीकरोऽन्यतो याति मृत्युं कारण्डवस्तथा ॥ २० ॥ म्रियेते वानरो राजन् म्लायते जीवजीवकः ॥ हृष्टरोमा भवेद्वभ्रुः पृषतश्चैव रोदिति ॥ २१ ॥ हर्षमायाति च शिखी सविषे दर्शने द्विज ॥ अन्नं च सविषं राजन् चिरेण च विपच्यते ॥ २२ ॥ तथा भवत्यतिस्त्रावं पक्कं पर्युषितोपमम् ॥ व्यापन्नरसगन्धं च चन्द्रिकाभिस्तथा युतम् ॥ २३ ॥ व्यञ्जनानां च शुक्तत्वं द्रवाणां बुद्बुदोद्भवः ॥ ससैन्धवानां द्रव्याणां जायते फेनमालिका ॥ २४ ॥ रसस्य राजी नीला स्यात्ताम्रा च पयसस्तथा ॥ कोकिलाभा च मद्यस्य तोयस्य च भृगूत्तम ॥ २५ ॥ धान्याम्लस्य तथा कृष्णा कपिला कोद्रवस्य च ॥ मधुश्यावा च तक्रस्य नीला पीता तथैव च ॥ २६ ॥ घृतस्योदकस- काशा कपोताभा च मस्तुनः ॥ हरिता माक्षिकस्यापि तैलस्य च तथारुणा ॥ २७ ॥ फलानामाद्यपक्वानां पाकः क्षिप्रं प्रजायते ॥ प्रकोपश्चैव पक्वानां माल्यानां म्लानता तथा ॥२८॥ मृदुता कठिनानां स्यान्मृदूनां च विपर्ययः ॥ सूक्ष्मन्तन्तूपसदनं$^{१}$ तथा चैवातिरोमता ॥२९॥ श्याममण्डलता चैव वस्त्राणामविशेषतः ॥ लोहानां च मणीनां च मलपङ्कोऽपदिग्धता ॥ ३० ॥ अनुलेपनगन्धानां स्नानानां च भृगूत्तम ॥ विगन्धता च विज्ञेया पर्णानां म्लानता तथा ॥ ३१ ॥ पीता नीला सिता ज्ञेया तथा रागसञ्जयस्य च ॥ दन्तकाष्ठत्वचः शान्तास्तन्तुसर्वे$^{३}$ तथैव
१ 'त्वनिलाख्यम्' इति ख० । २ 'सस्रुतः' इति क० । ३ 'दन्तकाष्ठे च वक्रान्तं' इति ख० ।
च ॥ ३२ ॥ एवमादीनि विघ्नानि विज्ञायानि भृगूत्तम ॥ तस्माद्राज्ञा सदा तिष्ठेन्मणिमन्त्रौषधीगणैः ॥ ३३ ॥ आर्तैः संवेक्षितो राम प्रमादपरिवर्जितैः ॥ ३४ ॥ प्रजातरोर्मूलमिहावनीशरस्तद्रक्षणाद्वृत्तिमुपैति राष्ट्रम् ॥ तस्मात्प्रयत्नेन नृपस्य रक्षां सर्वेण कार्या भृगुवंशचन्द्र ॥ ३५ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० राजरक्षावर्णनन्नामाष्टाविंशतितमोऽध्यायः ॥ २८ ॥ राम उवाच ॥ वास्तुविद्यां समाचक्ष्व यादोगणनृपात्मज ॥ हिताय मानवेन्द्राणां तथान्येषां च मानद ॥ १ ॥ पुष्कर उवाच ॥ भूमिमादौ परीक्षेत शुभलक्षणलक्षिताम् ॥ पूर्वोदकप्लवां धन्यां तथा वै दक्षिणोन्नताम् ॥ २ ॥ न तथा शिकटच्छिन्नां नात्यन्तोतापपरिप्युताम् ॥ वल्मीककृमिकाय्यावश्चक्रण्टकिविद्रुमैः ॥ ३ ॥ विहीनां मृदुसंस्पर्शां कठिनां चाप्यनूपराम् ॥ न तथा यवसंस्थानां नेषवज्रोपमां तथा ॥ ४ ॥ न शूर्पकमंसंस्थानां शर्किलीनां तथैव च ॥ सम्पूर्णगणां कृमिभिस्तथाधिकमृदं शुशाम् ॥ ५ ॥ गर्ने च कुसुमं यस्यां न म्लानिमुपगच्छति ॥ न निर्वाणमवाप्नोति यस्यां दीपांच भार्गव ॥ ६ ॥ उदकं च तथा यस्यां शीघ्रं राम न जीर्यते ॥ सा प्रशस्ता क्षितिस्तस्यां निवेशं कारयेद्बुधः ॥ ७ ॥ श्वेता रक्ता तथा पीता कृष्णा चैव यथाक्रमम् ॥ विप्रादीनां प्रशस्ता स्यान्मृत्तिका च ततो द्विज ॥ ८ ॥ घृतसृग्गन्धगन्धातं तुल्यगन्ध्या तथैव च ॥ मधुरा च कषाया च अम्लोषणरसा तथा ॥ ९ ॥ कुशैः शरैस्तथा काशैर्दूर्वाभिर्वा च सम्मृता ॥ परीक्ष्य यत्नतो भूमिं त्थिनतनसमस्पदा ॥ १० ॥ सम्पूज्य ब्राह्मणान्पूर्वं निश्चलायां तां तु कारयेत् ॥ खातपूर्वां ततः कृत्वा देवभागांश्च कल्पयेत् ॥ ११ ॥ चतुःषष्टिपदं कृत्वा वास्तुपूर्वं यथाविधि ॥ चतुःषष्टिविभागान कल्पयित्वा समन्ततः ॥ १२ ॥ एकैकं तु गृहं तत्र तथैव परिकल्पयेत् ॥ यस्मान्तुरङ्गविभागेन शरण्यस्यः प्रकीर्तितः ॥ १३ ॥ अतः परं प्रवक्ष्यामि देवभागान्व्यथाविधि ॥ मध्ये चतुष्पदः स्वामी ब्रह्मा शुभचतुर्मुखः ॥ १४ ॥ प्राक्त्या निवृहः स्वामी कथितश्च तथार्यमा ॥ दक्षिणेन विवस्वांश्च मित्रः पश्चिमतः स्थितः ॥ १५ ॥ उदक्पृथ्वीधरश्चैव विक्कोणेष्वथ मे श्रृणु ॥ विक्कोणे शिवदैवत्ये कामपक्षामूभौ सुरौ १ ॥ १६ ॥ सावित्रौसविातारौ तु तथैवाग्र प्रकीर्तितौ ॥ तथा नैर्ऋतकोणे तु जयेन्द्रौ राम कीर्तितौ ॥ १७ ॥ भद्रूयार्थो तु वायव्ये कथितौ भृगुनंदन ॥ देवतानां तथेतासां भूयो वाह्येतु मण्डले ॥ १८ ॥ पूर्वादिषु यथा दिक्षु देवतास्तान्निबोध मे ॥ महेन्द्रश्च रविस्तस्यो भृशः प्राग्राम कीर्तिताः ॥ १९ ॥ गृहक्षिता यमो भृङ्गो गन्धर्वश्चेव याम्यतः ॥ भल्लाटश्च तथा सोम अदितिर्वदनस्तथा ॥ २० ॥ उत्तरेण स्मृता देवा. विकोणेष्वथ मे शृणु ॥ दिशिरौशो मेधजयौ शिवकोणे प्रकीर्तितौ ॥ २१ ॥
१ 'कामदक्षावुभौ मतौ' इति क० ।
व्योमाग्नौ पूषवितथौ शिखिकोणे च भार्गव ॥ सुग्रीवपितृदौवारिसुग्रीवाश्चैव नैर्ऋते ॥ २२ ॥ रोगानायुश्च नागश्च मुख्याश्चानिलदिक्संस्थताः ॥ ततोऽपि बाह्यतश्चाष्टौ शृणुष्व गदतो मम ॥ २३ ॥ अष्टावष्टौ विनिर्दिष्टा देवा दिक्षु विदिक्षु च ॥ आद्यन्तौ तु तयोर्देवौ प्रोक्तावथ महेश्वरौ ॥ २४ ॥ पर्जन्यः प्रथमो देवो द्वितीयश्च करग्रहः ॥ महेन्द्ररविस्तस्याश्च भृशोऽथ गगनस्ततः ॥ २५ ॥ पवनश्च महाभागः पूर्वेते प्रकीर्तिताः ॥ पुण्योऽथ त्रितुदश्चैव तथैव च गृहक्षतः ॥ २६ ॥ यमो भृङ्गश्च गन्धर्वो मृगोऽथ पितरस्तथा ॥ दक्षिणेन विनिर्दिष्टा देवा शत्रुकुलोद्धह ॥ २७ ॥ दौवारि- कश्च सुग्रीवः पुष्पदन्तस्तथा सुरः ॥ वरुणस्तु तथा यक्षो रोगः शोषस्तथैव च ॥ २८ ॥ पश्चिमेन विनिर्दिष्टा देवा दानवनाशनाः ॥ नागराज- स्तथा मुख्यो भल्लाटश्च तथा शशी ॥ २९ ॥ अदितिश्च कुबेरश्च नागश्चाथ हुताशनः ॥ एते देवा विनिर्दिष्टास्तथा चोत्तरतो द्विज ॥ ३० ॥ एतेषामेव देवानां भागे द्वाराणि कारयेत् ॥ शुभानि तेषु वक्ष्यामि शेषाणि परिवर्जयेत् ॥ ३१ ॥ महेन्द्रसोमदेवेत्यो पूर्वतः शुभदौ स्मृतौ ॥ गृहक्षतश्च पुष्पश्च तथा दक्षिणतः शुभौ ॥ ३२ ॥ सुग्रीवः पुष्पदन्तश्च शुभौ पश्चिमतौ द्विज ॥ भल्लाटः सोमदेवश्च द्वारे श्रेष्ठौ तथा बुद्धक् ॥ ३३ ॥ द्वात्रिंशच्च वहिर्देवास्तथान्तःषोडश स्मृताः ॥ मध्ये ब्रह्मा तथा प्रोक्त एवं ते पिण्डदेवताः ॥ ३४ ॥ चत्वारिंशद्भिर्नारूपस्तथा पञ्च च भार्गव ॥ विन्यस्याजिरमेवादौ चतुष्षष्टिपदं द्विज ॥ ३५ ॥ तत्र देवविभागेन गृहकर्म विधीयते ॥ चन्द्रसुग्रीवपर्जन्यसत्येन्द्रायमवारुणे ॥ ३६ ॥ भगवत्संग्रहं कुर्यादथान्यसंस्थानतो द्विज ॥ सूर्यान्तरिक्षसत्याग्निभागेषु च महानसम् ॥ ३७ ॥ वायव्यन्तरिक्षसुग्रीवभल्लाटपितृदैवते ॥ गंध- र्वेपुष्पदन्ताल्ये भागे कूपं तु कारयेत् ॥ ३८ ॥ एकवृक्षाधिकं तत्र तथा कुर्याद्विजोत्तम ॥ अथवा दिग्त्विभागेन गृहकर्म विधीयते ॥ ३९ ॥ ऐशान्यां देवतावेश्म तथाग्नेय्यां महानसम् ॥ अध्यागारं च तत्रैव अयं नैर्ऋतके तथा ॥ ४० ॥ कोष्ठागारायुधागारौ वायव्यां च तथा स्मृतौ ॥ कूपानिस्थोदकं शस्तं दिक्षु चैवोत्तरासु च ॥ ४१ ॥ अन्यासु गर्हितं राम प्रयत्नेन विवर्जयेत् ॥ पुराणं नवमित्रं तु दारुवेश्मनि वर्जयेत् ॥ ४२ ॥ सकृद्वेषं परकुड्यं च नैव कार्यं विजानता ॥ विनार्कचन्द्रग्रहणं द्वारसम्परिवर्तनम् ॥ ४३ ॥ वृद्धिक्षयौ न कर्तव्यौ भूयः कर्मणि वेश्मनः ॥ प्रागुत्तरेऽऽथवा कार्यों ब्राह्मणानामुमेत तथा ॥ ब्रह्मस्थानं शुचिनित्यं कार्यं भवति भार्गव ॥ ४४ ॥ न पीडनीयं च तथा नागदन्तादिभिर्भवेत् ॥ मर्माणि राम जानीयाद्देवतापदसन्धिषु ॥ ४५ ॥ न पीडयेत्तथा तानि नागदन्तादिभिर्द्विज ॥
१ 'द्वाराणाम्' इति क० । २ 'मन्दधीः' इति क० । ३ 'राम' इति क० ।
वि० व० | द्वि० सं० अ० २१ ॥१२॥ | ॥१२॥
ये द्रुमा घटसंसिक्तास्तथा ये च सकोटराः ॥४६॥ हस्तिविद्युद्धता ये च देवतावेश्मसमाश्रया ये ॥ वह्निस्पृष्टाः श्मशाने च ये च जाताश्चतुष्पथा ॥४७॥ रोकवृक्षाश्च ये केचिन्न ते शस्ताः कथञ्चन ॥ वृक्षस्य महतीं पूजां कृत्वा तद्राक्षसस्य च ॥ ४८ ॥ मध्वाज्यदधिदेन तथा छिन्द्यात्परशुना द्विजः ॥ पूर्वोत्तरेण पतनं प्रशस्तं परिकीर्त्तितम् ॥४९॥ शेषासु पतने दिक्षु गर्हितं द्विजसत्तम ॥ वटाश्वत्थौ न निर्गुण्डी कोविदारोविभीतको ॥५०॥ पुष्यकः शाल्मलिञ्चैव पलाशं च विवर्जयेत् ॥ विस्ताराद्द्विगुणोच्छ्रायं द्वारं कार्यं तथा गृहे॥५१॥ निविधप्रथमो नागैर्महासंसर्गसञ्चित्रितम् ॥ द्वारको नेत्रमक्षञ्च चतुष्षष्ट्यसुरालयैः ॥५२॥ कूपकवृक्षशथ्याभिर्विद्धं द्वारं विवर्जयेत्॥ द्विगुणात्तूगृहोच्छ्रायोद्वाङ्घ्रिं त्यक्त्वा न दोषभाक्॥५३॥आख्यातं सकंटं गमं तथाऽम्बु पुवि यद्वद्वेताद्द्वारं न तमशंमन्ति तस्मात्तु परिवर्जयेत्॥५४॥पुद्रागाधिकं श्रूंदं भागेषु च तथा श्रमण॥धनस्य तथा भागेर्यनेवेश्म विधीयते॥५५॥ इन्द्रस्येन्द्युसुत्रीवद्व्यामन्त्र्य कारयेत् ॥ स्तम्भं तु नवधा कृत्वा पीठं भागे तु कारयेत् ॥ ५६ ॥ भागे कुम्भस्तथा कार्यो भागं पद्मं निवेश- येत ॥ स्तम्भं मागत्रये कार्यमष्टांसमथ वर्त्तुलम् ॥ ५७ ॥ तस्योपरि तथा भागे भवत्यामलसारकम् ॥ भागद्वये तुला कार्या भागं कार्या तथा तुला ॥ ५८ ॥ एकशालञ्चतुश्शालो कर्तव्यौ स्वेच्छया मुदा ॥ पूर्वोत्तनाभिः शालाभिहीनं कार्यं दिशालकम् ॥ ५९ ॥ अन्यथा गर्हितं गम सुता- र्थक्षयदं मतम् ॥ अष्टहस्तोच्छ्रायाद्ध्वं भूमिकों तु न कारयेत् ॥ ६० ॥ वास्तुच्छत्रं न कर्त्तव्यं तथा हस्तशताधिकम् ॥ आरम्भे मशिलाभ्यासं द्वार- स्तम्भोच्छ्रायादुभौ ॥ ६१ ॥ तथारोहणनिष्पत्तौ तथा वास्तुप्रवेशनम् ॥ मवानेतानि कार्याणि दिवसे गम पूजिते ॥६२॥ शेषप्वेतेषु कंतव्यं देवब्राह्मणपूजनम् ॥ कालज्ञापूजनं चैव स्वपतीनां च भार्गव ॥ ६३ ॥ प्रावृट्काले न कर्तव्यं वास्तुकर्म विजानता॥ कृष्णपक्षत्रिभागान्ते शुक्लेऽथ च मृगउत्तम ॥ ६४ ॥ तिथिं चतुर्थी नवमीं वर्जयेच्च चतुर्दशीम् ॥ अङ्गारकदिनं राम करणं विष्टिकर्जितम् ॥ ६५ ॥ दिव्यान्तरिक्षक्षितिरूत्पा- तेभं च पीडितम् ॥ ग्रहोपसृष्टं च तथा व्यतीपातहतं च यत् ॥ ६६ ॥ चन्द्रतारानुकूले वै वास्तुकृत्यं विजानता ॥ ध्रुवाणि तानि शमनानि शार्कं वै नैर्ऋतं तथा ॥६७॥ सौम्यं च वैष्णवं पुष्यं पौष्णं सावित्रमेव च ॥ स्थिरलग्ने स्थिरांशे च कर्तुश्चोपचयत्मिके ॥६८॥ पूज्य योज्यप्रदा- केन्द्रे त्रिकोणे चापि भार्गव ॥ पापाश्चोपचयस्थाने तस्मिन्कार्यं प्रवेशनम् ॥ ६९ ॥ केन्द्रस्थं वर्जयन्पापं सवेयन्तेन कर्मसु ॥ केन्द्रं प्राप्ययुतं देवं न तु शून्यं कदाचन ॥ ७० ॥ अतः परं प्रवक्ष्यामि शिलान्यासविधिं तव ॥ चतुःषष्टिपदं कृत्वा समे स्थाने तु मण्डलम् ॥७१॥ कृत्वा तु
१ 'त्रि' इति ख० । २ 'धाम्यम्' इति ख० ।
देवतान्यासं तत्र मण्डलके द्विज ॥ श्रियः सम्पूजनं कृत्वा वासुदेवस्य चाप्यथ ॥ ७२ ॥ पूजनं मण्डले कार्यं वास्तुदेवाणवस्य च ॥ गन्धादिधूपपु-
ष्पैर्नैवेद्यधूपदीपैश्चनूत्तम ॥ ७३ ॥ तेषां सम्पूजनं कृत्वा समादाय हुताशनम् ॥ ओंकारपूर्वमाज्यं तु जुहुयाच्छ्रीधरस्य तु ॥ ७४ ॥ श्रियः कृत्वा
ततो होमं ब्रह्मणः कारयत्ततः ॥ ब्रह्माणं तु पुरस्कृत्य वास्तुदेवाणवस्य च ॥ ७५ ॥ होतव्यमाज्यं धर्मज्ञ यस्य देवस्य हूयते ॥ तत्कोलमाद्यं
भजते लक्षणेण द्विजोत्तम ॥ ७६ ॥ तस्य देवस्य यत्स्थानं तत्र शल्यं विनिर्दिशेत् ॥ शल्यस्योद्धरणं कार्यं राम यत्नेन जानता ॥ ७७ ॥
मध्ये शैलमयं कुम्भं शंकुं च स्थापयेद्बुधः ॥ ईशाने च ततः कोणे शिलां पूर्वं प्रतिष्ठयेत् ॥ ७८ ॥ प्रदक्षिणं ततो राम शिलान्यासं विधीयते ॥
कुम्भस्य च शिलानां च ततः स्नानं विधीयते ॥७९॥ वटाश्वत्थकषायेण सर्वौषधिजलैस्ततः ॥ ततोऽनुलेपनं कार्यं चन्दनेन सुगन्धिना ॥८०॥
आच्छादनं ततः कार्यं वासोभिः कुसुमैः शुभैः ॥ धूपं प्रदीपं नैवेद्यं तेषां राम निवेदयेत् ॥ ८१ ॥ दक्षिणाभिर्द्विजेन्द्राणां ततः पूजा विधीयते ॥
कालवित्स्वपती पूज्यौ ततो राम विजानता ॥ ८२ ॥ ततो मन्त्रं जपेत्कर्ता कालज्ञः स्थपतिः स्वयम् ॥ गृहे गृष्टिकरां राम मुनिक्रीडामिति
स्तुतम् ॥ ८३ ॥ नन्दे नन्दय वासिष्ठे वसुभिः प्रजया सह ॥ जये जयावहे देवि प्रजानां जयमावह ॥ ८४ ॥ पूर्णेडद्रिसरदायादे पूर्णकामं कुरुष्व
माम ॥ भद्रुकश्यपदायादे कुरु भद्रं मतिं मम ॥ ८५ ॥ सर्वबीजसमायुक्ते सर्वरत्नोपधेह्युते ॥ रुचिरे नन्दने नन्दे वासिष्ठे रम्यतामिह ॥ ८६ ॥
प्रजापतिसुते देवि चतुरश्रे महीमये ॥ सुभगे सुब्रते भद्रे गृहे कार्यमपि रम्यताम् ॥ ८७ ॥ पूजिते परमाचार्यैर्गन्धमाल्यैरलंकृते ॥
भवस्वित्करी देवि गृहे भार्गव रम्यताम् ॥ ८८ ॥ अय्यङ्गैः चाकृते पूर्णे सुनेत्राङ्गिरसः सुते ॥ इष्टके त्वं प्रयच्छेष्टं प्रतिष्ठां कामयाम्यहम् ॥ ८९॥
देशस्वामिपुरस्वामिगृहस्वामिगृहे वस ॥ मनुष्यधनहस्त्यश्वपुत्रवृद्धिकरी भव ॥ ९० ॥ गृहप्रवेशेऽपि तथा शिलान्याससमो विधिः ॥ कर्तव्यः
सकलो राम शिलान्यासविवर्जितः ॥ ९१ ॥ पूजितापलकष्मीकं हुत्वाग्निं चाप्यलंकृतम् ॥ पञ्चरङ्गेण सूत्रेण बद्धप्रतिसरं तथा ॥ ९२ ॥
सफलेषु च बाणेषु दिशासु विदिशासु च ॥ गवाक्षकेषु कर्तव्यश्च रक्षा रक्षोहणस्तथा ॥ ९३ ॥ सर्वस्याम्यथ तथा न्यासं मन्त्रै रक्षोहेणमैवत ॥
गोपुष्टविन्मस्तकरः प्रविशेच्च गृही गृहम् ॥ ९४ ॥ स्वऽजुलित्तस्तृखी सस्त्री सपत्नीकस्तथैव च ॥ द्विजपुण्याहघोषेण वीणावेणुरवेण च ॥
वन्दिनां च निनादेन पटहानां स्वनेन च ॥ ९५ ॥ काले शुभे कालविदा प्रदिष्टे सतोरणं पूर्णघटाभिरामम् ॥ प्रविश्य कालज्ञसमीरितानां कृत्वा
र्चनं तत्र सुरोत्तमानाम ॥ ९६ ॥ सम्पूज्य वह्निं द्विजपुङ्गवांश्च माङ्गल्यमाल्प्यं च भोजयित्वा ॥ विप्रान्प्रभूतैरमृतोल्पतोयैस्तैः सदक्षिणांस्तांश्च
३३
तथा विसर्ज्य ॥ १७॥ सप्ताहार्त्ति परिचर्य्य तत्र सम्पूज्य विप्रान्विविधञ्च राम ॥ गृहे वसेत्पूजितदेवविप्रे शुचौ सदा सर्वगुणोपपन्ने ॥ १८ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्कराख्यासु वास्तुविद्यावर्णनन्नामैकोनविंशतितमोऽध्यायः ॥ २९ ॥ ॥ पुष्कर उवाच ॥ ॥ उत्तरेण शुभः प्लक्षो वटः प्राग्भागगोत्तम ॥ उदङ्मुखश्च याम्येन सौम्येनाश्वत्थ एव च ॥ १ ॥ एते क्रमेण नेष्यन्ति दक्षिणादिसुद्भवाः ॥ समीपजाताश्च तथा वर्ज्याः कण्टकिनो द्रुमाः ॥ २ ॥ वामभागे तथोद्यानं कुर्याद्दासगृहच्छुभम् ॥ वायव्येऽप्रातिलोम्येन नन्द्यावर्तांश्च प्रपुष्पितान् ॥ ३ ॥ ततस्तु रोपेद्यद्वृक्षान्प्रयतः सुसमाहितः ॥ स्नातो दन्तमथामर्च्य ब्राह्मणांश्च शिवं तथा ॥ ४ ॥ ध्रुवाणि पञ्च वायव्यं हस्तः पुष्यः सवैष्णवः ॥ नक्षत्राणि तथा मूले शस्यते द्रुमरोपणे ॥५॥ उद्यानं सजलं राम नाभिरामं यदा तदा ॥ प्रवेशयेन्न विहगै (कुरुद्वातु ) पुष्करिण्यश्च कारयेत् ॥ ६ ॥ संस्कार्यशुद्धिदं तोयं कूपाः कार्याः प्रयत्नतः ॥ हस्ते मघा तथा मैत्रे सौम्ये पूज्यं च वासवम् ॥ ७॥ उत्तरत्रितयं राम तथा पूर्वा च फाल्गुनी ॥ जलाशयान्समारंभे प्रशस्ते वारुणं तथा ॥ ८ ॥ सम्पूज्य वरुणं देवं विष्णुं पर्जन्यमेव च ॥ तर्पयित्वा द्विजान्कामैस्तदारंभकरो भवेत् ॥ ९ ॥ अथोद्याने प्रवक्ष्यामि प्रशस्तानाम्पादपान्द्विज ॥ अरिष्टाशोकपुन्नागशिरीषाश्चप्रियङ्गवः ॥ १० ॥ पनसाशोककदंबर्जम्बूलकुचदाडिमाः ॥ माङ्गल्याः पूर्वमारामे रोपणीया गृहेषु वा ॥ ११ ॥ कृत्वा बहुलमेतेषां रोप्यस्त्वेवं ह्यनन्तरम् ॥ शालमलिं कोविदारं च वर्जयित्वा विभीतकम् ॥ १२ ॥ असनं देवदारुं च पलाशं पुष्करं तथा ॥ न विवर्ज्यस्तथा कश्चिद्देवोद्यानेषु जानता ॥ १३ ॥ तत्रापि बहुता कार्या माङ्गल्यानां द्विजोत्तम ॥ सायं प्रातस्तु घर्मान्ते शीतकाले दिनान्तरे ॥ १४ ॥ वर्षाकाले भुवः शोष संलक्ष्या रोपिता द्रुमाः ॥ उत्तमं विंशति हस्तं मध्यमं षोडशोदितम् ॥ १५ ॥ स्थानात्स्थानान्तरं कार्यं वृक्षाणां द्वादशावरम् ॥ अभ्याशजातास्तरवः संस्पृशन्तः परस्परम् ॥ १६ ॥ अन्योन्निर्मूलसत्वाद्भवन्ति विफला द्विज ॥ तेषां व्याधिसमुत्पत्तौ शृणु राम चिकित्सितम् ॥ १७ ॥ आदौ संशोधनं तेषां किञ्चिच्छस्त्रेण कारयेत् ॥ विडङ्गघृतपङ्काक्तान्सेचयेच्छीतवारिणा ॥ १८ ॥ फलनाशे कुलत्थैश्च माषैर्मुद्गैस्तिलैर्यवैः ॥ शृतशीतपयस्सेकैः फलपुष्पाय सर्वदा ॥ ॥ १९ ॥ आविकाजाशकृच्चूर्णं यवचूर्णं तिलानि च ॥ गोमांसमुदकं चेति सप्ताहं निधापयेत् ॥ २० ॥ उत्सेकं सर्ववृक्षाणां फलपुष्पादिवृद्धिदम् ॥ एतद्योषितं बीजं गर्तायामवटोचितम् ॥ २१ ॥ उद्भूतपुष्पं भवति यौवने नात्र संशयः ॥ मत्स्याम्भसा
१ 'तद्रूपपुष्पम्' इति ख० ।
तु सिक्तेन वृद्धिर्भवति शाखिनाम् ॥ २२ ॥ ततः प्रधानतो वक्ष्ये द्रुमाणां दोहदान्यहम् ॥ मत्स्योदकेन शीतेन चाम्राणां सेक इष्यते ॥ २३ ॥ मृद्वीकानां तथा कार्यस्तेनैवं रिपुसूदन ॥ पक्वामृधिरं चैव दाडिमानां प्रशस्यते ॥ २४ ॥ तृणं देयं च भव्यानां मद्यं च बकुलद्रुमे ॥ विशेषात्कामिनीवक्त्रसंसर्गात्तु गुणं च यत ॥ २५ ॥ प्रशस्तं चाप्यशोकानां कामिनीपादताडनम् ॥ सृगालमांसातोयं च नारङ्गाक्षोटयोर्हितम् ॥ २६ ॥ मधुयष्ट्युदकं चैव बदराणां प्रशस्यते ॥ गन्धोदकं च गोमांसं कतकानां प्रशस्यते ॥ २७ ॥ क्षीरसेकेन भवति सतपर्णो मनोहरः ॥ मांसपूतो वसामज्जासिक्तः कुरबके हितः ॥ २८ ॥ पूतिमत्स्यैर्युतं पूतिकर्पासाफलमेव च ॥ आहिर्मेदस्य॑ सेकोऽयं पाटलेषु च शस्यते ॥ २९ ॥ कपित्थबिल्वयोः सेकं गुडतोयेन कारयेत् ॥ जातीनां मल्लिकायाश्च गन्धतोयं परं हितम् ॥ ३० ॥ तथा कुब्जकजातीनां कूर्ममांसं प्रशस्यते ॥ खर्जूरनारिकेरैणां वंशस्य कदलीस्य च ॥ ३१ ॥ लवणेन सतोयेन सेको वृद्धिकरः स्मृतः ॥ विडङ्गं तण्डुलोपेतं मत्स्यमांसं भृगूत्तम ॥ सर्वेषामविशेपेण दोहदं परिकल्पयेत् ॥ ३२ ॥ एवङ्कृते चारुपलाशपुष्पाः सुगन्धिनो व्याधिविवि- र्जिताश्च ॥ भवन्ति नित्यं तरवः सरम्याश्चिरायुषः साधुफलान्विताश्च ॥ ३३ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे वृक्षायुर्वेदवर्णने नाम त्रिंशत्तमोऽध्यायः ॥ ३० ॥ ॥ पुष्कर उवाच ॥ दुर्गे सर्वगुणोपेते वास्तुतक्षणसंयुते ॥ वसन्र्व्वयव्येयकोशं धर्मेण पृथिवीपतिः ॥ १ ॥ प्रजानां पालनं कार्यं तत्र स्थाने महीक्षिता ॥ स्वदेशे देवतायाश्च कृता राज्ञः पुरातनैः ॥ २ ॥ दायं वित्तं जनं तासां प्रयत्नेन च पालयेत् ॥ देवद्रव्यापहारोण राजा नरकमृच्छति ॥ ३ ॥ अस्मिन्नपि तथा लोके प्राप्नोति च पराभवम् ॥ पालयन्ति महीं देवाः पूजिताः पृथिवीक्षिता ॥ ४ ॥ देवापत्तिमिदं सर्वं भूतलं द्विजपुङ्गव ॥ धूपदीपनमस्कारपुष्पमाल्यानुलेपनैः ॥ ५ ॥ रत्नानुसम्प्रदानैश्च पूजनीयाः सुरोत्तमाः ॥ पूजिताः पूजयन्त्येते चायुषा यशसा श्रिया ॥ ६ ॥ प्राप्यते देवताभक्त्या चानुष्ठाने महत्पदम् ॥ पूजिताः संप्रयच्छन्ति कामान्नॄणां मभीप्सितान् ॥ ७ ॥ एकमप्याश्रितो देवं राजा भागवतन्दन ॥ सर्वासां पूजनं कुर्याद्देवतानामसंशयम् ॥ ८ ॥ देवतानां न चोच्छिन्द्यात्पूर्वं दायं कथञ्चन ॥ प्राक्स्थितं तन्न चोच्छिन्द्यान्न च छिन्द्यात्तथा नवम् ॥ ९ ॥ तच्छेत्ता नरकं याति सह पूर्वैः पितामहैः ॥ अपि स्वल्पं न हर्तव्यं देवद्रव्यं विजानता ॥ १० ॥ स्वल्पस्यापि फलं घोरं यस्माजन्मान्तरे भवेत् ॥ षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ॥ ११ ॥ देवद्रव्यापह
१ 'मधुस्म' इति ख० । २ 'पूतिस्रजा' इति ख० । ३ 'अतिमेद्यस्य' इति ख० ।
वि० ध० द्वि० खं० अ० ३१
रणात्क्रकं प्रतिपद्यते ॥ सन्तीह देवताः सौम्याः सन्तुग्राश्चापि भार्गव ॥ १२ ॥ दर्शयन्ति रूपं सौम्यं राज्यभ्रंशादिभिर्नृणाम् ॥ अस्मिंल्लोके रूपं क्रूरं नैव कुर्वन्ति देवताः ॥ १३ ॥ तासां वितापहरणाद्राज्ञा नरकमुच्यते ॥ पूर्वैः पितामहैस्सार्धं प्रागुक्तं फलमेव तु ॥ १४ ॥ देवद्रव्या पहरणं नैव जातु भवेद्बुधैः ॥ सर्वस्वहरितान्कृत्वा देवद्रव्यापहारिणः ॥ १५ ॥ अङ्कयित्वा द्विजश्रेष्ठ स्वराष्ट्राद्प्रवासयेत् ॥ त्रिविधा वणिजो वेश्या लिङ्गिनो देवपालकाः ॥ १६ ॥ तथा तन्प्रतिबद्धाश्च न कुर्युः कलहं मिथः ॥ तेषां सहायकः स्वामी निग्रहाल्लघुतां भवेत् ॥ १७ ॥ रागद्वेषवियुक्तस्तु विवादस्यान्त्यथा भवेत् ॥ दण्डं च देवतागामि देवद्रव्यस्य सूचकम् ॥ १८ ॥ सर्वावस्थास्वसंक्रुद्धा धार्मिको धर्मकारणात् ॥ राज्ञा सर्वप्रयत्नेन पालनीयाः सुरालयाः ॥ १९ ॥ कर्तव्याश्च महाभाग सुरलोकमभीप्सता ॥ देवतास्तु प्रतिष्ठाप्य तल्लोकं ध्रुवमाप्नुयात् ॥ २० ॥ कृत्वा देवगृहं शुभ्रं स्वर्गमाप्नोत्यनुत्तमम् ॥ तदा भोगप्रमाणेन लक्ष्मींस्तत्रापि भार्गव ॥ २१ ॥ मृत्प्रासादाद्दशगुणं स्थूलदारुकृते भवेत् ॥ फलं दशगुणं तस्मात्तथा पक्केष्टकाकृते ॥ २२ ॥ तस्माद्दशगुणं शैले नात्र कार्या विचारणा ॥ यावत्सं स्थ्यं नरः कुर्याद्देववेश्म सुधासितम् ॥ २३ ॥ तावज्जन्मान्तराणीह यशसा स विराजते ॥ कृत्वा च चित्रविन्यासं गन्धर्वैः सह मोदते ॥ २४ ॥ कृत्वा संशोधनं तत्र विरोगः सम्प्रपद्यते ॥ प्रोक्षयित्वा मनस्तापान्मानवः प्रतिमुच्यते ॥ २५ ॥ कृत्वोपलेपनं राम नाकमाप्नोत्यनुत्तमम् ॥ गन्धा नुलेपोन्मार्जनोति कृत्वा वर्णंकरोजितम् ॥ २६ ॥ गन्धैः ससुक्षितं कृत्वा गन्धर्वैस्सह मोदते ॥ उपचारप्रदानेन श्रियमाप्नोत्यनुत्तमाम् ॥ २७ ॥ गीतवाद्यप्रदानेन सुखमाप्नोत्यनुत्तमम् ॥ प्रेक्षणीयप्रदानेन रूपवानभिजायते ॥ २८ ॥ तथा ओजस्व्यथैवाप्नोति यद्यन्वाभिप्रजायते ॥ स्नापयित्वा घृतेनार्चा सर्वपापैः प्रमुच्यते ॥ २९ ॥ स्नापयित्वा च तैलेन विरोगः सम्प्रपद्यते ॥ अम्बुना स्नापयित्वा तु सौभाग्यमधिगच्छति ॥ ३० ॥ विलिक्षयित्वा तां राम पापं जहति मानवाः ॥ अनुलेपनदानेन रूपमाप्नोत्यनुत्तमम् ॥ ३१ ॥ तथा धूपप्रदानेन श्रियमप्राप्नोत्यनुत्तमाम् ॥ धूपदा नेन धर्मज्ञ रतिमाप्नोति शोभनाम् ॥ ३२ ॥ तथा दीपप्रदानेन चक्षुष्मानभिजायते ॥ अन्नदः सर्वमाप्नोति यत्किंचिन्मनसेच्छति ॥ ३३ ॥ पानका नां प्रदानेन तृप्तिमाप्नोत्यनुत्तमाम् ॥ वस्त्रदो रूपमाप्नोति रूपमाप्नोति रूपदः ॥ ३४ ॥ रूपमदस्सर्वमाप्नोति तृप्तिमाप्नोति सर्वदः ॥ छत्रदः स्वर्गमाप्नोति तालवृन्तप्रदो दिवम् ॥ ३५ ॥ चामराणां प्रदानेन राजा भवति धार्मिकः ॥ पताकायाः प्रदानेन सर्वपापान्व्यपोहति ॥ ३६ ॥ ध्वजदानेन लोकेस्मिन्ध्वजभूतो भवेन्नरः ॥ नानाविधानां भोगानां तथा राम प्रदायकः ॥ ३७ ॥ तानेव भोगानवाप्नोति सर्वमाप्नोति भूमिदः ॥
॥१४४॥
देवमाल्यापनयनाद्गोदानफलमाप्नुयात् ॥ ३८ ॥ तद्वाहुतिप्रदानेन तल्लोकमधिगच्छति ॥ नमस्कारप्रणामाभ्यामनोभिः प्रतिमुच्यते ॥ ३९ ॥ प्र- क्षिणं तथा कृत्वा भवत्याचारवरेश्वरः ॥ स्तुत्वा च देवतां राम मनोदुःखान्प्रमुच्यते ॥४०॥ सन्तर्पयित्वा तोयेन तृप्तिं समधिगच्छति ॥ तत्मात्सर्वं प्रयत्नेन विशुद्धेनान्तरात्मना ॥ ४१ ॥ अर्चनीयाः पूजयत्सर्वा देवता भूरिदर्शन ॥ तदाश्रितांश्च युञ्जीत तदा तद्विधिपारगान् ॥ ४२ ॥ तत्पूजने तथा राम तांश्च सम्पूजयेत्सदा ॥ ब्राह्मणांश्च नियोक्तव्या वेदोक्तसुरपूजने ॥४३॥ यस्य राज्ञस्तु विषये देववेश्म विशीर्य्यते ॥ तस्य सीदति तद्राष्ट्रं देववेश्म यथा तथा ॥ ४४ ॥ संस्कारं लम्भयेद्यस्तु देववेश्म पुरातनम् ॥ स च सौख्यमवाप्नोति यत्रयत्राभिजायते ॥ ४५ ॥ वापीकूपतडागानां सदा त्रिदशवेश्मनाम् ॥ भूयः संस्कारकर्ता च लभते मुक्तिजं फलम् ॥ ४६ ॥ देवसम्पादनाद्राम वृद्धिं समुपगच्छति ॥ राज्ञस्तु विषये यस्य पूज्यन्ते सततं सुराः ॥४७॥ अतिवृष्टिर्नावृष्टिर्मूषिकाः शलभाः शुकाः ॥ राक्षसाश्च पिशाचाश्च रिपवश्च सुदारुणाः ॥४८॥ इत्येवं तयोवान्या न भवन्ति द्विजोत्तम॥४९॥तस्मात्प्रयत्नेन सदा नरेन्द्रैः पूजा विधेया सुरपूराणाम् ॥ सुरार्चनात्पूतसमस्तपापास्तस्वर्गं क्षितीशाश्चिरमाप्नुवन्ति ॥५०॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० सुरपूजामाहात्म्यवर्णनं नामैकत्रिंशोऽध्यायः॥३१॥ पुष्कर उवाच ॥ ब्राह्मणानपूजयेद्राजा ब्राह्मणानपालये- त्सदा ॥ ब्राह्मणा हि महाभाग देवानामपि दैवतम् ॥१॥ ब्राह्मणानां क्षितौ दद्याद्भोगानन्यांश्च पार्थिवः ॥ ब्राह्मणेषु तु यद्दत्तं निधिरस्त्यारलोकिक- कम् ॥ २ ॥ वेदवेदाङ्गवृद्धेषु द्विजश्रेष्ठेषु भारत ॥ दत्तस्य दानबीजस्य फलस्यान्तो न विद्यते ॥३॥ ब्रह्मस्वं चैव नादद्याद्ब्रह्मस्वं पालयेत्तथा ॥ ब्रह्मस्वहरणाद्राम नरकं पश्यते नरः ॥ ४ ॥ न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ॥ विषमेकाकिनं हन्ति ब्रह्मस्वं सतत्पुत्रपौत्रम् ॥ ५ ॥ ब्रह्मस्वं प्रणयाद्भुक्तं हिनस्त्याप्ततमं कुलम् ॥ द्रोहाद्भुक्तं तदेव कुलानि पातयेच्छतम् ॥ ६ ॥ सुवर्णमेकं गामेकां भूमेरप्येकमङ्गुलम्¹ ॥ हरन्नरकमाप्नोति यावदाभूतसम्प्लवम् ॥ ७॥ दृष्ट्वा विटं दुराचारं ब्राह्मणं न द्विपत्कचित् ॥ ब्राह्मणानां परीवादान्नाश्रामोति मानवः ॥ ८ ॥ न जातु ब्राह्मणं हन्या- त्सर्वपापेष्ववस्थितम् ॥ नैवास्ति ब्राह्मणवधात्पापं गुरुतरं क्वचित् ॥ ९ ॥ ब्रह्महा नरकं याति यावदाभूतसम्प्लवम् ॥ वर्षाणामयुतं राम पच्यते स्नानुपूरिते¹ ॥ १० ॥ शोणितं यावतः पांशून्गृह्णीति द्विजन्मनाम् ॥ कर्त्ता तावन्ति वर्षाणि कृतकृन्नरके वसेत् ॥ ११ ॥ उपद्रुतो द्विजो येन त्यजेज्जीवितमात्मनः ॥ ब्रह्महत्या भवेत्तस्य नात्र कार्या विचारणा ॥ १२ ॥ देहत्यागाच्च नरकं ब्राह्मणोऽपि प्रपद्यते ॥ तेन चाधिकमाप्नोति
१ 'बाहुपूरिते' इति ख० 'पश्यतेचावधूनिते' इति क० ।
॥ वि० ध० ॥ ॥ ११९ ॥
द्वि० खं० अ० ३२
अल्पं ददत् कुंकुममुद्भवदत्तम् ॥ ब्राह्मणाश्च महाभागा नमस्यास्ते सदैव हि ॥ १४ ॥ ब्राह्मणानां तथा कार्यं यन्नाकुर्वीत पार्थिवः ॥ कालातिपातं च तथा विप्रकार्ये न कारयेत् ॥ १५ ॥ निष्पीडितस्तूपवसेन्न विद्वांन्निराशं जनः ॥ स राम नरकं याति वर्षाणां तु दशायुतम् ॥ १६ ॥ ब्राह्मणी रुदती हन्ति कुलं रोदायते ध्रुवम् ॥ तदश्रुवहिनिर्दहति कुलं निरुपरुषं ध्रुवम् ॥ १७ ॥ विद्वानप्यथवाऽविद्यांन्ब्राह्मणो मानमर्हति ॥ प्रणीतश्चाप्रणीतश्च यथाऽग्निर्द्विजपुङ्गव ॥ १८ ॥ प्रतिष्ठां प्राप्नुवन्तीह सुरा विप्रप्रतिष्ठिताः ॥ १९ ॥ तत्सुखे तु तथाश्रान्तिर्देवाश्च पितृभिः सह ॥ वह्नौ हुताच्छ्रेष्ठतमं हुतं विप्रमुखेऽग्निषु ॥ २० ॥ अस्कन्दमविगूहं च प्रायश्चित्तैर्विवर्जितम् ॥ यावतो ग्रसते ग्रासान्द्विजान्विप्रः सुसंस्कृतः ॥ २१ ॥ अन्नप्रदस्य तावन्तः क्रतवः परिकीर्तिताः ॥ ब्राह्मणानां करानुत्सृक्तं तोयं शिरसि धारयेत् ॥ २२ ॥ ब्राह्मणस्य करे यस्मात्सर्वतीर्थसमागमः ॥ ब्राह्मणेभ्यः समुत्पन्नं त्रैलोक्यं सचराचरम् ॥ २३ ॥ अमोघशापा धर्मज्ञा कथितास्ते जगत्त्रये ॥ आशीर्वादादमोघं च ब्राह्मणानां प्रकीर्तितम् ॥ २४ ॥ आशीर्वादात्पराः कार्यास्तस्माद्ब्राह्मा द्विजोत्तमाः ॥ यैः कृतः सर्वभक्ष्योऽग्निरपेयश्च महोदधिः ॥ २५ ॥ क्षयी सोमोऽभवत्तथैव च शतक्रतुः ॥ येषां कोपाभिरग्न्यापि दण्डके नोपशाम्यति ॥ २६ ॥ विपुलञ्च तथा येषां प्रसादो रघुनन्दन ॥ येषां प्रसादात्क्षीणोऽपि वृद्धिमिच्छति चन्द्रमाः ॥ २७ ॥ येषां प्रसादाल्लक्ष्मीभिर्नाभिभूयेत भास्करः ॥ येषां प्रसादाद्विपुलां कार्तवीर्य्यः श्रियं गतः ॥ २८ ॥ येषां प्रसादाद्धनदो धनाध्यक्षत्वमागतः ॥ अस्नातः स्नानमाप्नोति व्रतमप्नोत्यथाव्रती ॥ २९ ॥ येषां वचनमात्रेण किम्भूतमधिकं ततः ॥ भोगं राज्यं तथा स्वर्गं येषां वाक्येन लभ्यते ॥ ३० ॥ अपावनकरः क्रोधो येषां राम सदा स्थितः ॥ ते पूज्यन्ते च सत्कृत्योयेस्तेषां दुरणि दापयेत् ॥ ३१ ॥ धारयन्ति जगत्सर्व्वं ब्राह्मणा वेदपारगाः ॥ देवानानाप्याययन्ति हि ब्राह्मणा रघुनन्दन ॥ ३२ ॥ ते तृप्तास्तर्पयन्तीह भुवनं सकलं सुराः ॥ ब्राह्मणेनाहुतिर्दत्ता वह्नौ मधुघृतोदकैः ॥ ३३ ॥ आदित्यमाप्नोत्यादित्याद्वृष्टिर्भवति भूतले ॥ अन्नस्य च तथोत्पत्तिस्ततोद्भूतः स्मृतः ॥ ३४ ॥ तस्मात्त्रिभुवनं सर्वं ब्राह्मणेनैव धार्य्यते ॥ ब्राह्मणप्रभवा भूमिर्राह्मणप्रभवो दिवः ॥ ३५ ॥ ब्राह्मणानामिमे लोकाः परलोकास्तथैव च ॥ इज्यास्वाध्यायवतपसामग्रेष्वाथयदा द्विजाः ॥ ३६ ॥ स्वाम्यं भुवि न विन्दन्ति क्षत्रियास्तु तदा कृताः ॥ ब्राह्मणानां वचः कार्यं राजभिः सततोत्थितैः ॥ ३७ ॥ धर्मेऽर्थे च कामे च तेषां वाचि प्रतिष्ठितम् ॥ ब्राह्मणानां तु वाक्येन निग्रहानुग्रहावुभौ ॥ ३८ ॥ लोके कार्यौ भूमिभृता भृतिकामेन नित्यदा ॥ राजा ब्राह्मणवाक्येन यः कुर्याच्छासनादिकम् ॥ ३९ ॥ सम्यग्वाप्यथवासम्यक्तेन नाके
॥ ११९ ॥
महीयते ॥ उल्लंघ्य शास्त्रं नृपतिर्यो यथारुचि वर्तते ॥ ४० ॥ स राम नरकं याति सुकृतेनापि कर्मणा ॥ यत्र ब्राह्मणवाक्यानि न करोतीह यो नरः ॥ ४१ ॥ न तत्र दोषवान्विप्रो राजा दोषेण लिप्यते ॥ ब्राह्मणं दशवर्षं च शतवर्षं च भूमिपम् ॥ ४२ ॥ पितापुत्रौ विजानीयाद्ब्राह्मणस्तु तयोः पिता ॥ यस्य राज्ञस्तु विषये ब्राह्मणः सीदति क्षुधा ॥ तस्य सीदति तद्राष्ट्रं दुर्भिक्षव्याधितस्करैः ॥ ४३ ॥ तस्मात्पूज्या नमस्कार्यास्सं- विभाज्यास्तथा द्विजाः ॥ राज्ञा सर्वप्रयत्नेन लोकद्वयमभीप्सता ॥ ४४ ॥ यद्ब्राह्मणास्तुष्टतमा वदन्ति तद्देवताः प्रत्यभिनन्दयन्ति ॥ तुष्टेषु तुष्टाः सततं भवन्ति प्रत्यक्षदेवेषु परोक्षदेवाः ॥ ४५ ॥ इति श्रीविष्णुधर्मोत्तरे द्वि०खण्डे मा० सं० रामं प्रति पुष्करवाक्ये ब्राह्मणप्रशंसावर्णनन्नाम द्वात्रिंशत्तमोऽध्यायः ॥ ३२ ॥ पुष्कर उवाच ॥ साध्वीनां पालनं कुर्यात्पूजनं च महीपतिः ॥ एकपत्न्यः स्त्रियः सर्वा धारयन्ति जगत्त्रयम् ॥ १ ॥ भर्तृव्रता भर्तृपरा भर्तृपूजनतत्परा ॥ या तु स्त्री सा दिवं याति सह भर्त्रा द्विजोत्तम ॥ २ ॥ एकपत्न्यस्तु यद्दुःखं सहन्ते द्विज सत्गुणाः ॥ तेन ताः स्वर्गमासाद्य सुखमाप्स्यन्त्यनेकधा ॥ ३ ॥ तासां प्रभावो हि महांस्तेजश्चैवातिदुःसहम् ॥ न कोपनीया नोपेक्ष्या नैव ताश्च विमानयेत् ॥ ४ ॥ नादृष्टेयादपराधेषु दण्ड्यस्तासां पतिर्भवेत् ॥ पुत्रो वाप्यथवा नीतो नैव राजा प्रभुः क्वचित् ॥ ॥ ५ ॥ नैव साध्वी विनिर्द्दिष्ट्या केवलोपस्थरक्षणात् ॥ विप्रियं नाचरेत्किञ्चित्पत्युः साध्वीति सा स्मृता ॥ ६ ॥ कर्मणा मनसा वाचा भर्तुः प्रियहितेषिणी ॥ या नारी सा स्मृता साध्वी पतिपूजनतत्परा ॥ ७ ॥ नमस्कार्याश्च पूज्याश्च वन्दनीयाश्च भार्गव ॥ राजा सर्वप्रय- त्नेन तथा लोकैश्च सर्वशः ॥ ८ ॥ अनाथां च तथा साध्वीं विभूत्यातिथिवोत्तत्तमः ॥ तस्यै यद्दीयते दानं तदनन्तं प्रकीर्तितम् ॥ ९ ॥ साध्वी नामपमानेन कुलं दहति पूरुषः ॥ तासां सम्पूजनाद्राम स्वकुलं चोन्नतिं नयेत् ॥ १० ॥ न धनेन न धान्येन न शीलेन न बन्धुभिः ॥ न यज्ञै र्दक्षिणावद्भिर्नाधीतेन तथैव च ॥ ११ ॥ अकुलानि कुलान्याहुः किन्तु स्त्रीणां विचेष्टितैः ॥ येषु साध्व्यः स्त्रियो राम कुलेषु कुलपूर्वजाः ॥ ॥ १२ ॥ महाकुलानि तानीह कृशान्यपि धनैर्यदि ॥ पुत्राणामपि तत्पुत्रं साध्वी यस्यारणिर्भवेत् ॥ १३ ॥ हव्येषु साध्वीतनयं तथा कव्येषु योजयेत् ॥ तत्राल्पस्यापि दानस्य महत्पुण्यं प्रकीर्तितम् ॥ १४ ॥ गायत्री तु यथा राम यथा गङ्गा सरिद्वरा ॥ पावनी कीर्तनादेव तथा साध्वी वराङ्गना ॥ १५ ॥ रामास्तु भृगुशार्दूल न प्रदुष्यन्ति कर्हिचित् ॥ मासिसि रजस्तासां दुष्कृतान्यपकर्षति ॥ १६ ॥ सोमस्तासां ददौ शौचं गन्धर्वः शिक्षितां गिरम् ॥ अग्निश्च सर्वमेध्यत्वं तस्मान्निष्कल्मषाः स्त्रियः ॥ १७ ॥ ब्राह्मणाः पादतो मेध्या गावो मेध्यास्त-
पृष्ठतः ॥ अजाश्वौ मुखतो मेध्यौ स्त्रियो मेध्यास्तु सर्वतः ॥ १८ ॥ यामयो यानि गेहानि शपन्त्यप्रतिपूजिताः ॥ तानि कृत्याहतानीव विनश्यन्ति समन्ततः ॥ १९ ॥ स्त्रियः श्रियश्च गेहेषु न विशेषोऽस्ति कश्चन ॥ तस्मात्सर्वप्रयत्नेन पूजनीयाः सदा स्त्रियः ॥ २० ॥ मिथ्या न साध्वी भवतीह लोके भवत्यथास्मिन्नपरे च राम ॥ साध्व्यस्तथा पूज्यतमाः प्रसिद्धा लोकेषु सर्वेषु चराचरेषु ॥ २१ ॥
॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे साध्वीमाहात्म्यं नाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥
॥ राम उवाच ॥
॥ साध्वीनां श्रोतुमिच्छामि देव धर्मानशेषतः ॥ साध्व्यो हि नार्यो लोकानामाचार इह कीर्तितः ॥ १ ॥
॥ पुष्कर उवाच ॥
॥ एतदेव परं राम रामाणां धर्मकारणम् ॥ यदासौ सर्वकार्येषु नित्यं हि परतन्त्रता ॥ २ ॥ बाल्ये पितुर्वशे तिष्ठेत्पाणिग्राहस्य यौवने ॥ पुत्राणां भर्तरि प्रेते न स्त्री स्वातन्त्र्यमर्हति ॥ ३ ॥ पित्रा भर्त्रा सुतेनेह नेच्छेद्विरहमात्मनः ॥ तेषां विरहेण स्त्री गर्हा कुर्यादुभे कुले ॥ ४ ॥ सदा प्रहृष्टया भाव्यं गृहकार्ये च दक्षया ॥ सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया ॥ ५ ॥ यः प्रदद्यात्पिता त्वेनां तद्भावापि कारकः ॥ तं शुश्रूषेत जीवन्तं संस्थितं न तु लंघयेत् ॥ ६ ॥ मङ्गलार्थं स्वस्त्ययनं यज्ञाशासं प्रजायते ॥ प्रयुज्यते विवाहेषु प्रदानं स्वामिकारितम् ॥ ७ ॥ अनृतौतुऋतौकाले मन्त्रसंस्कारकृत्पतिः ॥ सुखं नित्यं ददातीह परलोके च योषितः ॥ ८ ॥ विशीलः कामवृत्तो वा गुणैर्वा परिवर्जितः ॥ उपचर्यः स्त्रिया साध्व्या सततं देववत्पतिः ॥ ९ ॥ नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषितम् ॥ पतिं शुश्रूषते यत्तु तेन स्वर्गे महीयते ॥ १० ॥ पाणिग्राहस्य साध्वी स्त्री जीवतो वा मृतस्य वा ॥ पतिलोकमभीप्सन्ती नाचरेत्किञ्चिदप्रियम् ॥ ११॥ कामं तु क्षपयेद्देहं पुष्पमूलफलैः शुभैः ॥ न तु नामापि गृह्णीयात्पत्यौ प्रेते परस्य तु॥ १२॥ आसीतामरणाच्छान्ता नियता ब्रह्मचारिणी ॥ यो धर्म एकपत्नीनां काङ्क्षन्ती तमनुत्तमम्॥ १३॥ अनेकानि सहस्राणि सुशुभ्रब्रह्मचारिणाम् ॥ दिवङ्गतानां विप्राणामकृत्वा कुलसन्ततिम् ॥ १४ ॥ मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता॥ स्वर्गं गच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः ॥ १५॥ अपत्यलोभाद्या तु स्त्री भर्तारमतिवर्तते ॥ सा नेह निन्दामवाप्नोति परलोकाच्च हीयते ॥ १६ ॥ नान्योत्पन्ना प्रजास्तीह न चाप्यन्यपरिग्रहा ॥ न द्वितीयश्च साध्वीनां क्वचिद्भर्तोपदिश्यते॥ १७॥ पतिं हित्वा निकृष्टं स्वं चोत्कृष्टं या निषेवते॥ निन्द्यैव लोके भवति परपूर्वेति चोच्यते ॥ १८ ॥ व्यभिचारात्तु भर्तुः स्त्री लोकनाप्नोति निन्दितान् ॥ शृगालयोनिं चाप्नोति पापरोगैश्च पी