विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 436, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० द्वि० खं० अ० ३१
रणात्क्रकं प्रतिपद्यते ॥ सन्तीह देवताः सौम्याः सन्तुग्राश्चापि भार्गव ॥ १२ ॥ दर्शयन्ति रूपं सौम्यं राज्यभ्रंशादिभिर्नृणाम् ॥ अस्मिंल्लोके रूपं क्रूरं नैव कुर्वन्ति देवताः ॥ १३ ॥ तासां वितापहरणाद्राज्ञा नरकमुच्यते ॥ पूर्वैः पितामहैस्सार्धं प्रागुक्तं फलमेव तु ॥ १४ ॥ देवद्रव्या पहरणं नैव जातु भवेद्बुधैः ॥ सर्वस्वहरितान्कृत्वा देवद्रव्यापहारिणः ॥ १५ ॥ अङ्कयित्वा द्विजश्रेष्ठ स्वराष्ट्राद्प्रवासयेत् ॥ त्रिविधा वणिजो वेश्या लिङ्गिनो देवपालकाः ॥ १६ ॥ तथा तन्प्रतिबद्धाश्च न कुर्युः कलहं मिथः ॥ तेषां सहायकः स्वामी निग्रहाल्लघुतां भवेत् ॥ १७ ॥ रागद्वेषवियुक्तस्तु विवादस्यान्त्यथा भवेत् ॥ दण्डं च देवतागामि देवद्रव्यस्य सूचकम् ॥ १८ ॥ सर्वावस्थास्वसंक्रुद्धा धार्मिको धर्मकारणात् ॥ राज्ञा सर्वप्रयत्नेन पालनीयाः सुरालयाः ॥ १९ ॥ कर्तव्याश्च महाभाग सुरलोकमभीप्सता ॥ देवतास्तु प्रतिष्ठाप्य तल्लोकं ध्रुवमाप्नुयात् ॥ २० ॥ कृत्वा देवगृहं शुभ्रं स्वर्गमाप्नोत्यनुत्तमम् ॥ तदा भोगप्रमाणेन लक्ष्मींस्तत्रापि भार्गव ॥ २१ ॥ मृत्प्रासादाद्दशगुणं स्थूलदारुकृते भवेत् ॥ फलं दशगुणं तस्मात्तथा पक्केष्टकाकृते ॥ २२ ॥ तस्माद्दशगुणं शैले नात्र कार्या विचारणा ॥ यावत्सं स्थ्यं नरः कुर्याद्देववेश्म सुधासितम् ॥ २३ ॥ तावज्जन्मान्तराणीह यशसा स विराजते ॥ कृत्वा च चित्रविन्यासं गन्धर्वैः सह मोदते ॥ २४ ॥ कृत्वा संशोधनं तत्र विरोगः सम्प्रपद्यते ॥ प्रोक्षयित्वा मनस्तापान्मानवः प्रतिमुच्यते ॥ २५ ॥ कृत्वोपलेपनं राम नाकमाप्नोत्यनुत्तमम् ॥ गन्धा नुलेपोन्मार्जनोति कृत्वा वर्णंकरोजितम् ॥ २६ ॥ गन्धैः ससुक्षितं कृत्वा गन्धर्वैस्सह मोदते ॥ उपचारप्रदानेन श्रियमाप्नोत्यनुत्तमाम् ॥ २७ ॥ गीतवाद्यप्रदानेन सुखमाप्नोत्यनुत्तमम् ॥ प्रेक्षणीयप्रदानेन रूपवानभिजायते ॥ २८ ॥ तथा ओजस्व्यथैवाप्नोति यद्यन्वाभिप्रजायते ॥ स्नापयित्वा घृतेनार्चा सर्वपापैः प्रमुच्यते ॥ २९ ॥ स्नापयित्वा च तैलेन विरोगः सम्प्रपद्यते ॥ अम्बुना स्नापयित्वा तु सौभाग्यमधिगच्छति ॥ ३० ॥ विलिक्षयित्वा तां राम पापं जहति मानवाः ॥ अनुलेपनदानेन रूपमाप्नोत्यनुत्तमम् ॥ ३१ ॥ तथा धूपप्रदानेन श्रियमप्राप्नोत्यनुत्तमाम् ॥ धूपदा नेन धर्मज्ञ रतिमाप्नोति शोभनाम् ॥ ३२ ॥ तथा दीपप्रदानेन चक्षुष्मानभिजायते ॥ अन्नदः सर्वमाप्नोति यत्किंचिन्मनसेच्छति ॥ ३३ ॥ पानका नां प्रदानेन तृप्तिमाप्नोत्यनुत्तमाम् ॥ वस्त्रदो रूपमाप्नोति रूपमाप्नोति रूपदः ॥ ३४ ॥ रूपमदस्सर्वमाप्नोति तृप्तिमाप्नोति सर्वदः ॥ छत्रदः स्वर्गमाप्नोति तालवृन्तप्रदो दिवम् ॥ ३५ ॥ चामराणां प्रदानेन राजा भवति धार्मिकः ॥ पताकायाः प्रदानेन सर्वपापान्व्यपोहति ॥ ३६ ॥ ध्वजदानेन लोकेस्मिन्ध्वजभूतो भवेन्नरः ॥ नानाविधानां भोगानां तथा राम प्रदायकः ॥ ३७ ॥ तानेव भोगानवाप्नोति सर्वमाप्नोति भूमिदः ॥
॥१४४॥