विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 437, कुल 1001 में से
संदर्भ में पढ़ेंदेवमाल्यापनयनाद्गोदानफलमाप्नुयात् ॥ ३८ ॥ तद्वाहुतिप्रदानेन तल्लोकमधिगच्छति ॥ नमस्कारप्रणामाभ्यामनोभिः प्रतिमुच्यते ॥ ३९ ॥ प्र- क्षिणं तथा कृत्वा भवत्याचारवरेश्वरः ॥ स्तुत्वा च देवतां राम मनोदुःखान्प्रमुच्यते ॥४०॥ सन्तर्पयित्वा तोयेन तृप्तिं समधिगच्छति ॥ तत्मात्सर्वं प्रयत्नेन विशुद्धेनान्तरात्मना ॥ ४१ ॥ अर्चनीयाः पूजयत्सर्वा देवता भूरिदर्शन ॥ तदाश्रितांश्च युञ्जीत तदा तद्विधिपारगान् ॥ ४२ ॥ तत्पूजने तथा राम तांश्च सम्पूजयेत्सदा ॥ ब्राह्मणांश्च नियोक्तव्या वेदोक्तसुरपूजने ॥४३॥ यस्य राज्ञस्तु विषये देववेश्म विशीर्य्यते ॥ तस्य सीदति तद्राष्ट्रं देववेश्म यथा तथा ॥ ४४ ॥ संस्कारं लम्भयेद्यस्तु देववेश्म पुरातनम् ॥ स च सौख्यमवाप्नोति यत्रयत्राभिजायते ॥ ४५ ॥ वापीकूपतडागानां सदा त्रिदशवेश्मनाम् ॥ भूयः संस्कारकर्ता च लभते मुक्तिजं फलम् ॥ ४६ ॥ देवसम्पादनाद्राम वृद्धिं समुपगच्छति ॥ राज्ञस्तु विषये यस्य पूज्यन्ते सततं सुराः ॥४७॥ अतिवृष्टिर्नावृष्टिर्मूषिकाः शलभाः शुकाः ॥ राक्षसाश्च पिशाचाश्च रिपवश्च सुदारुणाः ॥४८॥ इत्येवं तयोवान्या न भवन्ति द्विजोत्तम॥४९॥तस्मात्प्रयत्नेन सदा नरेन्द्रैः पूजा विधेया सुरपूराणाम् ॥ सुरार्चनात्पूतसमस्तपापास्तस्वर्गं क्षितीशाश्चिरमाप्नुवन्ति ॥५०॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० सुरपूजामाहात्म्यवर्णनं नामैकत्रिंशोऽध्यायः॥३१॥ पुष्कर उवाच ॥ ब्राह्मणानपूजयेद्राजा ब्राह्मणानपालये- त्सदा ॥ ब्राह्मणा हि महाभाग देवानामपि दैवतम् ॥१॥ ब्राह्मणानां क्षितौ दद्याद्भोगानन्यांश्च पार्थिवः ॥ ब्राह्मणेषु तु यद्दत्तं निधिरस्त्यारलोकिक- कम् ॥ २ ॥ वेदवेदाङ्गवृद्धेषु द्विजश्रेष्ठेषु भारत ॥ दत्तस्य दानबीजस्य फलस्यान्तो न विद्यते ॥३॥ ब्रह्मस्वं चैव नादद्याद्ब्रह्मस्वं पालयेत्तथा ॥ ब्रह्मस्वहरणाद्राम नरकं पश्यते नरः ॥ ४ ॥ न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ॥ विषमेकाकिनं हन्ति ब्रह्मस्वं सतत्पुत्रपौत्रम् ॥ ५ ॥ ब्रह्मस्वं प्रणयाद्भुक्तं हिनस्त्याप्ततमं कुलम् ॥ द्रोहाद्भुक्तं तदेव कुलानि पातयेच्छतम् ॥ ६ ॥ सुवर्णमेकं गामेकां भूमेरप्येकमङ्गुलम्¹ ॥ हरन्नरकमाप्नोति यावदाभूतसम्प्लवम् ॥ ७॥ दृष्ट्वा विटं दुराचारं ब्राह्मणं न द्विपत्कचित् ॥ ब्राह्मणानां परीवादान्नाश्रामोति मानवः ॥ ८ ॥ न जातु ब्राह्मणं हन्या- त्सर्वपापेष्ववस्थितम् ॥ नैवास्ति ब्राह्मणवधात्पापं गुरुतरं क्वचित् ॥ ९ ॥ ब्रह्महा नरकं याति यावदाभूतसम्प्लवम् ॥ वर्षाणामयुतं राम पच्यते स्नानुपूरिते¹ ॥ १० ॥ शोणितं यावतः पांशून्गृह्णीति द्विजन्मनाम् ॥ कर्त्ता तावन्ति वर्षाणि कृतकृन्नरके वसेत् ॥ ११ ॥ उपद्रुतो द्विजो येन त्यजेज्जीवितमात्मनः ॥ ब्रह्महत्या भवेत्तस्य नात्र कार्या विचारणा ॥ १२ ॥ देहत्यागाच्च नरकं ब्राह्मणोऽपि प्रपद्यते ॥ तेन चाधिकमाप्नोति
१ 'बाहुपूरिते' इति ख० 'पश्यतेचावधूनिते' इति क० ।