विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
सत्त्वं प्लुतं हासमसुलवणं च ॥ ४२ ॥ श्रान्तस्य यानमशनं च बुभुक्षितस्य पानं तृषा परिगतस्य पुंसु रक्षा ॥ एतानि यस्य पुरुषस्य भवंति काले तं धन्यमाहुरिषिभूमि नरं द्विजेन्द्राः ॥ ४३ ॥ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे पुरुषलक्षणं नामाष्टमो ऽध्यायः ॥८॥ पुष्कर उवाच ॥ शस्ता स्त्री चारुसर्वाङ्गी मत्तमातङ्गगामिनी ॥ गुरूक्थजघना या च मतपारावतस्वणा ॥ १ ॥ सुनीलकेशी तन्वङ्गी पद्मद्युतिनिनादिनी ॥ तनुमध्या विलोमाङ्गी स्निग्धवर्णा मनोहरा ॥२॥ समग्रभ्रूसुभौ यस्याश्चाक्ष्णौ कमलोपमौ ॥ नाभिः प्रदक्षिणावर्ता संहतो च तथा स्तनौ॥३॥ विभक्तमथरोष्ठं च दर्शनं मधुरं तथा ॥ गुह्यं प्रदक्षिणावर्तमश्वत्थदलसन्निभम्॥४॥ गुल्फौ निगूढौ गूढ च तथा यस्याः ककुन्दरे॥ मध्यानेोमश्च यस्याः स्यादष्टाङ्गुष्ठप्रमाणतः ॥ ५॥ पिण्डिके च न संनद्धे न लम्बा च तथा कटिः ॥ जठरं च प्रलंबं च नयने च न केकरे ॥६॥ कचाश्च कपिशाः केशा रूक्षास्तथैव च ॥ न च वृक्षनदीनाम्नी न देवगणिनामिका ॥ ७ ॥ न चैवगन्धर्वभूतप्रतसनामिका ॥ न वाचाला न लुब्धा च न शठा कलहप्रिया ॥८॥ न लोमशा न दुर्भागा न वा कुण्ठकपालिका ॥ देवद्विजातिसिद्धानां साध्वनां पूजने रता ॥ ९ ॥ शीलोपेता गुणोपेता न शिराला न लोमशा ॥ १० ॥ गण्डैर्मधूकपुष्पाभैः स्निग्धैश्च दशनच्छदैः ॥ न महतः संश्लिष्टचणांगुलिकुङ्कमला ॥ ॥ ११ ॥ पतिप्रिया पतिप्राणा या नारी पतिदेवता ॥ अलक्षणापि सेवेया सर्वलक्षणसंयुता ॥ १२ ॥ भ्रुवं कनीनिका यस्या न स्पृशेत् कथंचन ॥ न तां कुर्वीत भार्यायै मृत्युः सा कथिता बुधैः ॥ १३॥ सरोमसूतरोष्ठं च गण्डौ यस्याः सकूपकौ ॥ अतिदीर्घा कषाया च चलन्मांसवया तथा ॥ १४ ॥ सा विवर्ज्या विशेषेण नरेण हितमिच्छता ॥ १५ ॥ संक्षेपतस्ते कथितं मयैतन्मयाल्लक्षणं चारु नितम्बिनीनाम ॥ मय्स्यमेतत्कथितं तु तत्र यथाश्रुतितस्तत्र गुणा वसन्ति ॥ १६ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे स्त्रीलक्षणं नाम नवमोऽध्यायः ॥ ९ ॥ पुष्कर उवाच ॥ नागाः प्रशस्ता धर्मज्ञ प्रमानेनाधिकास्तु ये ॥ दीर्घहस्ता महाच्छ्वासा स्वासनाश्च विशेषतः ॥ १ ॥ निगूढवंशा मध्याक्षा गूढा गूढोष्ठमस्तकाः ॥ विंशत्यष्टाधिकनखाः शीतकालमदाश्च ये ॥२॥ येषां चैव कराः पादा दीर्घा लाङगूलमेवं च ॥ दक्षिणं चोन्नतं दन्तं बृंहितं जलेदोपमम् ॥ ३ ॥ अत्यर्थवेदना ये च शूराः शब्दसहिष्णवः ॥ कर्णौ च विपुलो यंषां सूक्ष्मविन्दुयुतत्वचः ॥ ४ ॥ ते प्रशस्ता महाभाग ये तथा सत्सुस्थिताः ॥ दन्तच्छेदेषु दृश्यन्ते येषां स्वस्तिकलक्षणाः ॥५॥ क्षुद्राल्पवाल्यजनं वर्द्धमानाङ्कुशास्तथा ॥ ते धार्या न तथा धार्या वामना मस्कुणादयः ॥ ६ ॥ हस्तिन्यो याश्च गर्भिण्यो ये च मूढा मतङ्गाः ॥ अपाकलाश्च कुब्जाश्च सहन्ता ये च
वि० ध० ॥१७७॥ द्वि० सं० अ० ११
भार्गव ॥ ७ ॥ कुदन्ताश्च तथा वर्ज्या वामकूट्याश्च यत्नतः ॥ अङ्गुल्यशूश्च कूटश्च शठश्च विकटश्च ये ॥ ८ ॥ राम उवाच ॥ वामनाद्याश्च ये नागाः प्रोक्ता निन्दितलक्षणाः ॥ तेषां तु श्रोतुमिच्छामि लक्षणं वरुणात्मज ॥ ९ ॥ पुष्कर उवाच ॥ आयामं न संपूर्णं योनिर्ह्रस्वा भवेद्गलः ॥ वामनस्तु समाख्यातो मन्कुणो दन्तवर्जितः ॥ १० ॥ दशां चतुर्थी संप्राप्य वर्धते यस्य न द्विजौ ॥ स्थूलघानावयवौ स्यातां स मूढख्यो गजाधमः ॥ ११ ॥ अपाकलो विशालेन दन्तेनैकेन वारणः ॥ संक्षिप्तवक्षोजघनः पृथुमध्यसमुन्नतः ॥ १२ ॥ प्रमाणहीनवस्त्राभिः स कुब्जो वारणोधमः ॥ अनुव्रतांसः संहन्तः कुदन्तः स्यान्नतो बहिः ॥ १३ ॥ वामदन्तान्नतो नागो वामकूट्यश्च कथ्यते ॥ दन्तौ वक्रौ त्र्यंशा यस्य सोऽङ्गुल्यशुकथ्यितो गजः ॥ १४ ॥ एकदन्ततया नागः कूट इत्यभिधीयते ॥ पादौ पादः संनिकृष्टः स्यादाक्रम्य नागस्य गच्छतः ॥ १५ ॥ स शठोऽथवि युद्धे च लक्षणज्ञैर्न पूजितः ॥ अरत्न्यभ्यधिकं यस्य विस्तरेण स्तनान्तरम् ॥ १६ ॥ विकटः स विनिर्दिष्टो दुर्गतिर्निन्दितो गजः ॥ राम उवाच ॥ श्रोतुमिच्छामि धर्मज्ञ कुञ्जरं सप्तसुस्थितम् ॥ १७ ॥ यं प्राप्य किल राजानो जयन्ति वसुधां नृपाः ॥ १८ ॥ पुष्कर उवाच ॥ वर्णं सत्त्वं बलं रूपं कान्तिस्संसहननं जवम् ॥ संतेतानि सदा यस्य स गजः सप्तसुस्थितः ॥ १८ ॥ येषां भवेद्दक्षिणापार्श्वभागं गन्धो वा पुञ्जः पिटकोऽथवापि ॥ ते नागकुल्या विजयाय युद्धे भवन्ति राज्ञां न हि संशयोऽत्र ॥ १९ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेय वज्रसंवादे हस्तिलक्षणं नाम दशमोऽध्यायः ॥ १० ॥ ॥ पुष्कर उवाच ॥ अश्वानामपि ये प्रोक्ता महादोषा शृणुत्तम ॥ वर्णतश्चैव यान्प्रोक्तांस्तं न्तं निगदतः शृणु ॥ १ ॥ हीनदन्ती द्विदन्तश्च कराली कृष्णतालुकः ॥ कृष्णाजिह्वश्च यमजो जातस्त्वपक्ष्यागम्यया ॥ २ ॥ द्विशफश्च तथा शृङ्गी त्रिवर्णो व्याघ्रवर्णकः ॥ खरवर्णो भस्मवर्णो जातवर्णश्च काकुदी ॥ ३ ॥ श्वित्री च काकमांडी च खड्गशृङ्गस्तथैव च ॥ वानराख्यः कृष्णसटः कृष्णशफस्तथैव च ॥ ४ ॥ कृष्णौष्ठाग्रश्च मुक्तश्च यश्च तित्तिरिसन्निभः ॥ विषमश्चैकपादश्च ध्रुवावर्तेनवर्जितः ॥ ५ ॥ अशुभान्नेतान्प्रमुखो वर्जनीयास्तुरङ्गमाः ॥ ॥ राम उवाच ॥ वाजिनां क ध्रुवावर्ताः कषु स्थानेषु शोभनाः ॥ वाजिनः क तदा शस्तास्तन्ममाचक्ष्व पृच्छतः ॥ ६ ॥ पुष्कर उवाच ॥ रन्ध्रोपरन्ध्याक्ष्योष्ठादोष्ठौ मस्तकवक्षसौ ॥ प्रमाणं च ललाटं च ध्रुवावर्ता दश स्मृताः ॥ ७ ॥ एकोपि न भवद्यस्य ध्रुवावर्तं वाजिनः ॥ न तं शसंन्ति धर्मज्ञ तस्मात्तं परिवर्जयेत् ॥८॥ उत्तरोष्ठे शृणुश्रो प्रमाणन्य तर्थापरौ ॥ नासापुटे तथा प्रोध्र गण्डाभ्रीयाक्षिकमध्यगः ॥९॥ ॥१७७॥
१ 'कृष्णपक्षः' इत्यपि पाठः ।
कथयोरुपांतेन भ्रुवोः कण्ठामयोस्तथा ॥ नाभ्यां हतुवला कक्षास्कन्धयोरुत्पचसत्पिथु ॥ १० ॥ विदो बाहुप्रदेशे च गलस्य च तथवा
च ॥ आसने ककुदे ग्रीवे जानुजंघासु भार्गव ॥ ११ ॥ कुक्षिकानामिकक्षासु मुक्तयोर्मूत्रदेशजः ॥ त्रिके च कुलपुच्छे च उपरि म्घूण्यास्तथ
॥ १२ ॥ पिण्डयोर्जठरे चैव सीवनीयोपकुक्षिषु ॥ आवर्तवर्जनीयाः स्युः प्रयत्नेन तुरङ्गमाः ॥ १३ ॥ ककुद्दे कपोलयोश्चैव यन्यानर्तः कुवाजितः ॥
अत्यन्तप्रमशस्ते तं गजा गश्राष्टिद्वासयेत ॥ १४ ॥ हस्तिदेवमणिः सर्व पूर्वकेषु लक्षणः ॥ सुव्यक्तो रोचमानो वा न तु कार्कुटितं कचित् ॥ १५ ॥
मेखला वाप्यधःकायाद्धास्वादावर्त्तसम्भवम् ॥ दोषान्सर्व्वास्तुरङ्गस्य न हन्यात्काकनादिनम् ॥ १६ ॥ अतः परं प्रवक्ष्यामि शुभमावर्त्तलक्षणम् ॥
सृक्किण्योश्च ललाटे च तथा श्रवणमूलयोः ॥ १७ ॥ निगाले च तथा कण्ठे स्तुतकण्ठान्तयोस्तथा ॥ बाहुमूले तथा शस्ता रोमजातास्तुरङ्गमाः
॥ १८ ॥ आवर्तस्तु निगालस्थो ज्ञेयो देवमणिः शुभः ॥ कण्ठजो रोचमानश्च सर्वार्थवांत्तं जनाधिपः ॥ १९ ॥ अर्कैन्द्रगोपचन्द्राभा ये च वायम-
सप्रियाः ॥ सुवर्णवर्णाः स्निग्धाश्च प्रशस्यन्ते सदैव ते ॥ २० ॥ दीर्घग्रीवाश्शकृद्राह्या ह्रस्वग्रीवां न तथा ॥ ह्रस्वग्रीवाश्च शस्यन्ते मेधौवसहश-
स्वनाः ॥ पृथुरुपादजघना मुखपुच्छ्रश्च वै हयाः ॥२१ ॥ चन्द्रोग्रशुक्लास्तुरगाः प्रशन्ताः कर्णातनेत्रैर्दशनैर्वलीविलिङ्गेः ॥ ये रक्तवर्णाश्च समश्चपादैः
शुक्लांश्च वर्णैश्च महालुभावाः ॥ २२ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे अश्वलक्षणं नामैकादशोऽध्यायः ॥ ११ ॥
पुष्कर उवाच ॥ चमरबालसमुत्थाः शशाङ्कशङ्खसमप्रभाः ॥ महन्तः स्निग्धदीर्घाश्च तथा स्थालिनिबन्चनाः ॥ १ ॥ दण्डश्च चामरं
कार्यो रुक्मरूप्यमयंस्तथा ॥ प्रवालैर्वैडूर्यमयतश्च कनकन्वित्तः ॥२॥ श्रृङ्गस्य वा कार्यो रुक्मरूप्यनिवन्धनः ॥ स्न्र्तैः प्रशस्तैर्धोत्री वा
काञ्चनस्य प्रशस्यते ॥ ३ ॥ चन्दनस्याथ दन्तस्य शांङ्गः कार्यो यथा भवेत् ॥ अर्धहस्तान्न चाप्यूंनो मध्यश्चात्र तथाधिकः ॥ ४ ॥ कर्त्तव्यं चामरं
राज्ञा न च भार्गव वर्जितम् ॥५॥ अर्पितवर्णं तु भवेत्प्रशस्तं सांवत्सरामात्यपुरोहितानाम् ॥ नरेन्द्रपत्निद्रुवकेनजैस्त्वन्यत्नस्य शेषस्य जनम्य
कृष्णः ॥ ६ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे चामरलक्षणं नाम द्वादशोऽध्यायः ॥ १२ ॥ पुष्कर उवाच ॥ हंसपक्षविंवा
चितं मयूरस्य शुकस्य च ॥ पक्षेण बळ्छठाया छत्रं राज्ञः प्रशस्यते ॥ १ ॥ मिश्रपक्षं न कर्त्तव्यं हीनं परिमितं तथा ॥ चतुरस्त्रं तु कर्तव्यं
ब्राह्मणस्य मृगुत्तम ॥ २ ॥ वृत्तं गज्ञां प्रशस्तं स्याच्छुक्लवस्त्रविभूषितम् ॥ सितं दुकूलंमच्छन्नं पताकाभिर्विभूषितम् ॥ ३ ॥ एतस्मिन्दिगिभागं
१ 'रूप्यनिबन्धनः' इत्यपि पाठः ।
तु कार्याश्चन्द्रशुंनिर्मलाः ॥ चतस्रस्तस्य धर्मज्ञ पताका रुक्मसंषिताः ॥४॥ दण्डं चामरवत्कार्यं वैणवं च प्रशस्यते ॥ निक्कुटं पञ्चहस्तञ्चाष्ट-
पर्व्वः प्रशस्यते ॥ ५॥ द्वादशादशभिर्वापि शेषेस्तु परिवर्जयेत् ॥ छत्रं दण्डोप्रमप्रमाणं दुण्डः सर्वत्र शम्यते ॥ ६ ॥ वारयन्ति न दण्डं वै वैणवं
गृहमेधिनः ॥ राज्ञां प्रशस्तं षड्ढस्तं छत्रदण्डं भृगूत्तम ॥ ७॥ अथ पञ्चोनहस्तं तु महिषीपुत्रराज्योः ॥ सेनापतिसुराध्यक्षनंवान्नन्नृपगोहितैः ॥८॥
पञ्चहस्तस्तु कर्त्तव्यश्छत्रदण्डो भृगूत्तम ॥ चतुरूहस्तस्तु कर्त्तव्यो मया येऽत्र न कीर्तिताः ॥ ९ ॥ व्यामो दण्डार्धमानोन सदा छत्रम्य शम्यते ॥
छत्रं विप्रोपदेशाज्ञं त्वचेवन्द्रदिवाकवैः ॥१०॥ वज्रेन्द्रनीलैः स्फटिकैश्च गम वैदूर्य्यमुक्ताफलमत्प्रवालैः ॥ विभूषितं नृपश्रेष्ठं प्रशस्तं भदानृपं तु म्महा-
पतीनाम ॥ ११ ॥ इति श्रीविष्णुधर्मोत्तरे द्वित्तीयखण्डे मार्कण्डेयवज्रसंवादे छत्रलक्षणं नाम त्रयोदशोऽध्यायः ॥ १३ ॥ पुष्कर उवाच ॥ भद्रा-
सनं नरेन्द्रस्य क्षीरवृक्षेण कारयेत् ॥ उच्छ्रायश्च तथा तस्य अध्यर्धं तु समं भवेत् ॥ १ ॥ हस्तद्वयं तथा विष्टं विस्तीर्णं तु काञ्चनम् ॥ आयाम-
श्चास्य कर्त्तव्यो विस्तीर्णाधंसम्मितः ॥ २ ॥ चतुरस्रं तु कर्त्तव्यं गज्ञो भद्रासनं शुभम् ॥ नाष्टाश्रं न तथा वृत्तं न च दीर्घं भृगूत्तम ॥३॥ सुवर्णपट्ट-
प्यतथैव चित्रं कार्यं विशेषतः ॥ रत्नैः प्रशस्तैस्तं तथा न रत्नप्रनिरूपकैः ॥ ४ ॥ चत्वारः पुष्पधान्त्र विरचयता दुगुन्तदन ॥ द्विगुणाश्च तथा
सिंहास्तेभ्यस्तु द्विगुणास्तथा ॥ ५ ॥ भद्रासनं तत्र भवेन्नृपस्य तैलेन पूर्णं ससुवर्णं पगध्र्यम् ॥ वैश्याश्चमांसांस्तथां समासतं तन्त्र्य मसामाद-
न्ति ॥ ६ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे भद्रासनलक्षणं नाम चतुर्दशोऽध्यायः ॥ १४ ॥ पुष्कर उवाच ॥ वज्रं
मरकतं चैव पद्मरागं च मौक्तिकम् ॥ इन्द्रनीलं महानीलं वैदूर्य्यमथ रम्यकम् ॥ १ ॥ इन्द्रकान्तं सूर्यकान्तं स्फटिकं पुलकं तथा ॥ २ ॥ कर्केतनं
पुष्परागं तथा ज्योतीरसं द्विज ॥ ३॥ स्फटिकं राजवतं च तथा गामजयं शुभम् ॥ साँगंधिकं तथा मत्यं शङ्खब्राह्ममयं तथा ॥ ३ ॥ गोमेधं
रुधिराक्षं च तथा वल्लस्तकं द्विज ॥ धूलोमरकतं चैव तुत्थकं शषमत्र च ॥ ४ ॥ पलं प्रवालकं चैव गिरिवज्रं च भार्गव ॥ भुजङ्गमणिं चैव
तथा वज्रमणिं शुभम् ॥ ५ ॥ टीटिमं च तु तापिच्छं भ्रामरं च तथानलम् ॥ सन्तान्यैतानि धार्याणि सर्वाण्येत्र महीक्षिता ॥ ६ ॥ सुवर्ण-
प्रतिबद्धानि जयारोग्यसुखानिचे ॥ तषां गुरूत्वं गन्धश्च स्वच्छत्वं गम्भिमालिता ॥ ७ ॥ सुजातता मसृणता सुसंस्थानत्वमेव च ॥
गुणवन्तो विनिर्दिष्टा धातवन्त गुणसंयुताः ॥ ८ ॥ संहासस्रशकरा च न निष्प्रभा मलिनाम्रथा ॥ न ते चार्या नरेन्द्राणां जयश्रीजीवितेर्तिवि-
पाण् ॥ ९ ॥ समस्तरत्नसंयोगि वज्रधारयमिष्यते ॥ अभ्यस्तरिति यद्रत्नमेकं विमलं च यत् ॥ १० ॥ तथा च काष्ठं पदकोणे लप भार्गव ॥
नन्दन् ॥ प्रभा च शक्रापाषा प्रत्यर्काभिमुखी भवेत् ॥ ११ ॥ तं वज्रं धारयन्राजा सर्वानजयति शत्रून्वान् ॥ सुकुक्षिनिभः स्निग्धः कान्तिमा न्विमलस्तथा ॥ १२ ॥ सुवर्णचूर्णसंकाशैः सूक्ष्मबिन्दुभिरन्वितः ॥ शस्तो मरकतो गम गम्भीरश्चौद्यतस्तथा ॥ १३ ॥ पार्थश्च पृथिवीशानां सर्वोपद्रवनाशनः ॥ कुरुविन्दोद्भवञ्चन्य तथा सौगन्धिकाद्दिज ॥१४॥ स्फटिकात्पद्मरागाणां श्रेष्ठास्ते ह्युत्तरोत्तरम् ॥ जह्रङ्गा भवन्तीह कुरुविन्द भवाश्च ये ॥ १५॥ कषायन्द्वा निर्दिष्टा ये च सौगन्धिकोद्भवाः ॥ स्वच्छाश्च गगवन्तश्च विज्ञेयाः स्फटिकोद्भवाः ॥ १६ ॥ मुक्ताफलाः शुक्तिभव बहवो मत्स्यजास्तथा ॥ उच्छूहा न तथा तेभ्यो ये तु शङ्खोद्भवा द्विज ॥ १७॥ तेभ्यः प्रशस्ता विज्ञेया नागकुम्भसमुद्भवाः ॥ निष्प्रभान्ते प्रसूतिद्वाः श्रेष्ठाः कोऽन्येवा द्विज ॥ १८॥ तेभ्यो वेणुदलाः श्रेष्ठास्तेभ्यो भुजङ्गसम्भवाः ॥ तेभ्योऽपि भुवि दुष्प्राप्यं मौक्तिकं संवसम्भवम् ॥ १९ ॥ धारणा त्तस्य नृपतेः सर्वसिद्धिः प्रकीर्त्तिता ॥ मौक्तिकानां तु सर्वेषां वृत्तत्वं गुण उच्यते ॥ २० ॥ सुवृत्ता न सुयुक्तावं महत्तवं च भृणुत्तम ॥ इन्द्रनीलस्तुल्यः क्षीरे गजते भाजने स्थितम् ॥ २१॥ रश्मयेस्त्वप्रभावेन तमप्युल्लं विनिर्द्दिशेत् ॥ नीलरक्तं तु वैदूर्यं सर्वतः श्रेष्ठमुच्यते ॥ २२ ॥ सर्वेषामथ रत्नानां धार्यं कर्कतनं स्मृतम् ॥ पुष्परागस्तथा गम ये चान्ये कीर्तिता मया ॥ २३ ॥ प्रशस्तरत्नेर्मृपाणां सुकुटान्यङ्गदानि च ॥ हाराणि गम कार्याणि केयूरभरणानि च ॥ २४ ॥ अश्रस्तानि रत्नानि वर्जनीयानि दूरतः ॥ सर्वगोत्तमं गजा विवर्णं मलिनं तथा ॥ २५ ॥ न धारयत्त धर्मज्ञः सुशुद्धं धारयेत्सदा ॥ धृतिः प्रशस्ता मुगुवेराचंदू रत्नोत्तमानां सततं नृपाणाम् ॥ रत्नोऽशुद्धं तु नरस्य देहाद्धनंयथाशु प्रशमं प्रयाति ॥ २६ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रत्नलक्षणं नाम पञ्चदशोऽध्यायः ॥ १५ ॥ ॥ पुष्कर उवाच ॥ ॥ धनुर्द्रव्यत्रयं लोहं शृङ्गं चारु च भार्गव ॥ ज्याद्रव्यत्रितयं चर्म वंशभंगं त्वचस्तथा ॥ १ ॥ वंशत्वग्वंशचाप तु कर्त्तव्यं भृगुनन्दन ॥ अन्येषु राम चापेषु शेषद्रव्यमिदं भवेत् ॥ २ ॥ प्रमाणं नात्र निर्दिष्टं चापयोः शार्ङ्गलोहयोः ॥ दारुचापप्रमाणं तु श्रेष्ठं हस्तचतुष्टयम् ॥ ३ ॥ तदर्धसमहीने तु प्रोक्ते मध्यकनीयसी ॥ सुष्टिग्राह्याणि वृत्तानि मध्ये सर्वाणि कारयेत् ॥ ४ ॥ स्वल्पा कटिस्तु वृक्षाणां शार्ङ्गेलोहमयी द्विज ॥ कामिनीभ्रू लताकारा कोटिः कार्या सुसंस्कृता ॥५॥ पृथुवा दारुमिश्रो वा लोहशार्ङ्गे तु कारयेत् ॥ शार्ङ्गं बाणोचितं कार्यं रूक्ष्मविन्दुवि भूषितम् ॥ ६ ॥ कुटिलस्फुटितं चापं सच्छिद्रं च न शस्यते ॥ हस्तिभग्ना द्रुमा ये च विबुद्धग्वास्तथा च ये ॥ ७ ॥ आगमद्व्रतावक्षमतापना
१ 'महुत्त्वा' इत्यादि पाठः । २ 'कुर्कैतनम्' इति ख० ।
वि०प०
द्वि० खं०
अ० ३४
॥१७५॥
॥१७६॥
अश्रमसंभवाः ॥ श्मशानसंभवा ये च न ते कार्याः कथंचन ॥ ८ ॥ प्राणिनां यः सजात्येन शृङ्गे शृङ्गि निपातितः ॥ तच्छृङ्गं वर्जयेच्चापं नित्यं
शाङ्गे विचक्षणः ॥ ९ ॥ लोहानि गम चत्वारि शस्यन्ते चापकर्मणि ॥ सुवर्णं रजतं ताम्रं तथा कृष्णायसं द्विज ॥ १० ॥ कांस्येन ज्ञापस्तं तु
मत्तमपि कारयेत् ॥ वार्क्षिवं शारथं शार्ङ्गं गैहीजं चापि कारयेत् ॥ ११ ॥ वार्क्ष चन्दनजं श्रेष्ठं वैतसं धान्वनं तथा ॥ मालशालिशलाकिज्ञानां
ककुभस्यार्जुनस्य च ॥ १२ ॥ वंशास्य च महाभाग मवेच्छ्रेष्ठतमं विदुः ॥ शुद्धैर्हतैः काष्ठैस्तु चापं कार्यं प्रयत्नतः ॥ १३ ॥ वंशानामपि तच्छ्रेष्ठं
यत्र गङ्गा महानदी ॥ मालनामापि तच्छ्रेष्ठं गोमती यत्र भार्गव ॥ १४ ॥ विन्ध्यशैलकुलोद्भूतं श्रेष्ठं वैतसीतं तथैव च ॥ एवं द्रव्यमयं कार्य चापं
लक्षणसंयुतम् ॥१५॥ ग्रहणं लक्षणं चास्य भविष्यति च यद्ध्रुवम् ॥ सुश्वक्ष्णं दृढिकान्तं शणमक्क्षमुवं तथा ॥ १६ ॥ श्लक्ष्णं लिष्टं सुसंस्थानं
सारवन्तं सुमंहतम् ॥ अवतामसुलवं नित्यं पुंसामनवलोकितम् ॥ १७॥ एतद्दिहाशकं श्रेष्ठं चापान्तं विदुर्भुधाः ॥ गज्ञा चापस्य कर्तव्या पूजा वा
णवस्य च ॥ १८ ॥ नित्यं देवकुले राम वृत्तस्य च विशेषतः ॥ अयमश्याय वंशाभ्यः शल्यन्याह द्वगे भवेत् ॥ १९ ॥ भण्डैश्चो महीनित्यं
शरत्काले भृगूत्तम ॥ शराः किराताजाः श्रेष्ठाः काञ्जीपुष्पसमाेपताः ॥ २० ॥ तेभ्योऽपि ते श्रेष्ठतमाः स्कन्दजन्ममहीभवाः ॥ स्थिराया नि
मप्रपर्वाणः सुावन्तः समाहिताः ॥ २१ ॥ ऋजवो मधुवर्णाभाः सजाताः शाण्ड़ा दृढाः ॥ न्तार्कवृद्धाः सुतश्राव सुपुङ्खाः कृतवाष्मः ॥ २२ ॥
तैलधौताश्च कर्तव्या रुक्मपुङ्खीश्चिषण्णवाः ॥ तथा विषमपर्वाणः फ्लेश्च वणवर्जितेः ॥ २३ ॥ एकं त्रिपुञ्खं कर्तव्यं गजन्वेत्तच्छूदोत्तरम् ॥
रुक्मपुङ्खं सुवर्णाग्रमयःफलमनुत्तमम् ॥२४॥ स्नायुबद्धं बलं तस्य रुक्मवन्त्यं तु कारयेत् ॥ वस्त्रैश्च लक्षणाोपेतैर्भुषितं तु कारयेत्॥२५॥ मण्डनं
तस्य कर्तव्यं मांसपक्मगणनृपैः ॥ तस्य पूजा सदा कार्या सानिपेकस्य भवेत् ॥ २६ ॥ यन्नावायमभिषेकं च मङ्गल्येषु च कृत्वेषु ॥ मपनाक
तु तं चापं मपताकं तु कारयेत् ॥ मङ्गल्यं तन्नरेन्द्राणां कथितं भृगुनन्दन ॥ २७ ॥ यं चापन्तं विनतं दुःखः सुवर्णान्तंणपेक्षितं मर्दैवं ॥
वर्णन्त मार्कं परिपूजयन्ति भवन्ति ते राम विपद्ध्रुवाः ॥ २८ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयसुमंत्रवादे चापलक्षकशं नाम
षोडशोऽध्यायः ॥ १६ ॥ ॥ पुष्कर उवाच ॥ शृणु सुमेरुशिखरे काञ्चने गन्धपर्वते ॥ स्वर्णाङ्ख्याह्लाद भृष्टा यत्रे नृत्यन्ति मारुते ॥ १ ॥
तस्मिन्यज्ञे म दृदृशे विप्रं च लेहदानवम् ॥ विश्वस्य शमनं तस्य चिन्तयामास तत्त्ववित् ॥ २ ॥ तदा चिन्तयतस्तस्य पुरुषः पावकद्द्युती ॥
नीलोत्पलदलश्यामः स्वरूचा वञ्चितेक्षणः ॥ शा प्रोशुः सुवदनः श्रीमान्वलनाप्रतिमोग्र युधि ॥ म वज्रन्द वह् तद्वत् दैवं कमलोद्भवम् ॥ ४॥
अभ्यनन्दन् जातेन तेन देवास्सवासवाः ॥ तस्मात्स नन्दको नाम खड्गरत्नमभूत्तदा ॥ ५ ॥ तं दृष्ट्वा भगवान्ब्रह्मा केशवं वाक्यमब्रवीत् ॥ खड्गं गृहीष्व गोप्तारं धर्मस्य जगतां पते ॥ ६ ॥ यज्ञाद्विघ्नकरं हत्वा खड्गेनानेन केशव ॥ निपातय महाबाहो बलिष्ठं लोहदानवम् ॥ ७ ॥ इत्युक्तोऽथ जग्राह ग्रीवया तं जनार्दनः ॥ गृहीतमात्रे देवेन विक्रोशः समपद्यत ॥ ८ ॥ खड्गः कमलपत्राक्षो नीलोत्पलसमद्युतिः ॥ गन्तभूहिसंज्ञोऽभून्नाम निर्मलकाशसन्निभः ॥ ९ ॥ एतस्मिन्नन्तरे तत्र व्यदृश्यत तदा महान् ॥ करालः कृष्णवदनः शतबाहुर्महोदरः ॥ १० ॥ प्रांशुः सुवृत्तदंष्ट्राग्रो बलवांल्लोहदानवः ॥ ११ ॥ यज्ञविघ्नार्थिनं प्रातं स दृष्ट्वा लोहदानवम् ॥ ११ ॥ खड्गमादाय वेगेन ययौ तं प्रति केशवः ॥ स केशवमथासाद्य दैत्य उच्चक्रुरोगदामारू ॥ १२ ॥ विद्वावयामास तदा गदया भीमवेगया ॥ तदा मग्नेषु देवेषु युद्धं कृत्वा हरिश्चिरम् ॥ १३ ॥ खड्गेन तस्य गात्राणि चिच्छेद मधुहा रणे ॥ खड्गच्छिन्नानि गात्राणि नानादेशेषु भूतले ॥ १४ ॥ निपेतुस्तस्य धर्मज्ञ शतशोऽथ सहस्रशः ॥ नन्दकस्य तु संस्पर्शात्तानि गात्राणि भार्गव ॥ १५ ॥ लोहीभूतानि सर्वाणि प्रसादात्केशवस्य तु ॥ हतायास्मै वरं प्रादाद्भगवान्मधुसूदनः ॥ १६ ॥ त्वदङ्गानि पवित्राणि भविष्यन्ति महीतले ॥ आयुधानि च तैर्लोके करिष्यन्ति च मानवाः ॥ १७ ॥ एवमुक्त्वा हरिर्देवो ब्रह्माणं वाक्यमब्रवीत् ॥ विना विघ्नं मखमिदं कुरु शीघ्रं जगद्गुरो ॥ १८ ॥ एवमुक्तस्तदा ब्रह्मा यज्ञेन मधुसूदनम् ॥ आत्मना पूजयामास सुसमिद्धमनेकशः ॥ १९ ॥ उत्पत्तिकथिका खड्गस्य लोहस्य च मया तव ॥ अतः परं प्रवक्ष्यामि खड्गलक्षणमुत्तमम् ॥ २० ॥ प्रधानङ्गेषुसंभूतैरस्थिभिश्चिह्नितम् ॥ लोहं प्रधानं खड्गार्थे प्रशस्तं तद्विशेषतः ॥ २१ ॥ कटीकरदुरुत्पत्तिकं वङ्गे शूर्पारकेषु च ॥ विदेहेषु तथाङ्गेषु मध्यमं ग्रामचेदिषु ॥ २२ ॥ १मङ्गल्यामथ नीपेषु तथा ककुञ्जरेष्वपि च ॥ लोहं प्रधानं तज्जानां खड्गानां शृणु लक्षणम् ॥ २३ ॥ कटीकरदूजाता ये दर्शनीयास्तु ते स्मृताः ॥ काष्ठाच्छिन्नास्तु अधिका मर्मज्ञा गुरुवस्तथा ॥ २४ ॥ तीक्ष्णाश्छेदास्सहा वाह्या दृष्टा शूर्पारकोद्भवाः ॥ सुहस्ताश्चैव विज्ञेया प्रभावन्तो विदेहजाः ॥ २५ ॥ अङ्गदेशोद्भवास्तीक्ष्णाश्चेदि देशसमुद्भवाः ॥ कालिङ्गरा मारसहास्तथा वक्ष्यामि लक्षणम् ॥ २६ ॥ सुप्रमाणांगुलास्ते तु श्रेष्ठा खड्गाः प्रमाणतः ॥ प्रमाणं तन विज्ञाय ततो हीनं न धारयेत् ॥ २७ ॥ प्रमाणाभ्यधिकं चैव च्छिद्रवृक्षं तथैव च ॥ शुभ्रः सुमधुरः शब्दो यस्य खड्गस्य भार्गव ॥ २८ ॥ किङ्किणीसदृशस्तस्य धारणं श्रेष्ठमुच्यते ॥ खड्गः पद्मपलाशाग्रो मण्डलाग्रश्च शस्यते ॥ २९ ॥ कर्र्वीपलाशसदृशस्य विशेषतः ॥ महीघृतसुगन्धश्च
१ 'मध्यमग्रामसम्भवाः' इति ख० ।
पद्मोत्पलसुगन्धिश्च ॥ ३० ॥ वर्णतश्चोत्पलाकारः सवर्णो गगनेन च ॥ समाङ्गुलोर्ध्वाः श्मश्रूणां गुणाः षडेषु भार्गव ॥ ३१ ॥ श्रीवृक्षपर्वता- कारकेशवान्निभाश्च ये ॥ मङ्गल्यानां तथान्येषां सदृशा ये च भार्गव ॥ ३२ ॥ काकोलूकखरोष्ट्राणां विषमाङ्गुलसंस्थिताः ॥ वंशातुलाः प्रभूताश्च न शस्तास्ते कदाचन ॥ ३३ ॥ न खड्गे वदनं पश्येद्भूत्वा विशृणुयान्न च ॥ उच्छिष्टो न स्पृशेन्मूर्ध्नि कुर्यान्न शौचकं ॥ दिवा च पूजयेदेनं गन्धमाल्यान्नसंपदा ॥ ३४ ॥ खड्गं प्रशस्तं मणिहेमचित्रं कोशं महाचन्दनचूर्णयुक्तैः ॥ संस्थापयेद्भूमिपतिः प्रयत्नाद्रक्षार्थमेतं स्वशरीर- वच्च ॥ ३५ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे खड्गलक्षणं नाम सप्तदशोऽध्यायः ॥ १७ ॥ पुष्कर उवाच ॥ इति सम्भृतसम्भारो गृहात्सर्वान्रसांस्तथा ॥ कालेन्द्रमभिषेचनं कुर्यात्तं कालं कथयामि ते ॥ १ ॥ मृते राज्ञि न कालस्य नियमोऽत्र विधीयते ॥ तत्रास्य स्नपनं कार्यं विधिवत्तिलसर्पपैः ॥ २ ॥ वोषयित्वा जटं चास्य सांवत्सरपुरोहितौ ॥ अन्यानामनवेक्ष्यैव दद्यातां जतं शनैः ॥ ३ ॥ स मान्त्रयित्वा स्वजनं युक्ता बन्धनगोस्तथा ॥ अभयं घोषयित्वा च कालकांक्षी तथा भवेत् ॥ ४ ॥ नाभिषेच्यो ऽपुत्रोत्रे तस्मिन्माने च भार्गव ॥ न प्रसूते तथा विष्णौ विशेषात्त्वावृषि द्विज ॥ ५ ॥ न च भौमेदिने गम चतुर्थ्यां न तथैव च ॥ नवम्यां नाभिपक्तव्यः चनूर्दश्यां च भार्गव ॥ ६ ॥ ध्रुवाणि वैष्णवं शाक्रं हस्तपुष्ये तथैव च ॥ नक्षत्राणि प्रशस्यन्ते भूमिपालोभिषेचने ॥ ७ ॥ नागऋक्षतुपष्टं विधिः किंन्तूग्रः शकुनित्तथा ॥ कृष्णानि न शस्यन्ते व्यतीपातर्दिनं तथा ॥ ८ ॥ नक्षत्रकुलकामित्वत्सुतपातामिहेतं तथा ॥ माम्भूयुकंज्ञान्तानि परिविष्टिश्च भार्गव ॥ ९ ॥ मुहूर्ताश्चोक्तनक्षत्राः मतां मानहितप्रदाः ॥ कुजहोग तथा नेष्टा सर्वत्र कुलिरन्तथा ॥ १० ॥ वृषोऽथ कीटसिंहौ च कुम्भो लग्ने च शस्यते ॥ एतपां जन्मलग्नार्थो यः स्यादुपचयस्थितः ॥ ११ ॥ नाग द्वितीया षष्ठी च चतुर्थी चाष्टमी च या ॥ नवमी च तथा शान्ता अनुकूलश्च चन्द्रमाः ॥ १२ ॥ सौम्याः केन्द्रगता लमा शुभाश्चैव त्रिकोणगाः ॥ पापाश्चापचय स्थाने शस्तो लग्न दिवाकरः ॥ १३ ॥ लग्ने नवांशः क्षितिजस्य वर्ज्यो वर्गोत्तथा तस्य महाशुभाव ॥ मूर्धन्य वगः सकलः प्रशान्तो राज्ञाऽभिषेके सहदो नृपाणाम् ॥ १४ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादेऽभिषेककालनिर्णयो नामाष्टादशो ऽध्यायः ॥ १८ ॥ पुष्कर उवाच ॥ कार्या पाण्डुरंगे शांतिः प्रागवाप्य पुरोधसा ॥ प्रातमभिषकेद्दिवसं सोपवासः पुरोहितः ॥ १ ॥ सोपोषः श्वेतवसनः सितचन्दनभूषितः ॥ सितमाल्योपवीतश्च सर्वौषधयुतोऽन्वितः ॥२॥ बह्निसिद्धिमथ कृत्वा च विदध्नस्ततः ॥ जुहुयाद्वैष्णवान् मन्त्रां
स्तथा शक्रान्विचक्षणः ॥ ३ ॥ सावित्रान्वैश्वदेवांश्च सौम्यां च विधिवत्ततः ॥ शर्मवर्मगणं चैव तथा स्वस्त्ययनं गणम् ॥ ४ ॥ आयुष्यमभयं चैव तथा चैवापराजितम् ॥ सपातातवन्तं कलशं तथा कुर्याच्च काञ्चनम् ॥ ५ ॥ वेर्हेदक्षिणापार्श्वस्थः श्वेतचन्दनभूषितः ॥ श्वेतानुलेपनः स्रग्वी सर्वाभरणभूषितः ॥ ६ ॥ आसनस्थमुखं पश्येन्निर्मितानि हुताशने ॥ ७ ॥ पश्येयुरन्ये च तथा नृसिंहं दैवज्ञावाक्यान्निपुणं स्वरूपम् ॥ सांवत्सर स्याथ सदस्यमुख्याः सदस्यमुख्याश्च पुरोहितस्य ॥ ८ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे पुरंदरशान्तिर्नामैकोनविंश- तितमोऽध्यायः ॥ १९॥ पुष्कर उवाच ॥ प्रदक्षिणावर्तशिखस्तप्तजाम्बूनदप्रभः ॥ स्थोद्यमेघनिर्घोषो विधूमश्च हुताशनः ॥ १ ॥ अनुलोमसुगन्धश्च स्वस्तिकाकारसर्पिषः ॥ वर्धमानाकृतिश्चैव नन्द्यावर्तिनभस्तथा ॥ २ ॥ प्रसन्नार्चिर्महाज्वालः स्फुलिङ्गरहितो हितः ॥ स्वाहावसाने ज्वलनः स्वयं देवमुखं हविः ॥ ३ ॥ यदा भुङ्क्ते महाभाग तदा राज्ञो हितं भवेत् ॥ हविष्पस्तु यदा वह्नेर्न्यास्सिमिसिमायितम् ॥ ४ ॥ न वर्जेयुश्च मध्येन मार्जारमृगपक्षिणः ॥ पिपीलिकाश्च धर्मज्ञ तदा भूयाज्जयो नृपः ॥ ५ ॥ मुक्ताहारमृणालाभे वह्नौ राज्ञो जयो भवेत् ॥ तथैव च जयं ब्रूयात्प्रस्तरस्य प्रदायिनि ॥ ६ ॥ संक्षेपतस्तेऽभिहितं मयाद्य यल्लक्षणं चारु हुताशनस्य ॥ सर्वाग्निकर्मस्वथ तेन विद्वन्भूयात्रिलोके तु जयो द्विजेन्द्र ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे वह्निलक्षणं नाम विंशतितमोऽध्यायः ॥ २० ॥ ॥ पुष्कर उवाच ॥ ॥ स्नानं समा- चरेद्राज्ञो होमकाले पुरोहितः ॥ आदौ तु स्वेच्छया स्नातः पुनर्मृद्भिः समाचरेत् ॥ १ ॥ पर्वतग्रमृदा तावन्मूर्धानं शोधये- न्नृपः ॥ २ ॥ वल्मीकामृदा कर्णौ चन्दनैः केशबालकान् ॥ २ ॥ चन्द्रालयमृदा ग्रीवां हृदयं तु नृपाजिरात् ॥ करिद्दन्तोद्धृतमृदा दक्षिणं तु तथा भुजम् ॥ ३ ॥ वृषशृङ्गोद्धृतमृदा वामं चैव तदा भुजम् ॥ ४ ॥ सरोमृदा तथा पृष्ठं चोदरं साङ्गमे मृदा ॥ नदीकूलद्वयमुदा पाश्र्वे संशोधयेत्तथो ॥ ५ ॥ अश्वस्थानात्तथा जंघे राजा संशोध्येदुधः ॥ रथचक्रोद्धृतमृदा तथैव च करद्वयम् ॥ ६ ॥ मृत्स्नान्तः स्नपनीयः स्यात्पञ्चगव्यजलेन तु ॥ ततो भद्रासनगतं मुख्यामाल्यानुलेपनम् ॥ ७ ॥ वर्णप्रधानं भूपालमभिषेचेद्यथाविधि ॥ पूर्वेतो हेभकुम्बेन घृतपूर्णेन ब्राह्मणः ॥ ८ ॥ रूप्यकुम्भेन याम्येन क्षीरपूर्वेण क्षत्रियः ॥ दशा च ताम्रकुम्बेन वैश्यः पश्चिमतौ द्विज ॥ ९ ॥ माहेयेन जलेनौ- दक्सूद्रामात्योऽभिषेचयेत् ॥ ततोऽभिषेकं नृपतेर्बहुवृचप्रवरो द्विजः ॥ १० ॥ कुर्वीत मधुना राम च्छन्दोगश्च कुशोदकैः ॥ सम्पातवन्तं कलशं
१ अत्र प्रकरणानुबद्धं पद्यमेतदधिकमुपलभ्यते द्वेपुस्तके - ' वेश्याद्वारमृदा राज्ञः कटिशौचं विधीयते । गजस्थानात्तथैवो रू गोस्थानाज्जानुनी तथा ।'
३१
वि० ध० ॥ १८१ ॥
द्वि० सं० अ० २९
तथा कृत्वा पुरोहितः ॥ ११ ॥ विधाय बहिरक्षं तु सदस्येषु यथाविधि ॥ राजसूयाभिषेके तु ये मन्त्राः परिकीर्तिताः ॥ १२ ॥ तैस्तु दद्याच्च होमभागं ब्राह्मणानां स्वनेन तु ॥ ततः पुरोहितो गच्छेदौदुम्बरं तदैव तु ॥ १३ ॥ विसर्पितं तु राजानं सर्वतोभद्र आसने ॥ शतच्छिद्रेण पात्रेण सौवर्णेन यथाविधि ॥ १४ ॥ अभिषिञ्चति धर्मज्ञ यजुर्वेदविशारदः ॥ या ओषधीरोषधीभिः सर्वाभिः सुसमाहितः ॥ १५॥ रथे अक्षेति गन्धैश्च आब्रह्मन्ब्रह्मणेति च ॥ बीजैः पुष्पैस्तथा चैवं रत्नं पुष्पवतीति च ॥ १६॥ तेनैव चाभिमन्त्रेण फलैस्तमभिषेचयेत् ॥ आशुः शिशान इत्येव सर्वरत्नैश्च भार्गव ॥ १७ ॥ ये देवाः पुरस्सदेति कुशाग्रैः परिमार्जयेत् ॥ ऋग्वेददृष्टतो राज्ञो रोचनाया यथाविधि ॥ १८ ॥ मूर्धानं च तथा कण्ठे गन्धद्वारेति संस्पृशेत् ॥ ततो ब्राह्मणमुख्याश्च क्षत्रियाश्च विशस्तथा ॥ १९ ॥ शूद्राश्च वारमुख्याश्च नानातीर्थसमुद्भवैः ॥ नादेयैः सारसैः कौपैर्नानाकलशसंस्थितैः ॥ २० ॥ चतुस्सागरजैस्तोयैर्भाण्डैर्महिजकल्पितैः ॥ गजहृष्टामृतेनोर्व्या निर्झरैश्च तथोद्भिदैः ॥ २१ ॥ छत्रपाणिभिरेवैके चापि
सांवत्सरपुरोहितौ ॥ पूजयित्वा ततः पश्चात्पूजयेद्ब्राह्मणत्रयम् ॥ ३८ ॥ अनेनैव विधानेन येन राजाभिषेचितः ॥ ततस्त्व- मात्यान्सम्पूज्य सांवत्सरपुरोधसः ॥ ३९ ॥ ततो ब्राह्मणमुख्यानां पूजनं तु समाचरेत् ॥ गोवस्त्रातिलकरूप्यान्नफलाकाञ्चनगोरसैः ॥ ॥ ४० ॥ मोदकाक्षतपुष्पैश्च महीदानैश्च पार्थिवः ॥ मङ्गलालम्भनं कृत्वा गृहीत्वा सशरं धनुः ॥ ४१ ॥ वह्निं प्रदक्षिणीकृत्य प्रणिपत्य तथा गुरुम् ॥ पृष्ठतो वृषमालभ्य गां सवत्सां च पार्थिव ॥ ४२ ॥ पूजयित्वा च तुरगं मन्त्रितं चाभिषेचितम् ॥ मन्त्रितं दक्षिणे कर्णे स्वयं वेदविदा ततः ॥ ४३ ॥ आरुह्य राजमार्गेण स्वपुरं तु परिक्रामेत् ॥ मुख्यामात्यैश्च सामन्तैः सांवत्सरपुरोहितैः ॥ ४४ ॥ सहितः कुञ्जराढ्यैरभिगच्छेच्च देवताः ॥ तासां संपूजनं कृत्वा नगरे या निवेशिताः ॥ ४५ ॥ प्रविशेत् गृहं राजा प्रहृष्टनरवाहनः ॥ दानमानानि सत्कारैर्गृहीत्वात्मकृतीस्ततः ॥ ४६ ॥ संपूजितास्तास्तु विसर्जयित्वा गृहे स्वके स्यान्मुदितो महात्मा ॥ विधानमेतत्समवाप्य राजा कृत्स्नां स पृथ्वीं वशगां हि कुर्यात् ॥ ४७ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे राज्याभिषेकविधिर्नामैकविंशतितमोऽध्यायः ॥ २१ ॥
राम उवाच ॥ मन्त्रेण येन धर्मज्ञ कुर्याद्राज्ञाऽभिषेचनम् ॥ तमहं श्रोतुमिच्छामि त्वत्तो वदतां वर ॥ १ ॥ पुष्कर उवाच ॥ शृणुष्वाव- हितो मन्त्रं राम कल्मषनाशनम् ॥ येनाभिषिक्तो नृपतिः श्रियं यशांसि तिष्ठति ॥ २ ॥ राज्ञोऽभिषेकशब्दान्ते देवविष्णुकुशवारिणा ॥ कुम्भादभ्यु- क्षणं कुर्यान्मन्त्रान्ते सकलं न्यसेत् ॥ ३ ॥ सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ॥ वासुदेवो जगन्नाथस्तथा सङ्कर्षणो विभुः ॥ ४ ॥ प्रद्युम्नश्चानिरुद्धस्तु भवन्तु विजयाय ते ॥ आखण्डलोऽग्निर्भगवान्यमो वै नैर्ऋतिस्तथा ॥ ५ ॥ वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः ॥ ब्रह्मण- सहितः शेषो दिक्पालाः पान्तु ते सदा ॥ ६ ॥ भद्रो धर्मो मनुर्दक्षो रुचिः श्रद्धा च पार्थिव ॥ भृगुरत्रिर्वसिष्ठश्च सनकश्च सनन्दनः ॥ ७ ॥ सनत्कुमारश्च तथा भगवानपि चाङ्गिराः ॥ पुलहश्च पुलस्त्यश्च मरीचिः कश्यपः प्रभुः ॥ ८ ॥ एते त्वामभिषिञ्चन्तु प्रजाध्यक्षाः समागताः ॥ प्रभासुरा बर्हिषदो ह्यग्निष्वात्तास्तथैव च ॥ ९ ॥ क्रव्यादाश्चोपहूतश्च आज्यपाश्च सुकालिनः ॥ एते त्वामभिषिञ्चन्तु पितरश्चाग्निभिः सह ॥ १० ॥ लक्ष्मीर्देवी सती ख्यातिरनसूया तथा स्मृतिः ॥ संभूतिस्सन्ततिश्चैव क्षमा प्रीतिस्तथैव च ॥ ११ ॥ स्वाहा स्वधा च त्वा राज्ञन्तमभिषिञ्चन्तु मातरः ॥ कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा ॥ १२ ॥ बुद्धिर्लज्जा वपुः शान्तिस्तुष्टिः सिद्धिश्च पार्थिव ॥ एतास्त्वामभिषिञ्चन्तु धर्मपत्न्यः समागताः ॥ १३ ॥ अरुन्धती वसुर्यामी लम्बा भानुर्मरुत्वती ॥ संकल्पा च मुहूर्ता च
साध्या विश्वास्तथैव च ॥ १४ ॥ धर्मपत्न्यस्त्वन्यत्वात्त्वामभिषिञ्चन्तु पार्थिव ॥ अदितिश्च दितिस्ताम्रा अरिष्टा सुरसा मुनिः ॥ १५ ॥ कद्रूः क्रोधवशा प्राधा विनता सुरभिश्चाभिः ॥ एतास्त्वामभिषिञ्चन्तु कश्यपस्य प्रियाः स्त्रियः ॥ १६ ॥ पत्नी ते बहुपुत्रस्य ॥ सुप्रभा या च भामिनी ॥ समायान्त्वात्वभिषेकाय विजयाय च पार्थिव ॥ १७ ॥ कृशाश्वपत्नी च तथा सुप्रभा च जया तथा ॥ अस्त्रग्रामस्तयोः पुत्रो विजयं विदधातु ते ॥ १८ ॥ मनोरमा भानुमती विशाला या च बहुदा ॥ अरिष्टनेमी पत्न्यस्त्वामभिषिञ्चन्तु पार्थिव ॥ १९ ॥ कृत्तिका रोहिणी देवी इल्वलाबाहुदंश्च च ॥ पुनर्वसूश्च तिष्यश्च तथाश्लेषा च पार्थिव ॥ २० ॥ मघा च फाल्गुनी पूर्वा तथैवोत्तरफाल्गुनी ॥ हस्तश्चित्रा तथा स्वातिर्विशाखा च नराधिप ॥ २१ ॥ अनुराधा तथा ज्येष्ठा मूलं च वसुधाधिप ॥ आषाढा च तथा पूर्वा तथैव नृप चोत्तरा ॥ २२ ॥ अभिजिश्च तथाश्विन्यौ धनिष्ठा च नराधिप ॥ तथा शतभिषक्चैव पूर्वाभाद्रपदा च या ॥ २३ ॥ उत्तरा रेवती राजन्द्द्विनी भरणी तथा ॥ एतास्त्वामभिषिञ्चन्तु सोमपत्न्यः समागताः ॥ २४ ॥ इला च मृगमन्दा च श्वेता भद्रमना हरिः ॥ भूता च कपिशा दंष्ट्री सुरसा सरमा तथा ॥ २५ ॥ एताः पुलहपत्न्यस्त्वामभिषिञ्चन्तु पार्थिव ॥ श्वेती भासी तथा क्रौञ्ची धृतराष्ट्री शुकी तथा ॥ २६ ॥ पत्न्यस्त्वामभिषिञ्चन्तु अरुणस्यार्कसारथेः ॥ आयतिर्नियतिश्चैव गात्रिन्द्रा तथैव च ॥ २७ ॥ एतास्त्वामभिषिञ्चन्तु लोकसंस्थानहेतवः ॥ उमा मेना शची चैव धूम्रोर्णा निवृत्तिस्तथा ॥ २८ ॥ गौरी शिवा च सिद्धिश्च वला चैवाथ नह्वला ॥ असिक्नी च तथा ज्योत्स्ना द्या च देवी वनस्पतेः ॥ २९ ॥ एतास्त्वामभिषिञ्चन्तु देवपत्न्यः समागताः ॥ महाकल्पश्च कल्पश्च मन्वन्तरयुगानि च ॥ ३० ॥ संवत्सराणि सर्वाणि तथा चैवायनद्वयम् ॥ ऋतवश्च तथा मासाः पक्षा गद्यहनी तथा ॥ ३१ ॥ संध्याश्च तिथयश्चैव मुहूर्ताः करणानि च ॥ एते त्वामभिषिञ्चन्तु कालस्यावयवाः शुभाः ॥ ३२ ॥ आदित्यश्चन्द्रमा भौमो बुधो जीवः सितार्कजौ ॥ ग्रहास्त्वामभिषिञ्चन्तु राहुकेतू च पार्थिव ॥ ३३ ॥ स्वायम्भुवो मनुः पूर्वं मनुः स्वारोचिषस्तथा ॥ औत्तमस्तामसश्चैव रैवतश्चाक्षुषन्तथा ॥ ३४ ॥ वैवस्वतो यथाकणो दक्षा ब्रह्मसुतावुभौ ॥ धर्मपुत्रो रुद्रपुत्रो रौच्यो भौत्यश्च यो मनुः ॥ ३५ ॥ एते त्वामभिषिञ्चन्तु मनवश्च चतुर्दश ॥ विश्वभुक्च विपश्चिश्च सुशान्तिश्च शिखी विभुः ॥ ३६ ॥ मनोजवस्तथौजस्वी वह्निद्रुताशान्तिकौ ॥ वृषश्च ऋतधामा च दिवस्पाद्युचिरैव च ॥ ३७ ॥ एते त्वामभिषिञ्चन्तु देवनाथाश्चतुर्दश ॥ रैवतश्च कुमानश्च तथा वर्चान्विनायकः ॥ ३८ ॥ वीरभद्रश्च नन्दी च विश्वकर्मा मनोजवः ॥ एते त्वामभिषिञ्चन्तु सुमुख्याः समागताः ॥ ३९ ॥ आत्मा वायुर्मनोदक्षो ह्यापः प्राणस्तथैव
चाहविष्मांश्च गविष्ठश्च ऋतः सत्यश्च पार्थिव॥४०॥ अभिषिञ्चन्तु राजंस्त्वां देवा ह्याङ्गिरसा दश ॥ ऋतुर्दक्षो वसुस्सत्यः कालः कामो मुनिस्तथा॥
॥४१॥ कुर्वन्मनुजशार्दूल रोचमानस्तथैव च ॥ एते त्वामभिषिञ्चन्तु विश्वेदेवास्तथा दश॥४२॥ अङ्गाकरस्तथा सर्पो निर्ऋतिश्च तथा घसः ॥ अजैक
पाद हिर्बुध्न्यो धूमकेतुस्तथा द्विजः ॥४३॥ भरतश्च तथा मृत्युः कपालिरथ किङ्किणिः ॥ एकादशैते रुद्रास्त्वामभिषिञ्चन्तु पार्थिव ॥४४॥ भुवनो
भावनश्चैव सुजन्यः सुजनस्तथा ॥ ऋतुः सर्वेश्च मूर्धा च त्याज्यश्च स्तवस्तथाः ॥ ४५ ॥ प्रसवश्चाव्ययश्च दूषणश्च मनुजाधिप ॥ एते त्वाम
भिषिञ्चन्तु भृगवो नाम देवताः ॥ ४६ ॥ मनो मन्ता च प्राणश्च नरोऽपानश्च वीर्यवान् ॥ विनिर्भयो नयश्चैव हंसो नारायणस्तथा ॥ ४७ ॥
विभुश्चापि प्रभुश्चापि देवश्रेष्ठा जगद्धिताः ॥ एते त्वामभिषिञ्चन्तु साध्या द्वादश पार्थिव ॥ ४८ ॥ धाता मित्रोऽर्यमा पूषा शक्रोऽथ वरुणो भगः ॥
त्वष्टा विवस्वान्सविता विष्णुर्द्वादशमस्तथा ॥ ४९ ॥ एते त्वामभिषिञ्चन्तु कश्यपादितिसम्भवाः ॥ एकज्योतिश्च द्विज्योतिस्त्रिज्योतिर्वसुर्विस्तरेव चा
॥ ५० ॥ एकशुक्रो द्विशुक्रश्च त्रिशुक्रश्च महाबलः ॥ इन्द्राश्च गत्या दृश्यन्ते ततः प्रतिसकृत्तया ॥ ५१ ॥ मितश्च संमितश्चैव अमितश्च महा
बलः ॥ ऋतजित्सत्यजिच्चैव सुषेणः सत्यजित्तथा ॥ ५२ ॥ अतिमित्रो नमित्रश्च पुरुमित्रः पुरानितः ॥ ऋतश्च ऋतधाता च विधाता धार
णो ध्रुवः ॥ ५३ ॥ विधारणो महातेजा वासवस्य परः सखा ॥ ईदृक्षाश्चाप्यदृक्षाश्च एतादृग्गमिताशनः ॥ ५४ ॥ क्रतितः प्रसद्दक्षश्च सरम्भश्च महा
यशाः ॥ धातुरुग्रोऽवनिभिमो ह्यतिमुक्तः क्षिपः सहः ॥ ५५ ॥ द्युतिर्वपुर्नराणाञ्च्यो वासः कामो जयो विराट् ॥ एते त्वामभिषिञ्चन्तु मरुतस्ते समा
गताः ॥ ५६ ॥ देवा एकोनपञ्चाशन्महाबलपराक्रमाः ॥ चित्राङ्गदश्चित्ररथश्चित्रसेनश्च वीर्यवान् ॥ ५७ ॥ ऊर्णायुर्नग्नधश्चैव उग्रसेनश्च वीर्य
वान् ॥धृतराष्ट्रश्च गोपश्च सूर्यवर्चास्तथैव च ॥ ५८ ॥ युगपस्तृणपः कार्ष्णिर्नन्दिंश्चैवस्तथैव च ॥ कलिः शालिः शिरा राजन्पर्जन्यो नारदस्तथा
॥ ५९ ॥ वृषपर्वा च हंसश्च तथा चैव हहा हूहूः ॥ विश्वावसुस्तुम्बुरुश्च तथा च सुरुचिंश्च यः ॥ ६० ॥ एते त्वामभिषिञ्चन्तु गन्धर्वाः पृथिवी
पते ॥ आहुत्यस्ता भवन्त्यश्च वगैवत्यस्तथैव च ॥ ६१ ॥ आयुर्वत्यस्तथोजोश्व तथा वै कुरुवाः स्तवाः ॥ वह्न्यायुश्चामृतायुश्च भुवश्चैव रुचस्तथा
॥ ६२ ॥ भैरवः शोभयंन्त्यश्च दिव्या याश्चाप्सरोगणाः ॥ एते त्वामभिषिञ्चन्तु समागत्य महीपते ॥ ६३ ॥ अनवद्या सत्यकामा चानूना वरगुणा
प्रिया ॥ अनूपा सुभगा चैव सुकेशा च मनोवती ॥ ६४ ॥ मेनका सहजन्या च पर्णाशा पुञ्जिकस्थला ॥ कृतस्थला घृताची च विश्वाची पूर्व
चित्तिपि ॥ ६५ ॥ प्रम्लोचा चाप्यनुम्लोचा रंभा चैवोर्वशी तथा ॥ पञ्चचूडा सातुमती चित्रलेखा च पार्थिव ॥ ६६ ॥ मिश्रकेशी मरीचिश्च
वि० ध० । द्वि० खं० अ० २२ ॥१८३॥ । ॥१८४॥
विद्युत्पर्णा तिलोत्तमा ॥ अद्रिका लक्ष्मणा क्षेपा असिता रुचिका तथा ॥ ६७॥ सुहेमा चाथ हेमा च शाद्वली च वपुस्तथा ॥ सुव्रता च सुबाहुश्च सुगन्धा सुवपुस्तथा ॥ ६८॥ पुण्डरीका सुदाना चासुदाना सुवसा तथा ॥ हेमा शारद्वती चैव सुवृता कमलालया ॥६९॥ सुकुचों हंसपादी च वारुणी रतिलालसा ॥ एतास्त्वामभिषिञ्चन्तु राजनप्रसरः शुभाः ॥ ७०॥ प्रह्लादश्च महातेजास्तथा राजनविरोचनः ॥ बलिवर्णोपनामत्थान्ये च दितिसुताः समागताः ॥ ७१॥ अभिषिञ्चन्तु दैत्यास्त्वां दिव्यैर्नाद्यैरथाम्भसा स्वयम् ॥ विप्रचित्तिर्मुखैः सर्वै दानवास्त्वां समागताः ॥ ७२ ॥ अभिषिञ्चन्तु राजेन्द्र राजन्द्र राजशार्वण सम्बरः ॥ हेतिश्च प्रहेतिश्च माली शङ्कस्तथैव च ॥ ७३ ॥ सुकेशौ पौरुषेयश्च यज्ञा पुरुषाधमः ॥ विद्युत्स्फूर्जस्तथा व्याधो वधश्च स्मनस्तया ॥ ७४ ॥ एते त्वामभिषिञ्चन्तु समागम्याथ राक्षसाः ॥ सिद्धार्थो मणिभद्रश्च सुमनो नन्दनस्तथा ॥ ७५ ॥ काण्डभिः पञ्चमश्चैव मणिमाल्यथास्तित था ॥ सर्वाभूतः शंखश्च पिङ्गलाक्षस्तदस्तथा ॥ ७६ ॥ यशा मन्दरशोभा च पञ्चचन्द्रप्रभङ्गराः ॥ मेघवर्णः सुभद्रश्च प्रद्योतश्च महाद्यसः ॥ ७७॥ द्युतिमान्केतुमांश्चैव मौलिमांश्च सुदर्शनः ॥ श्वेतश्च विपुलश्चैव पुष्पवन्तो जयावहः ॥ ७८ ॥ पद्मवर्णो वलाक्षश्च कुमुदश्च वलाहकः ॥ पद्मनाभः सुगन्धश्च प्रवरो विजयः कृतिः ॥ ७९ ॥ पूर्णमासो हिरण्याक्षः शतजिह्वश्च वीर्यवान् ॥ एते त्वामभिषिञ्चन्तु राजन्यक्षन्द्र सत्तमाः ॥ ८० ॥ शंखपद्मस्तु राजेन्द्र मकरः कच्छपस्तथा ॥ एते त्वामभिषिञ्चन्तु निधयस्तु समागताः ॥ ८१ ॥ पलगल्लाक्षैवं वक्राक्ष ये च मूर्ची मुखा नृप ॥ दुःखपूर्णा विषादाश्च ज्वलनाङ्गारकास्तथा ॥ ८२ ॥ कुष्मपाताः प्रतुण्डाश्च तपवीरा उलूबलाः ॥ अकर्णाश्च कृपण्डाश्च तथा ये पात्र पाणयः ॥ ८३ ॥ पांसवश्च वितुण्डाश्च निपुणाः स्कन्दनास्तथा ॥ एते त्वामभिषिञ्चन्तु पिशाचानाञ्च जातयः ॥ ८४ ॥ ब्रह्मत्वं स्थिता दान्ताः सर्वज्ञाः सर्वदर्शिनः ॥ नानाप्रकारवदना नानाबाहुशिरोधराः ॥८५॥ चतुष्पथपुराह्लालशून्यालयनिकेतनाः ॥ मधूत्वं भवेर्देवे ये गता मनुजेश्वराः ॥ ८६॥ ते त्वामभिषिञ्चन्तु भूता भूतपतेः स्वयम् ॥ महाकालं पुरस्कृत्य नरसिंहं च मातरः ॥ ८७ ॥ सर्वास्त्वामभिषिञ्चन्तु राजराज्य नराधिप ॥ गृहः स्कन्दो विशालश्च नैगमेयस्तथैव च ॥ ८८ ॥ अभिषिञ्चन्तु राजेस्त्वां सर्वं स्कन्दग्रहाः शुभाः ॥ डाकिन्यो याश्च योगिन्यः खेचरीभूचरीश्च याः ॥ ८९ ॥ सर्वास्त्वामभिषिञ्चन्तु समेत्य मनुजेश्वर ॥ गरुडश्चारुणश्चैव आरुणिथ महायशाः ॥ ९० ॥ संपाती विनतश्चैव विष्णुगन्धः कुमारकः ॥ एते त्वामभिषिञ्चन्तु सुपर्णाः पृथिवीपते ॥ ९१ ॥ अनन्तश्च महानागः शेषो वासुकिस्तक्षको ॥ सुपर्णोश्च कुम्भश्च
१ ‘पुष्पदकः’ इति ख० । २ ‘फगालोक्षैव’ इति ख० ।
वामनश्चाञ्जनस्तथा ॥ ९२ ॥ ऐरावतो महानागः कम्बलाश्वतरावुभौ ॥ ऐलमन्त्रश्च शंखश्च कर्कोटकधनंजयौ ॥ ९३ ॥ महाकर्णोमहानीलो धृतराष्ट्रबलाहकौ ॥ कुमारः पुष्पद्रुन्तश्च सुमुखो दुर्मुखस्तथा ॥ ९४ ॥ सूचीमुखो दधिमुखः कालियः शालिपिण्डकः ॥ बिल्वपादः पाण्डुरको नागश्चापूरणस्तथा ॥ ९५॥ कपिलाश्चाम्बरीषश्च कुमारश्चाथ कश्यपः ॥ प्रह्लादः पुष्पदन्तश्च गन्धर्व्वश्च मनस्विकः ॥ ९६ ॥ नहुषः स्वरोमा च शंखपालस्तथैव च ॥ पद्मश्च कुलिकश्चैव पाणिरित्येवमादयः ॥ ९७ ॥ नागास्त्वामभिषिञ्चन्तु राजराज्वेन पार्थिव ॥ कुसुमैरगणौ पद्मः पुष्पदन्तोऽथ वामनः ॥ ९८ ॥ सुप्रतीकोऽञ्जनो नीलः पान्तु त्वां सर्वतः सदा ॥ चक्रं त्रिशूलं वज्रञ्च नन्दकोऽक्षाणि चाप्यथ ॥ ९९ ॥ पैतामहस्तथा हंसो वृषभः शङ्करस्य च ॥ दुर्गासिंहश्च पान्तु त्वां यमस्य महिषस्तथा ॥ १०० ॥ उच्चैःश्रवाश्चाश्वपतिस्तथा धन्वन्तरिर्नृप ॥ कौस्तुभः शंकरोज्ञश्च पान्तु त्वां सर्वतः सदा ॥ १०१॥ सर्वऽभिषेकं दत्त्वा ते दिशन्तु विजयं ध्रुवम् ॥ धर्मश्च व्यवसायश्च सत्यो दानं तपस्तथा ॥ १०२ ॥ यमो यज्ञस्तथा वायुर्ब्रह्मचर्यं दमः शमः ॥ एते त्वामभिषिञ्चन्तु चित्रगुप्तश्च पार्थिव ॥ १०३ ॥ दण्डश्च पिङ्गलश्चैव मृत्युःकालउभा तथा ॥ बालखिल्यास्तथा सर्वे भवन्तु विजयाय ते ॥ १०४॥ दिग्घनवश्चतस्रस्त्वां सुराग्रिमभ्र तथा नृप ॥ अभिषिञ्चन्तु सर्वाभिर्भागिभिः सार्धं नरेश्वर ॥ १०५ ॥ वेदव्यासश्च वाल्मीकिः कमठोऽथ पराशरः ॥ देवलः पर्वतश्चैव दुर्वासाश्च तथा मुनिः ॥ १०६ ॥ याज्ञवल्क्यश्च जाबालिः जमदग्निः शुचिश्रवाः ॥ विश्वामित्रः स्थूलशिराश्च्यवनोऽत्रिर्णिवांदुरथः ॥ १०७ ॥ एकतश्च द्वितश्चैव त्रितो गौतमगालवौ ॥ शाण्डिल्यश्च भरद्वाजो मौद्गल्यो वेदवाहनः ॥ १०८॥ बृहदश्वः कुटिशठो जटाजालवृहटोदरः ॥ यवक्रोतोऽथैरवेश्च आत्मवानथ जैमिनिः ॥१०९॥ ऋषिः शाङ्खरवश्चैव तथागस्त्यो महातपाः ॥ उन्मुचुर्मुचुवश्चैव दृढबाहुर्महोदयः ॥ ११० ॥ कात्यायनश्च कण्वश्च वल्वकाम्बोन्हनन्दनः ॥ एते त्वामभिषिञ्चन्तु ऋषयः पार्थिवोत्तम ॥ १११ ॥ पृथुर्दिलिपो भरतो दुष्यन्तः शत्रुजिद्रली ॥ मनुः ककुत्स्थश्चान्धनेना युवनाश्वो जयद्रथः ॥ ११२ ॥ मान्धाता मुचुकुन्दश्च तथा राजा पुरूरवाः ॥ आयुश्च नहुषश्चैव ययातिश्चपराजितः ॥ ११३ ॥ इक्ष्वाकुश्च यदुश्चैव पुनर्भूरिश्चवास्तथा ॥ अम्बरीषश्च नाभागो बृहद्रथो महारतुः ॥ ११४ ॥ प्रद्युम्नश्चाथ सुद्युम्नो भूरिद्युम्नश्च सृञ्जयः ॥ एते चान्ये च राजानस्तव राजन्दिवाङ्गताः ॥ ११५ ॥ समायान्त्वभिषेकाय विजयाय तथा श्रिये ॥ पर्जन्याद्यास्तथा सर्व वास्तुदेवास्समासतः ॥ ११६ ॥ दुग्धाश्चौषधयो रत्नबीजानि विविधानि च ॥ सर्वै त्वामभिषिञ्चन्तु राजन्राज्येन सत्वराः ॥ ११७ ॥ पुरुषश्चाम्रयात्मा महाभूतानि यानि च ॥ पृथिवीवायुराकाशमापो ज्योतिस्तथैव च ॥ ११८ ॥ मनोबुद्धिस्तथै
ब्री० ध० द्वि० खं०
॥१८४॥ अ० २२
वात्मा अध्यक्षश्च महीपते ॥ एते त्वामभिषिञ्चन्तु समेता वसुधाधिप ॥ ११९ ॥ रक्तभौमः शिलाभौमः पातालो नीलमृत्तिकः ॥
पीतो रक्तक्षितिश्चैव श्वेतभौमस्तथैव च ॥ १२० ॥ एते त्वामभिषिञ्चन्तु विजयाय महीपते ॥ भूर्लोकश्च भुवर्लोकः स्वर्लो-
कोऽथ महज्जनः ॥ १२१ ॥ तपः सत्यञ्च राजेन्द्र विजयाय भवन्तु ते ॥ जम्बूशाककुशक्रोञ्चाः शाल्मलिर्द्वीप एव च ॥ १२२ ॥ गोमेधः
पुष्करश्चैव स्वसाम्यं प्रदिशन्तु ते ॥ उत्तराः कुरवः पुण्या रम्या हैमवतस्तथा ॥ १२३ ॥ भद्राश्वः केतुमालञ्च वर्षञ्चैव इलावृतः ॥ हरिवर्षः
किंपुरुषो वर्षं भारतसंज्ञिकः ॥ १२४ ॥ एते त्वामभिषिञ्चन्तु समेत्य वसुधाधिप ॥ इन्द्रद्वीपः कशेरुश्च ताम्रपर्णो गभस्तिमान् ॥ १२५ ॥
नागद्वीपस्तथा सौम्यो गान्धर्वो वारुणस्तथा ॥ अयं चरुसमस्तेषां स्वसाम्यं प्रदिशन्तु ते ॥ १२६ ॥ हिमवान्हेमकूटश्च निषधो
नीलपर्वतः ॥ श्वेतश्च शृङ्गवान्मेरुर्मल्यवान्गन्धमादनः ॥ १२७ ॥ महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवांस्तथा ॥ विन्ध्यश्च पारियात्रश्च सर्वे एव
महीधराः ॥ १२८ ॥ समागम्याभिषिञ्चन्तु त्वामद्य वसुधाधिप ! ॥ ऋग्वेदोऽथ यजुर्वेदः सामवेदस्तथैव च ॥ १२९ ॥ अथर्ववेदो वेदान्तमद्यम-
भिषिञ्चन्तु पार्थिव ॥ इतिहासो धनुर्वेदो गन्धर्वश्चायुसंज्ञितः ॥ १३० ॥ वेदोपवेदाश्च तथा विजयाय भवन्तु ते ॥ शिक्षा कल्पो व्याकरणं
निरुक्तं ज्योतिषाङ्कितः ॥ १३१ ॥ छन्दोविचितिरित्यानि विजयं प्रदिशन्तु ते ॥ अङ्गानि वेदशस्त्राणां मीमांसा न्यायविस्तरः ॥ १३२ ॥
धर्मशास्त्रं पुराणञ्च विद्या एताश्चतुर्दश ॥ सांख्यंयोगः पञ्चरात्रं वेदाः पाशुपतं तथा ॥ १३३ ॥ कृतान्तपंचकं ह्येतच्छास्त्राणि विविधानि च ॥
गायत्री पापशमनी दुर्गा देवी महाशिवा ॥ १३४ ॥ गन्धर्वी च तथा विद्या विजयं प्रदिशन्तु ते ॥ देवदानवगन्धर्वयक्षराक्षसपन्नगाः ॥ १३५ ॥
ऋषयो मनवो गावो देवमातर एव च ॥ देवपत्न्यो द्रुमा नागाः दैत्याश्चाप्सरसाङ्गणाः ॥ १३६ ॥ शस्त्राणि सर्वशास्त्राणि गजाश्वा वाहनानि च ॥
ओषधानि च रत्नानि कालस्यावयवास्तथा ॥१३७॥ स्थानानि च समस्तानि पुण्यान्यायतनानि च ॥ जीमूतानि च सर्वाणि तडित्काश्च न-
तथा ॥ १३८ ॥ उक्तानि चाऽप्यनुक्तानि विजयाय भवन्तु ते ॥ लवणः क्षीरतोयश्च घृतमण्डोदकस्तथा ॥ १३९ ॥ दधिमण्डोदकश्चैव सुराऽब्धिश्च
नराधिप ॥ तथैवेक्षुरसोदश्च तथा स्वादूदकश्च यः ॥ १४० ॥ गभीराश्च स्वतोयेस्त्वामभिषिञ्चन्तु पार्थिव ॥ चन्द्रभागश्च गङ्गा चैव स्व-
तोयेन पार्थिव ॥ १४१ ॥ समागम्याभिषिञ्चन्तु विजयं प्रदिशन्तु ते ॥ पुष्करञ्च प्रयागञ्च प्रभासो नैमिषस्तथा ॥ १४२ ॥ तथा ब्रह्मसरः पुण्यं
गयाशीर्षं च पार्थिव ॥ कालोदको नन्दिकुण्डः तथैवोत्पलमानसः ॥ १४३ ॥ स्वर्गमार्गप्रदश्चैव तथा पञ्चनदश्च यः ॥ भृगुतीर्थं
॥१८४॥
चौजसश्च तथैवामरकण्टकः ॥ १४४ ॥ आश्रमः कालिकायाश्च तृणबिन्दोस्तथाश्रमः ॥ गोपत्तीर्थं चापत्तीर्थं विमलः स्वर्ग एव च ॥ १४५ ॥ जम्बूमार्गश्च राजेन्द्र पुण्यस्तण्डुलिकाश्रमः ॥ कपिलस्य तथा तीर्थं तीर्थं वटिकषण्डिके ॥ १४६ ॥ महासरस्तथागस्त्यः कुमारी तीर्थं एव च ॥ गङ्गातीरः कुशावर्ती बिल्वको नीलपर्वतः ॥ १४७ ॥ वराहपर्वतश्चैव तीर्थः कनखलस्तथा ॥ स्वर्गन्था वशकुम्भा च तथा शाक- म्भरी च या ॥ १४८ ॥ भृगुतुङ्गः सकुब्जाम्रः कपिलस्य तथाश्रमम् ॥ १४९ ॥ चमोसोद्भेदतः पुण्यस्तथा विनाशनः शुभः ॥ अजतुङ्गश्च सोमश्च अजोगन्यश्च पार्थिव ॥ कालञ्जरश्च केदारो रुद्रकोटिस्तथैव च ॥ १५० ॥ महालयश्च राजेन्द्र वदनाश्रम एव च ॥ नन्दा च सूर्यतीर्थं च सोमतीर्थं शतक्रतोः ॥ १५१ ॥ अश्विनोर्वरुणस्यापि वायोर्वैश्ववणस्य च ॥ ब्रह्मणश्चैव शर्वस्य यमस्य च्यवनस्य च ॥ १५२ ॥ विरूपाक्षस्य धर्मस्य तथा चाप्सरसां नृप ॥ ऋषीणां च वसूनां च साध्यानां मरुतां तथा ॥ १५३ ॥ आदित्यानां च रुद्राणां तथा चाङ्गिरसां नृप ॥ विश्वे- देवभृगूणां च गन्धर्वाणां च मानद ॥ १५४ ॥ पुक्षप्रस्रवणश्चैव सुषेणश्च नराधिप ॥ शालियामसरश्चैव वराहो वामनस्तथा ॥ १५५ ॥ कामं श्रमत्रिकूटश्च चित्रकूटस्तथैव च ॥ सतर्चः क्रतुसारश्च तथा विष्णुपदं सरः ॥ १५६ ॥ कपिलस्य तथा तीर्थं वासुकैस्तीर्थमेव च ॥ सिन्धूत्तमं तपो दानं तथा शूर्पाकरः शुभः ॥ १५७ ॥ पौण्डरीकश्च राजेन्द्र गङ्गासागरसङ्गमः ॥ सिन्धुसागरयोश्चैव सङ्गमः सुमनोहरः ॥ १५८ ॥ तथा कुन्दावसुन्ध्वश्च मानसं च महत्सरः ॥ तथा बिन्दुसरः पुण्यं सश्रच्छोदकं तथा ॥ १५९ ॥ धर्मारण्यं फलुतीर्थं सविमुक्तं तथैव च ॥ लौहित्यश्च तथा पुण्यो बदरीपावनः शिवः ॥ १६० ॥ तीर्थं सतप्तर्षीणां च वशिष्ठतीर्थं च पार्थिव ॥ वस्त्रापथस्ततो मेषशृङ्गालेशश्च पार्थिव ॥ ॥ १६१॥ पुष्पव्यासस्तसकामोशस्तीर्थो हंसपदस्तथा ॥ अश्वशीर्षः स कृष्णाख्यो मणिभद्रस्तथैव च ॥ १६२ ॥ देविका सिन्धुमार्गश्च स्वर्णबिन्दुस्त- थैव च ॥ आहल्यकस्तथा तीर्थस्तीर्थश्चैरावतस्तथा ॥ १६३॥एरावतिसुमुद्वेद्रे तीर्थं भोगयस्तस्तथा ॥ करवीराश्रमश्चैव नागमोदानिकस्तथा ॥ १६४॥ पापमोचनिकश्चैव ऋणमोचनिकस्तथा ॥ उद्धेजनस्तथा पुण्यः पुण्यश्च हरिशेधरः ॥ १६५ ॥ देवब्रह्मसरः पुण्यं सर्पिदर्वी च पार्थिव ॥ एते चान्ये च बहवः पुण्यसङ्कीर्तिताः शुभाः ॥ १६६ ॥ तोयेस्तत्वामभिषिञ्चन्तु सर्वपातकनाशनैः ॥ गङ्गा महानदी पुण्या ह्लादिनी बाहिनी तथा ॥ ॥ १६७ ॥ पावनी च तथा सीता चक्षुः सिन्धुश्च नर्मदा ॥ सुप्रभा कातराक्षी च शिथिला मानसी हृदा ॥ १६८ ॥ सरस्वत्योचनादा च सुवे- र्णाविमलोदका ॥ सिप्रा शोणः शतद्रुश्च सरयूर्गण्डकी तथा ॥ १६९ ॥ अच्छोदा च विपाशा च चन्द्रभागा इरावती ॥ वितस्ता देविका रम्भा
वि० ध० ॥१८५॥ द्वि० खं० अ० २२
सीता दृषद्वदा शिवा ॥ १७० ॥ तथैवक्षुमती पुण्या कौशिकी यमुना तथा ॥ गोमती धूतपापा च बाहुदा च दृषद्वती ॥ १७१ ॥ निश्चीरा च तृतीया च लौहित्यश्च महानदः ॥ वेदस्मृतिर्वेदसिन्ती वेत्रवञ्जी वरदा तथा ॥ १७२ ॥ वर्णा मा चन्दना चैव बहुनागा कुहूद्वती ॥ पारा चर्मण्वती रूपा विदिशा वेणुमत्यपि ॥ १७३ ॥ अवन्ती च तथा कुन्ती सुरसा च पयोष्णिी ॥ मन्दाकिनी दशार्णा च चित्रकूटा दृषद्वती ॥ १७४ ॥ तमसा पिप्पला सेनी करमोदा पिशाचिका ॥ चित्रोत्पला चित्रवर्णा मंजुला बालुकावती ॥ १७५ ॥ शुक्तिमती सिन्धौ गन्ध्वा मङ्गुणातप्यकान्तः ॥ तापी पयोषणी निर्बन्ध्या सिता च निषधावती ॥ १७६ ॥ दया वैतरणी भीमा चर्मा रामा तथा कुहूः ॥ तोया चैव महागौरी दुर्गा मतृशिला तथा ॥ १७७ ॥ गोदावरी भीमरथी कृष्णा वेणा च वंजुला ॥ तुङ्गभद्रा सुप्रयोगा वाह्या कावेरयेव च ॥ १७८ ॥ कृतमाला ताम्रपर्णा पुष्पजा ह्युत्पलावती ॥ त्रिसमा ऋषिकुल्या च इक्षुका त्रिदिवालया ॥ १७९ ॥ लाङ्गलिनी वंशधरा सुकुमारा कुलावती ॥ ऋषिका कारिवेगा च मन्दगा मन्दवाहिनी ॥ १८० ॥ कृपा दुर्वा दया व्योमा दृगेष्णा कोलजा हिनी ॥ कम्पना च विरशल्या च करतोयांशुवाहिनी ॥ १८१ ॥ ताम्रारुणा वेत्रवती गोमती चाथ नद्यपि ॥ अङ्गिणी क्लिन्ना चैव सुपक्रणा हिरण्वती ॥ १८२ ॥ आपगा चालका भासी सन्ध्या च मडवा नदी ॥ नन्दा चारुकरेतन्द्रा च जुङ्गा च वसुवाहिनी ॥ १८३ ॥ एताश्चान्याश्च राजेन्द्र नद्यस्त्वो विमलोदकाः ॥ सर्वपापप्रशमनास्सर्वलोकस्य मातरः ॥ स्वतोयपूर्णैः कलशैरभिषिञ्चन्तु पार्थिव ॥ १८४ ॥ एतेष्वर्थामिषेतुप राजराज्ये दत्ताभिषेकः पृथिवीं समग्राम् ॥ ससागरां भुंक्त्व चिरं च जीव धर्मं च ते बुद्धिरतीव चास्तु ॥ १८५॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० भार्गवरामं प्रति पुष्करव्यास्यानोऽभिषेकमन्त्रो नाम द्वाविंशतितमोऽध्यायः॥२२॥
पुष्कर उवाच ॥ मन्त्रा ये कीर्तिता राम मयाभिषेकमन्त्र भार्गव ॥ तेषां संकीर्तनं धन्यं सर्वपापप्रणाशनम् ॥ १॥ एतेषां कल्पसृत्याय यः कुर्यात्कीर्तनं नरः ॥ सर्वपापविनिर्मुक्तः स्वर्गलोकमवाप्नुयात्॥२॥ तिर्यग्योनिं न गच्छेत्तु नरकं संकराणि च ॥ न च दुःखं न च भयं मरणं न च बुद्ध्यति ॥ ३ ॥ एतेषां न नमस्कारं यः कुर्यान्नियतो नरः ॥ न तस्य तिष्ठते पापमबिन्दुरिव पुष्करे ॥ ४॥ एतेषां तर्पणं कृत्वा स्नातः प्रयतमानसः ॥ महापातकयुक्तोऽपि त्वेववाहिर्विमुच्यते ॥ ५ ॥ इत्येषां पुष्पदनेन महतीं श्रियमश्नुते ॥ एतेषां चार्च्यदानेन पूज्यो भवति मानवः ॥ ६ ॥ एतेषां दीपदानेन भ्राजन्तं चन्द्रवद्दिवि ॥ एतेषामाहुतिं दत्त्वा कामानामोति पुष्कलान् ॥ ७॥ नैवेद्यं च बलिं दत्त्वा भोगानभ्रामोत्यनुत्तमान् ॥ एतामुद्दिश्य विप्रेषु दद्या मानव भोजनम् ॥ ८ ॥
॥१८६॥
संतर्प्य दक्षिणाभिश्च त्रिदिवं प्राप्नुयाच्चिरम् ॥ अभिषेकदिने राज्ञां पुष्पस्नाने तथैव च ॥ ९ ॥ तथा संवत्सराद्गन्धे सर्वे पूज्या हितैषिणा ॥ यानि तीर्थानि चोक्तानि सरितश्च समासतः ॥ १० ॥ तेषां गमनेन पूज्यन्ते येऽपि पातकिनो जनाः ॥ स्नानं महाफलं तेषां तपः श्राद्धं क्रियास्तथा ॥ ११ ॥ दानं बहुफलं प्रोक्तं दर्शनं पापनाशनम् ॥ कीर्तनं भार्गवश्रेष्ठ न मे चास्ति विचपणा ॥ १२ ॥ तीर्थेष्वेतेषु सुपूण्यान स्नाता नरा यान्ति नरेन्द्र सद्यः॥ तीर्थानि गम्यान्यि ततः प्रयत्नात्पुण्याश्च सर्वास्समितिश्च गम ॥ १३ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे तीर्थफलवर्णनो नाम त्रयोविंशतितमोऽध्यायः ॥ २३ ॥ ॥ गम उवाच ॥ ॥ गजोऽभिषिक्तामन्त्रस्य किन्नु कृत्यतमं भवेत् ॥ एतन्मे सर्वमाचक्ष्व सर्ववेत्ति यतो भवान् ॥ १ ॥ ॥ पुष्कर उवाच ॥ अभिषेकार्द्रशिरा राजा राजीवलोचन ॥ सहायवर्णनं कार्यं तत्र राज्यं प्रतिष्ठितम् ॥ २ ॥ यदल्पतरं कर्म तदेकेन दुष्करम् ॥ पुरुषेणासहायेन किन्नु राज्यं महत्पदम् ॥ ३ ॥ तस्मात्सहायान्रयेत्कुलीनान्नृपतिः स्वयम् ॥ शूराञ्छुतमजातियान्बल्युक्ताञ्छूतिनान्वितान् ॥ ४ ॥ रूपसत्त्वगुणोपेतान्र्संयुक्तांश्च मया युतान् ॥ क्लेशक्षमान्महोत्साहान्धर्मज्ञांश्च प्रियंवदान् ॥ ५ ॥ हितोपदेशिकान्प्राज्ञांस्वामिभक्त्यान्विशोधिनः ॥ एवं विधान्सहायांस्तु शुभ कर्मणि योजयेत् ॥ ६ ॥ गुणहीनानपि तथा विज्ञाय नृपतिः स्वयम् ॥ कर्मस्वेव नियुञ्जीत यथायोग्येषु भार्गव ॥ ७ ॥ कुलीनाः शीलसंपन्ना धनुर्वेदविशारदाः ॥ हस्तिशिक्षाश्वशिक्षासु कुशलाश्लक्ष्णभाषिणः ॥ ८ ॥ निमित्ते शकुनज्ञाने वित्तेविद्यचिकित्सके ॥ पुरान्तर्विज्ञाने पाण्ड्य प्येन विनिश्चिताः ॥ ९ ॥ कृतज्ञाः कर्मणां शूरास्तथा क्लेशसहा भृगुः ॥ व्युत्पन्नतत्त्वविद्वांसः फलसारविशेषवित् ॥ १० ॥ राजां सेनापतिः कार्यों ब्राह्मणः क्षत्रियोऽथवा ॥ प्रांशुः सुरूपो दक्षश्च प्रियवादी न चोद्धतः ॥ ११ ॥ चित्तमाज्ञाय सर्वेषां प्रतीहारो विधीयते ॥ यथोक्तवादी धूर्तः स्याद्देशभाषाविशारदः ॥ १२ ॥ शाब्दः क्लेशसहो वाग्मी देशकालविभाषिता ॥ विज्ञाय देशं कालं वा हितं यत्स्या न्महीक्षितः ॥ १३ ॥ वक्तापि तस्यः यः काले स दूतो नृपतेर्भवेत् ॥ प्रांशुवो व्यायताः शूरा दृढभक्ता निराकुलाः ॥ १४ ॥ राज्ञा तु रक्षिणः कार्यास्तदा क्लेशसहा हिताः ॥ अहार्याश्चानृशंसाश्च दृढभक्तोश्च पार्थिवे ॥ १५ ॥ ताम्बूलधारी भवति नारी चाप्यथ तद्गुणा ॥ पाड्गुण्यविधि तत्त्वज्ञो देशभाषाविशारदः ॥ १६ ॥ सन्धिविग्रहकः कार्यो राजा नयविशारदः ॥ आयव्ययज्ञो लेखज्ञो देशोत्पत्तिविशारदः ॥ १७ ॥ कृतकृतज्ञो भृत्यानां ज्ञेयः स्यादक्षदर्शिता ॥ सुरूपस्तरुणः शूरो दृढभक्तः कुलोचितः ॥ १८ ॥ शूरः क्लेशसहश्चैव खड्गधारी प्रकीर्तितः ॥ १९ ॥
वि० ध० ॥१८६॥
द्वि० खं० अ० २४
बहुश्रुतश्च गजाश्वरथकोविदः ॥ १९ ॥ कोषाध्यक्षो भवेत्प्राज्ञः सदा क्लेशसहश्च यः ॥ निमित्तशकुनज्ञानहयशिक्षाविशारदः ॥ २० ॥ हयायुर्वेदतत्त्वज्ञो भूमिभागविशेषवित् ॥ बलवांल्लोभहीनो वा स्थिरबुद्धिर्विशारदः ॥ २१ ॥ शूरश्च कृतविद्यश्च सारथिः परिकीर्तितः ॥ अनाहार्यः शुचिर्दक्षः चिकित्सकस्ततोरतः ॥ २२ ॥ सूपशास्त्रविधानज्ञः सदाध्यक्षः प्रशस्यते ॥ सूपशास्त्रविधानज्ञाः परा मेध्याः कुलोद्गताः ॥ २३ ॥ सर्वे महानसे कार्या नीचकेशनखा जनाः ॥ समः शत्रौ च मित्रे च धर्मशास्त्रविशारदः ॥ २४ ॥ विप्रमुख्यः कुलीनश्च धर्माधिकरणो भवेत् ॥ कार्यास्तथाविधास्तत्र द्विजमुख्याः सभासदः ॥ २५ ॥ सर्वदेशाक्षराभिज्ञः सर्वशास्त्रविशारदः ॥ लेखकाः कथिता राम सर्वाधिकरणेषु वै ॥ २६ ॥ शोधितोक्तान्सम्पूर्णान्सम- द्रोणीगतान्समान् ॥ अक्षरान्ल्लिखेद्यस्तु लेखकः स वरः स्मृतः ॥ २७ ॥ उपायवाक्यकुशलः सर्वशास्त्रविशारदः ॥ बहुवक्ता चाल्पेन लेखकः स्याद्गुणोत्तम ॥ २८ ॥ पुरुषान्तरतत्त्वज्ञाः प्रांशवश्चाप्यलोलुपाः ॥ धर्माधिकरणे कार्या जनाह्वानकरा नराः ॥ २९ ॥ एवंविधास्तथा कार्या राज्ञो दौवारिका जनाः ॥ लोहवस्त्रादिधातूनां रत्नानां च विभागवित् ॥ ३० ॥ विज्ञाता फल्गुसाराणां त्वनाहार्यः शुचिस्सदा ॥ निपुणश्चा- प्रमत्तश्च धनाध्यक्षः प्रकीर्तितः ॥ ३१ ॥ आयद्वारेषु सर्वेषु धनाध्यक्षसमा नराः ॥ व्ययद्वारेषु सर्वेषु कर्तव्याः पृथिवीक्षिता ॥ ३२ ॥ पुरं पारं गतो यः स्याद्दृष्टेऽङ्गे चिकित्सिते ॥ अनाहार्यस्स वैद्यः स्याद्दात्मा च कुलोद्गतः ॥ ३३ ॥ प्राणाचार्यस्स विज्ञेयो वचनं तस्य भूभुजा ॥ राम स्नेहात्सदा कार्यं यथा कार्यं पृथग्जनैः ॥ ३४ ॥ हस्तिशिक्षाविधानज्ञो वनजातिविशारदः ॥ क्लेशक्षमस्तथा राज्ञो गजाध्यक्षः प्रशस्यते ॥ ३५ ॥ एतैरेव गुणैर्युक्तो स्वाधीनश्च विशाम्पते ॥ गजारोहो नरेन्द्रस्य सर्वकर्मसु शस्यते ॥ ३६ ॥ हयशिक्षाविधानज्ञ- स्तांश्चिकित्सितपारगः ॥ अश्वाध्यक्षो महीभर्तुः स्वातन्त्रश्च प्रशस्यते ॥ ३७ ॥ अनाहार्यश्च शूरश्च तथा प्राज्ञः कुलोद्गतः ॥ दुर्गाध्यक्षः स्मृतो राम उद्युक्तः सर्वकर्मसु ॥ ३८ ॥ वास्तुविद्याविधानज्ञो लघुहस्तो जितश्रमः ॥ दीर्घदर्शी च शूरश्च स्थपतिः परिकीर्तितः ॥ ३९ ॥ यन्त्रमुक्ते पाणिमुक्ते अमुक्ते मुक्तधारिते ॥ अस्त्राचार्या नियुङ्के च कुशलञ्च तथेष्यते ॥ ४० ॥ पञ्चाशदधिका नार्यः पुरुषाः सप्ततिस्तथा ॥ अन्तःपुरचराः कार्या राज्ञा सर्वेषु कर्मसु ॥ ४१ ॥ स्थविरा जातितत्त्वज्ञाः सततं प्रतिजाग्रतः ॥ गवां स्याद्गवाश्वागारे दक्षः कर्मसु चोद्यतः ॥ ४२ ॥ कर्माण्याख्यायमानानि राज्ञां शृणुकुलोद्वह ॥ उत्तमाधममध्यानि बुद्ध्या कर्माणि पार्थिव ॥ ४३ ॥ उत्तमाधममध्यांस्तु पुरुषांन्विनियोजयेत् ॥ न कर्मणि विपर्यासद्राज्ञा नाशमवाप्नुयात् ॥ ४४ ॥ नृपकृत्येषु भक्तिः श्रुतं शौर्यं बलं कुलम् ॥
॥१८६॥