विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 402, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० ॥१७७॥ द्वि० सं० अ० ११
भार्गव ॥ ७ ॥ कुदन्ताश्च तथा वर्ज्या वामकूट्याश्च यत्नतः ॥ अङ्गुल्यशूश्च कूटश्च शठश्च विकटश्च ये ॥ ८ ॥ राम उवाच ॥ वामनाद्याश्च ये नागाः प्रोक्ता निन्दितलक्षणाः ॥ तेषां तु श्रोतुमिच्छामि लक्षणं वरुणात्मज ॥ ९ ॥ पुष्कर उवाच ॥ आयामं न संपूर्णं योनिर्ह्रस्वा भवेद्गलः ॥ वामनस्तु समाख्यातो मन्कुणो दन्तवर्जितः ॥ १० ॥ दशां चतुर्थी संप्राप्य वर्धते यस्य न द्विजौ ॥ स्थूलघानावयवौ स्यातां स मूढख्यो गजाधमः ॥ ११ ॥ अपाकलो विशालेन दन्तेनैकेन वारणः ॥ संक्षिप्तवक्षोजघनः पृथुमध्यसमुन्नतः ॥ १२ ॥ प्रमाणहीनवस्त्राभिः स कुब्जो वारणोधमः ॥ अनुव्रतांसः संहन्तः कुदन्तः स्यान्नतो बहिः ॥ १३ ॥ वामदन्तान्नतो नागो वामकूट्यश्च कथ्यते ॥ दन्तौ वक्रौ त्र्यंशा यस्य सोऽङ्गुल्यशुकथ्यितो गजः ॥ १४ ॥ एकदन्ततया नागः कूट इत्यभिधीयते ॥ पादौ पादः संनिकृष्टः स्यादाक्रम्य नागस्य गच्छतः ॥ १५ ॥ स शठोऽथवि युद्धे च लक्षणज्ञैर्न पूजितः ॥ अरत्न्यभ्यधिकं यस्य विस्तरेण स्तनान्तरम् ॥ १६ ॥ विकटः स विनिर्दिष्टो दुर्गतिर्निन्दितो गजः ॥ राम उवाच ॥ श्रोतुमिच्छामि धर्मज्ञ कुञ्जरं सप्तसुस्थितम् ॥ १७ ॥ यं प्राप्य किल राजानो जयन्ति वसुधां नृपाः ॥ १८ ॥ पुष्कर उवाच ॥ वर्णं सत्त्वं बलं रूपं कान्तिस्संसहननं जवम् ॥ संतेतानि सदा यस्य स गजः सप्तसुस्थितः ॥ १८ ॥ येषां भवेद्दक्षिणापार्श्वभागं गन्धो वा पुञ्जः पिटकोऽथवापि ॥ ते नागकुल्या विजयाय युद्धे भवन्ति राज्ञां न हि संशयोऽत्र ॥ १९ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेय वज्रसंवादे हस्तिलक्षणं नाम दशमोऽध्यायः ॥ १० ॥ ॥ पुष्कर उवाच ॥ अश्वानामपि ये प्रोक्ता महादोषा शृणुत्तम ॥ वर्णतश्चैव यान्प्रोक्तांस्तं न्तं निगदतः शृणु ॥ १ ॥ हीनदन्ती द्विदन्तश्च कराली कृष्णतालुकः ॥ कृष्णाजिह्वश्च यमजो जातस्त्वपक्ष्यागम्यया ॥ २ ॥ द्विशफश्च तथा शृङ्गी त्रिवर्णो व्याघ्रवर्णकः ॥ खरवर्णो भस्मवर्णो जातवर्णश्च काकुदी ॥ ३ ॥ श्वित्री च काकमांडी च खड्गशृङ्गस्तथैव च ॥ वानराख्यः कृष्णसटः कृष्णशफस्तथैव च ॥ ४ ॥ कृष्णौष्ठाग्रश्च मुक्तश्च यश्च तित्तिरिसन्निभः ॥ विषमश्चैकपादश्च ध्रुवावर्तेनवर्जितः ॥ ५ ॥ अशुभान्नेतान्प्रमुखो वर्जनीयास्तुरङ्गमाः ॥ ॥ राम उवाच ॥ वाजिनां क ध्रुवावर्ताः कषु स्थानेषु शोभनाः ॥ वाजिनः क तदा शस्तास्तन्ममाचक्ष्व पृच्छतः ॥ ६ ॥ पुष्कर उवाच ॥ रन्ध्रोपरन्ध्याक्ष्योष्ठादोष्ठौ मस्तकवक्षसौ ॥ प्रमाणं च ललाटं च ध्रुवावर्ता दश स्मृताः ॥ ७ ॥ एकोपि न भवद्यस्य ध्रुवावर्तं वाजिनः ॥ न तं शसंन्ति धर्मज्ञ तस्मात्तं परिवर्जयेत् ॥८॥ उत्तरोष्ठे शृणुश्रो प्रमाणन्य तर्थापरौ ॥ नासापुटे तथा प्रोध्र गण्डाभ्रीयाक्षिकमध्यगः ॥९॥ ॥१७७॥
१ 'कृष्णपक्षः' इत्यपि पाठः ।