विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 401, कुल 1001 में से
संदर्भ में पढ़ेंसत्त्वं प्लुतं हासमसुलवणं च ॥ ४२ ॥ श्रान्तस्य यानमशनं च बुभुक्षितस्य पानं तृषा परिगतस्य पुंसु रक्षा ॥ एतानि यस्य पुरुषस्य भवंति काले तं धन्यमाहुरिषिभूमि नरं द्विजेन्द्राः ॥ ४३ ॥ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे पुरुषलक्षणं नामाष्टमो ऽध्यायः ॥८॥ पुष्कर उवाच ॥ शस्ता स्त्री चारुसर्वाङ्गी मत्तमातङ्गगामिनी ॥ गुरूक्थजघना या च मतपारावतस्वणा ॥ १ ॥ सुनीलकेशी तन्वङ्गी पद्मद्युतिनिनादिनी ॥ तनुमध्या विलोमाङ्गी स्निग्धवर्णा मनोहरा ॥२॥ समग्रभ्रूसुभौ यस्याश्चाक्ष्णौ कमलोपमौ ॥ नाभिः प्रदक्षिणावर्ता संहतो च तथा स्तनौ॥३॥ विभक्तमथरोष्ठं च दर्शनं मधुरं तथा ॥ गुह्यं प्रदक्षिणावर्तमश्वत्थदलसन्निभम्॥४॥ गुल्फौ निगूढौ गूढ च तथा यस्याः ककुन्दरे॥ मध्यानेोमश्च यस्याः स्यादष्टाङ्गुष्ठप्रमाणतः ॥ ५॥ पिण्डिके च न संनद्धे न लम्बा च तथा कटिः ॥ जठरं च प्रलंबं च नयने च न केकरे ॥६॥ कचाश्च कपिशाः केशा रूक्षास्तथैव च ॥ न च वृक्षनदीनाम्नी न देवगणिनामिका ॥ ७ ॥ न चैवगन्धर्वभूतप्रतसनामिका ॥ न वाचाला न लुब्धा च न शठा कलहप्रिया ॥८॥ न लोमशा न दुर्भागा न वा कुण्ठकपालिका ॥ देवद्विजातिसिद्धानां साध्वनां पूजने रता ॥ ९ ॥ शीलोपेता गुणोपेता न शिराला न लोमशा ॥ १० ॥ गण्डैर्मधूकपुष्पाभैः स्निग्धैश्च दशनच्छदैः ॥ न महतः संश्लिष्टचणांगुलिकुङ्कमला ॥ ॥ ११ ॥ पतिप्रिया पतिप्राणा या नारी पतिदेवता ॥ अलक्षणापि सेवेया सर्वलक्षणसंयुता ॥ १२ ॥ भ्रुवं कनीनिका यस्या न स्पृशेत् कथंचन ॥ न तां कुर्वीत भार्यायै मृत्युः सा कथिता बुधैः ॥ १३॥ सरोमसूतरोष्ठं च गण्डौ यस्याः सकूपकौ ॥ अतिदीर्घा कषाया च चलन्मांसवया तथा ॥ १४ ॥ सा विवर्ज्या विशेषेण नरेण हितमिच्छता ॥ १५ ॥ संक्षेपतस्ते कथितं मयैतन्मयाल्लक्षणं चारु नितम्बिनीनाम ॥ मय्स्यमेतत्कथितं तु तत्र यथाश्रुतितस्तत्र गुणा वसन्ति ॥ १६ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे स्त्रीलक्षणं नाम नवमोऽध्यायः ॥ ९ ॥ पुष्कर उवाच ॥ नागाः प्रशस्ता धर्मज्ञ प्रमानेनाधिकास्तु ये ॥ दीर्घहस्ता महाच्छ्वासा स्वासनाश्च विशेषतः ॥ १ ॥ निगूढवंशा मध्याक्षा गूढा गूढोष्ठमस्तकाः ॥ विंशत्यष्टाधिकनखाः शीतकालमदाश्च ये ॥२॥ येषां चैव कराः पादा दीर्घा लाङगूलमेवं च ॥ दक्षिणं चोन्नतं दन्तं बृंहितं जलेदोपमम् ॥ ३ ॥ अत्यर्थवेदना ये च शूराः शब्दसहिष्णवः ॥ कर्णौ च विपुलो यंषां सूक्ष्मविन्दुयुतत्वचः ॥ ४ ॥ ते प्रशस्ता महाभाग ये तथा सत्सुस्थिताः ॥ दन्तच्छेदेषु दृश्यन्ते येषां स्वस्तिकलक्षणाः ॥५॥ क्षुद्राल्पवाल्यजनं वर्द्धमानाङ्कुशास्तथा ॥ ते धार्या न तथा धार्या वामना मस्कुणादयः ॥ ६ ॥ हस्तिन्यो याश्च गर्भिण्यो ये च मूढा मतङ्गाः ॥ अपाकलाश्च कुब्जाश्च सहन्ता ये च