विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 400, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० द्वि० खं० अ० ८ ॥ ३७६ ॥ ॥ ३७६ ॥
भियस्य निर्दिष्टश्चतुस्तैलैः स मानवः ॥ अङ्गुल्यो हृदयं पृष्ठं कटिर्यस्य तथा समाः ॥२०॥ पुरुषः स भवेच्छ्रेष्ठ चतुस्सम उदाहृतः ॥ षण्णवत्यङ्गुलो त्सेधश्चतुरस्त्रिकुतः प्रमाणतः ॥ २१ ॥ प्रमाणयोगादङ्गैश्च चतुष्किकुः स कीर्तितः ॥ दंष्ट्राशनमखण्डम्भा दशनेभ्यः समुन्नताः ॥ २२ ॥ किञ्चि द्वाल्य स धर्मज्ञश्चतुर्दष्ट्रः प्रकीर्तितः ॥ नेत्रतारे भ्रुवौ श्मश्रुः कृष्णाः केशास्तथैव च ॥ २३ ॥ यस्येह स चतुःकृष्णः प्रोच्यते मनुजोत्तमः ॥ नासायां वदने स्वेदे कक्ष्यासु च नरोत्तम ॥ २४ ॥ गन्धस्तु सुरभिर्यस्य चतुर्गन्धः स कीर्तितः ॥ बाहू जानूरुगण्डञ्च चत्वार्यस्य समानि तु ॥ ॥ २५ ॥ पुरुषस्य भवेच्छ्रेष्ठ चतुस्सम उदाहृतः ॥ आस्यात्सूक्ष्मद्रव्यपानानां तुल्यो गन्धस्तु यस्य वै ॥ २६ ॥ कथितः स भवेच्छ्रेष्ठ चतुर्गन्ध इति द्विजैः ॥ ह्रस्वं लिङ्गं तथा ग्रीवा जंघे ह्रस्वे तु दन्तिनः ॥ २७ ॥ यस्य भाग्यैर्विशार्दूल चतुर्ह्रस्वः स कीर्तितः ॥ अङ्गुलीनां तु पर्वाणि नखकेशद्विजत्वचम् ॥ सूक्ष्माणि यस्य तं राम पञ्च सूक्ष्मं प्रचक्षते ॥ २८ ॥ हनू नेत्रे ललाटं च नासा चैव स्तनान्तरम् ॥ दीर्घाणि यस्य ते राम पञ्चदीर्घ विदुर्बुधाः ॥ २९ ॥ वक्षः कक्षौ नखा नासा मुखं चैव कृकाटिका ॥ पञ्चोन्नतानि यस्येह तं वदंति पञ्चोन्नतम ॥ ३० ॥ त्वक्केशलोमदंताश्च दृष्टिवर्णा नखान्वया ॥ स्निग्धा यस्येह तं प्राहुः ननं स्निग्धं बहुश्रुताः ॥ ३१ ॥ जानुसंबाहुभौ राम भुजवंशौ तथाप्युभौ ॥ उरूकंघाद्वयं चैव पृष्ठवंशं च भार्गव ॥ ३२ ॥ नासावंशः समौ यस्य सोऽष्टादंशः प्रकीर्तितः ॥ नेत्रे नासापुटौ कर्णौ मद्यायू मुखं तथा ॥ ३३ ॥ छिद्रा नवैते विमला यस्य तं तु नवामलम् ॥ जिह्वोष्ठतालु नेत्रान्तहस्तपादनखाः स्तनाँ ॥ ३४ ॥ शिश्नाग्रवक्षो वम्यत पद्माभा दश देहिनाम ॥ पाणी पादा मुखं ग्रीवा श्रवणं हृदयं शिरः ॥ ३५ ॥ ललाट मुदरं पृष्ठं बृहत्यैः पूजिता दश ॥ प्रसांगितसुजंस्यैह मध्यम्यश्रवणोंतगात ॥ ३६ ॥ उच्छ्रयण समा यः म न्यग्रोधंापंगमण्डलः ॥ कथितः म नृपश्रेष्ठः सर्वलक्षणपूजितः ॥ ३७ ॥ पादौ गुल्फौ स्फिचौ पार्श्वौ वृषणाविक्षणौ हनु ॥ कण्ठोष्ठामक्षिकर्णौ च जंघे हस्तौ बाहू तथा भुवो ॥ ३८ ॥ द्वन्द्वाम्येतानि यस्य स्युः समानि तु चतुर्दश ॥ चतुर्दशसमद्वन्द्वः कथितः स नृपोत्तमः ॥ ३९ ॥ विद्यास्थानानि यानिह कथितानि चतुर्दश ॥ प्रपश्यति च यो राम नेत्राभ्यां च नगोत्तमः ॥ ४० ॥ सम्यक्स कथिता लोके पाठशास्त्रा भयूत्तम ॥ रूक्षं विगततं गात्रं तथा मांसविवर्जितम् ॥ दुर्गन्धि चाशुभं सर्वं विपरीतं च शम्यते ॥ ४१ ॥ दृष्टिः प्रसन्ना मधुरा च वाणी मतेभतुल्या च गतिः प्रशस्ता ॥ एकैककूपप्रभवाश्च रोमा
१ 'करौ' इति ख० ।