विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 399, कुल 1001 में से
संदर्भ में पढ़ेंराज्ञश्च विदिता मण्डलेष्वपि ॥ पराजकलेष्वपि प्रीयमाणा मुदा युता ॥ ६ ॥ द्यूतादिभ्रंषणकरी राजद्वारेषु सर्वदा ॥ तद्दोषेण नरेन्द्राणां कार्यज्ञा च विशेषतः ॥ ७ ॥ एवंगुणगणोपेता नरेन्द्रेण सहानघा ॥ अभिषेच्या भवेद्राज्ये राज्यस्थेन नृपेण वा ॥ ८ ॥ एवं यदा यस्य भवेच्च पत्नी नरेन्द्रचन्द्रस्य महानुभावा ॥ वृद्धिं व्रजेत्तस्य नृपस्य राष्ट्रं सचराचरं नात्र विचारणास्ति ॥ ९ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे अग्र्यमहिषीलक्षणं नाम सप्तमोऽध्यायः ॥ ७ ॥
॥ राम उवाच ॥ पुरुषाणां तथा स्त्रीणां गजानां तुरगैस्सह ॥ वालव्यजनच्छत्राणां तथा भद्रा- सनस्य च ॥ १ ॥ रत्नानां धनुषां चैव खड्गस्य च भृगात्मज ॥ लक्षणं श्रोतुमिच्छामि तन्ममाचक्ष्व पृच्छतः ॥ २ ॥
॥ पुष्कर उवाच ॥ आदावेव प्रवक्ष्यामि पुरुषाणां तु लक्षणम् ॥ निबोध तन्मे गदतो भृगुवंशविवर्धन ॥ ३ ॥ एकाधिको द्विशुक्लश्च त्रिभिर्व्याप्नोति यन्महीम् ॥ त्रिवलीवांस्त्रि- विनतः त्रिकालज्ञश्च भार्गव ॥ ४ ॥ पुरुषः स्यात्सुसुलक्षणो विपुलश्च तथा त्रिषु ॥ चतुर्लेखस्तथा यश्च तथैव च चतुःसमः ॥ ५ ॥ चतुष्किष्कु- श्चतुर्दंष्ट्रश्चतुष्कृष्णस्तथैव च ॥ चतुर्गन्धश्चतुर्ह्रस्वः पञ्च सूक्ष्मस्तथैव च ॥ ६ ॥ पञ्चदीर्घो भृगुश्रेष्ठ तथैव च पञ्चनतः ॥ सप्तस्नेहोऽष्टवंशश्च नव- स्थानामलस्तथा ॥ ७ ॥ दशपद्मो दशबृहन्नवोऽथापि च मण्डलः ॥ चतुर्दशसमद्वन्द्वः षोडशावयवः शस्यते ॥ ८ ॥
॥ राम उवाच ॥ एकाधिकतया ये प्रोक्ताः पुरुषस्य त्वया गुणाः ॥ तानाहं श्रोतुमिच्छामि यथावद्रघुनन्दन ॥ ९ ॥
॥ पुष्कर उवाच ॥ धर्ममर्थं च कामं च जनः सर्वोऽभिपद्यते ॥ एकाधिकस्तु विज्ञेयो यस्तु धर्मे विशेषतः ॥ १० ॥ तारकाभ्यां विना नेत्रे शुक्लाश्च दशनास्तथा ॥ द्वात्रिंशद्दशनं यस्य स्युर्द्विशुक्लः स तु कीर्तितः ॥ ॥ ११ ॥ उरो नाभिस्तथा सक्थिर्गम्भीरा यस्य देहिनः ॥ प्रोच्यते स तु धर्मज्ञ त्रिगम्भीरो¹ नरोत्तमः ॥ अनसूया दया क्षान्तिर्विक्रमश्च प्रकीर्तितम् ॥ ॥ १२ ॥ मङ्गलाचारसंस्पर्शः शौचं चेत्यपरं त्रयम् ॥ अनायासमकार्पण्यमशोकं च त्रयस्त्रिकाः ॥ १३ ॥ त्रिप्रलम्बो भुजाभ्यां तु वृषणेन च कीर्त्यते ॥ दिग्देशजातिसर्गैश्च तेजसा यशसा श्रिया ॥ १४ ॥ व्याप्नोति यो भृगुश्रेष्ठ त्रिभिर्व्याप्नोत्यसौ स्मृतः ॥ उदरं वलयस्तिस्रो गम्भीरा यस्य देहिनः ॥ १५ ॥ स उच्यते भृगुश्रेष्ठ त्रिवलीवांनरोत्तमः ॥ देवतानां द्विजानां च गुरूणां च तथा नतः ॥ १६ ॥ पुरुषो भार्गवश्रेष्ठ प्रोक्तस्त्रि- विनतः सदा ॥ धर्मस्यार्थस्य कामस्य युक्तकालविभागवित् ॥ १७ ॥ सेवते यश्च धर्मज्ञः प्रोच्यते स त्रिकालवित् ॥ उरो ललाटं वक्त्रं च विस्तीर्णं यस्य देहिनः ॥ १८ ॥ कथितः स भृगुश्रेष्ठ विपुलस्त्रिषु मानवः ॥ द्वौ पाणी द्वौ तथा पादौ ध्वजच्छत्रादिभिर्युतौ ॥ १९ ॥ लेखा
¹ 'त्रिगम्भीरस्तथैव च' इति ख० ।