भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 398, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 398

वि० ध० ॥१७५॥ द्वि० खं० अ० ७

निष्कृतिस्तस्य कुत्र शक्या महीभुजा ॥ यावन्न राजा विद्वांसौ संवत्सरपुरोहितौ ॥ ११ ॥ वृत्तिच्छेदं तयो राज्ञः कुलं त्रिपुरुषं व्रजेत् ॥ नरकं वर्जयेत्तस्माद्वृत्तिच्छेदं तयोः सदा ॥ १२ ॥ स्थावरेण विभागश्च तयोः कार्यो विशेषतः ॥ अनुरूपेण धर्मज्ञ संवत्सरपुरोहितौ ॥ १३ ॥ इति भाव्यं सदा भार्गववंशचन्द्र पुरोहितस्यात्मसमस्य राज्ञा ॥ राज्ञो यथापि स्वजनेन भाव्यं विद्वांस्तुभ्यं स्यान्नृपतेः पुरोधाः ॥ १४ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे पुरोहितलक्षणं नाम पञ्चमोऽध्यायः ॥ ५ ॥ छ ॥ पुष्कर उवाच ॥ सर्वलक्षणसम्पन्नो मन्त्री राज्ञस्तथैव च ॥ ब्राह्मणो वेदतत्त्वज्ञो विनीतः प्रियदर्शनः ॥ १ ॥ स्थूललक्षो महोत्साहः स्वामिभक्तः प्रियंवदः ॥ बृहस्पत्युशनःप्रोक्तां नीतिं जानाति सर्वतः ॥ २ ॥ रागद्वेषेण वक्तव्यं न वदेन्न महीक्षितः ॥ लोकापवादाद्राजार्थं भयं यस्य न जायते ॥ ३ ॥ क्लेशक्षमस्तथा यश्च विजितात्मा जितेन्द्रियः ॥ गूढमन्त्रश्च दक्षश्च प्राज्ञो भक्तजनप्रियः ॥ ४ ॥ इङ्गिताकारतत्त्वज्ञ ऊहापोहविशारदः ॥ शूरश्च कृतविद्यश्च न च मानी विमत्सरः ॥ ५ ॥ चारप्रचारकुशलः प्रणिधिप्रणयात्मवान् ॥ षाड्गुण्यविधितत्त्वज्ञ उपायकुशलस्तथा ॥ ६ ॥ वक्ता विधाता कार्याणां नैव कार्यातिपातिता ॥ समग्र राजभृत्यानां तथैव च गुणप्रियः ॥ ७ ॥ कालज्ञः समयज्ञश्च कृतज्ञश्च जनाधिपः ॥ कृतानामकृतानां च कर्मणां चान्ववेक्षिता ॥ ८ ॥ यथानुरूपमर्हाणां पुरुषाणां नियोजिता ॥ राज्ञः परोक्षे कार्याणि सम्प्रधार्य भृशं ततः ॥ ९ ॥ कृत्वा निवेदिता राज्ञःकर्मणां गुरुलघवम् ॥ शत्रुमित्रविभागज्ञो विग्रहास्पदतत्त्ववित् ॥ १० ॥ स राज्ञः सर्वकार्याणि कुर्याद्दृष्ट्वैव कुलोद्वह ॥ विदितानि यथा कुर्यादज्ञातानि महीक्षिता ॥ ११ ॥ अज्ञातानि नरेन्द्रस्य कृत्वा कार्याणि भार्गव ॥ अचिरेणापि विद्वेष्यं स मन्त्री त्वधिगच्छति ॥ १२॥ करोति कार्याणि विविधानि महीपते ॥ भेदो न तस्य भवति कदाचिदपि बुद्धिजात् ॥ १३ ॥ एवंगुणो यस्य भवेच्च मन्त्री वाक्यं च तस्याभिरतस्य राज्ञः ॥ राज्यं स्थिरं स्याद्विपुला च लक्ष्मीर्वशञ्च यान्ति भुवनत्रयेऽपि ॥ १४ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे मन्त्रिलक्षणं नाम षष्ठोऽध्यायः ॥ ६ ॥ ॥ छ ॥ ॥ पुष्कर उवाच ॥ ॥ राज्ञामग्रमहिषी कार्या सर्वलक्षणपूजिता ॥ विनीता गुरुभक्ता च ईर्ष्याक्रोधविवर्जिता ॥ १ ॥ राज्ञः प्रियहितासक्ता चरित्रेण प्रियंवदा ॥ भृत्यैस्तनुमनोज्ञा च धृतानामनुवर्त्तिनी ॥ २ ॥ अधृतानां जनानां च वृत्तिक्रमप्रवर्त्तिनी ॥ रागद्वेषविमुक्ता च सपत्नीनां सदैव या ॥ ३ ॥ भोजनासनपानेन सेवतेऽनुप्रवेशिनी ॥ सपत्नीपुत्रेष्वपि या पुत्रवत्परिवर्त्तते ॥ ४ ॥ मन्त्रिसंवत्सरामात्यांस्तथा च पूजयेत् सदा ॥ श्रद्धया च दयायुक्ता सर्वभूतानुकम्पिनी ॥ ५ ॥ कृतज्ञानाज्ञा... ॥ १७५॥