भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 397, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 397

शुचिः ॥ ८ ॥ येनाभिषिक्तो नृपतिर्विनष्टस्तं नराधिप ॥ सांवत्सरं न तं विद्वानन्वगच्छेन्नृपस्तम ॥ ९ ॥ न हीनाङ्गं न वाचालं न च निष्प्र- तिभं नृपः ॥ कुवेशमलिनं मुण्डं नास्तिकं पापनिष्ठुरम् ॥ १० ॥ मित्रवृत्तिं न चत्र्यङ्गमत्यल्पदृशं सदा ॥ वर्जयित्वा तु वक्तव्याः स्वयमेव महीभुजा ॥ ११ ॥ यथैवाभिमुखा देवास्तथा राजन्मुखाः प्रजाः ॥ यथैवाभिमुखा मन्त्रा राज्ञां सांवत्सरागस्तथा ॥ १२ ॥ त्वं मे माता पिता चैव देशिकश्च गुरुस्तथा ॥ दैवं पुरुषकारश्च ज्ञातव्यौ सततं त्वया ॥ १३ ॥ समधर्मज्ञ भद्रं ते गञ्जं साधारणं हि नौ ॥ समानेयः शुभो दैवस्त्व- यैव मम सत्तम ॥ १४ ॥ पौरुषेण पदं कार्यं समरं च तथा मया ॥ स चेत्तदभिमन्येत पार्थिवस्य महागुणम ॥ १५ ॥ अथवा गुणदोषेण प्रज्ञया चाशु यो नृणाम् ॥ दैवोपाघातसमरे विज्ञानं पौरुषस्य च ॥ १६ ॥ वाऽवं न च प्राज्ञस्तु तस्यैवानुमते तदा ॥ तेनोद्दिष्टौ तु वरयेद्राज्ञा मन्त्रिपुरोहितौ ॥ १७ ॥ तेनोद्दिष्टौ च वरयेन्महिषीं नृपसत्तमः ॥ ततोऽभिषेकमम्भारान्भारंस्तस्य कुर्यात्स दैववित् ॥ १८ ॥ कुञ्जरं तुरगं कुर्यात्तस्य राज्ञः परिक्षितौ ॥ भद्रासनं च छत्रं च वालव्यजनमेव च ॥ १९ ॥ खड्गरत्नं तथा चापं रत्नानि विविधानि च ॥ राज्ञो मृतस्य ये त्वासन्सर्वाणि तु नराधिप ॥ २० ॥ ते न कार्या नरेन्द्रस्य तेन दैवविदा तथा ॥ कामं संवत्सरं कार्या आत्मानमिच्छता भूभुजा ॥ २१ ॥ गुणाधिकस्य नो कार्या येऽन्यत्राभिहिता मया ॥२२॥ न तत्र नागाः सुभृता न योधा राज्ञां न माता न पिता न बन्धुः ॥ यत्रास्य साध्यं भवतीह विद्वान्सांवत्सरो धर्मविदः प्रमत्तः ॥ २३ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करकथासु सांवत्सारिक लक्षणं नाम चतुर्थोऽध्यायः ॥४॥ राम उवाच ॥ राज्ञा पुरोहितः कार्यस्तथा मन्त्री च कीदृशः ॥ महिषी च तथा ज्येष्ठा तन्ममाचक्ष्व पृच्छतः ॥ ॥ १ ॥ पुष्कर उवाच ॥ अध्यङ्गं लक्षणोपेतमनुकूलं प्रियंवदम् ॥ अथर्ववेदविद्वांसं यजुर्वेदविशारदम् ॥ २ ॥ द्विवेदं ब्राह्मणं राजा पुरोहितमथर्व- णम् ॥ पञ्चकल्पविधानज्ञं वरयेत सुदर्शनम् ॥३॥ नक्षत्रकल्पो वैतानस्तृतीयः संहिताविधिः ॥ चतुर्थीङ्गिरसः कल्पः शान्तिकल्पस्तु पञ्चमः ॥४॥ पञ्चकल्पविधानज्ञमाचार्यं प्राप्य भूपतिः ॥ सर्वोत्पातप्रशान्तात्मा भुनक्ति वसुधां चिरम् ॥५॥ स च राज्ञस्तथा कुर्यान्नित्यं कर्म सदैव तु ॥ नैमित्तिकं तथा काम्यं दैवज्ञवचने रतः ॥६॥ न त्याज्यस्तु भवेद्राजा दैवेज्ञेन पुरोधसा ॥ पतितस्तु भवेत्त्याज्यो नात्र कार्या विचारणा ॥७॥ तथैव पतितो राम न त्याज्यो तौ महीभुजा ॥ तयोस्त्यागेन राजेन्द्र राज्यभ्रंशो विनिर्दिशेत ॥ ८ ॥ दुर्गतिः परलोके च बहुकालमसंशयम् ॥ सांवत्सरविरुद्धंस्तु त्याज्यो राजा पुरोहितः ॥ ९ ॥ पुरोहितोऽन्यथा राज्ञो यथा माता यथा पिता ॥ अनिष्टमस्य व्यसनं हन्याद्दैवोपाघातजम् ॥ १० ॥ ब्राह्मणो

३०

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण) · पृष्ठ 397, कुल 1001 में से · BharatKosha