विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 405, कुल 1001 में से
संदर्भ में पढ़ेंनन्दन् ॥ प्रभा च शक्रापाषा प्रत्यर्काभिमुखी भवेत् ॥ ११ ॥ तं वज्रं धारयन्राजा सर्वानजयति शत्रून्वान् ॥ सुकुक्षिनिभः स्निग्धः कान्तिमा न्विमलस्तथा ॥ १२ ॥ सुवर्णचूर्णसंकाशैः सूक्ष्मबिन्दुभिरन्वितः ॥ शस्तो मरकतो गम गम्भीरश्चौद्यतस्तथा ॥ १३ ॥ पार्थश्च पृथिवीशानां सर्वोपद्रवनाशनः ॥ कुरुविन्दोद्भवञ्चन्य तथा सौगन्धिकाद्दिज ॥१४॥ स्फटिकात्पद्मरागाणां श्रेष्ठास्ते ह्युत्तरोत्तरम् ॥ जह्रङ्गा भवन्तीह कुरुविन्द भवाश्च ये ॥ १५॥ कषायन्द्वा निर्दिष्टा ये च सौगन्धिकोद्भवाः ॥ स्वच्छाश्च गगवन्तश्च विज्ञेयाः स्फटिकोद्भवाः ॥ १६ ॥ मुक्ताफलाः शुक्तिभव बहवो मत्स्यजास्तथा ॥ उच्छूहा न तथा तेभ्यो ये तु शङ्खोद्भवा द्विज ॥ १७॥ तेभ्यः प्रशस्ता विज्ञेया नागकुम्भसमुद्भवाः ॥ निष्प्रभान्ते प्रसूतिद्वाः श्रेष्ठाः कोऽन्येवा द्विज ॥ १८॥ तेभ्यो वेणुदलाः श्रेष्ठास्तेभ्यो भुजङ्गसम्भवाः ॥ तेभ्योऽपि भुवि दुष्प्राप्यं मौक्तिकं संवसम्भवम् ॥ १९ ॥ धारणा त्तस्य नृपतेः सर्वसिद्धिः प्रकीर्त्तिता ॥ मौक्तिकानां तु सर्वेषां वृत्तत्वं गुण उच्यते ॥ २० ॥ सुवृत्ता न सुयुक्तावं महत्तवं च भृणुत्तम ॥ इन्द्रनीलस्तुल्यः क्षीरे गजते भाजने स्थितम् ॥ २१॥ रश्मयेस्त्वप्रभावेन तमप्युल्लं विनिर्द्दिशेत् ॥ नीलरक्तं तु वैदूर्यं सर्वतः श्रेष्ठमुच्यते ॥ २२ ॥ सर्वेषामथ रत्नानां धार्यं कर्कतनं स्मृतम् ॥ पुष्परागस्तथा गम ये चान्ये कीर्तिता मया ॥ २३ ॥ प्रशस्तरत्नेर्मृपाणां सुकुटान्यङ्गदानि च ॥ हाराणि गम कार्याणि केयूरभरणानि च ॥ २४ ॥ अश्रस्तानि रत्नानि वर्जनीयानि दूरतः ॥ सर्वगोत्तमं गजा विवर्णं मलिनं तथा ॥ २५ ॥ न धारयत्त धर्मज्ञः सुशुद्धं धारयेत्सदा ॥ धृतिः प्रशस्ता मुगुवेराचंदू रत्नोत्तमानां सततं नृपाणाम् ॥ रत्नोऽशुद्धं तु नरस्य देहाद्धनंयथाशु प्रशमं प्रयाति ॥ २६ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रत्नलक्षणं नाम पञ्चदशोऽध्यायः ॥ १५ ॥ ॥ पुष्कर उवाच ॥ ॥ धनुर्द्रव्यत्रयं लोहं शृङ्गं चारु च भार्गव ॥ ज्याद्रव्यत्रितयं चर्म वंशभंगं त्वचस्तथा ॥ १ ॥ वंशत्वग्वंशचाप तु कर्त्तव्यं भृगुनन्दन ॥ अन्येषु राम चापेषु शेषद्रव्यमिदं भवेत् ॥ २ ॥ प्रमाणं नात्र निर्दिष्टं चापयोः शार्ङ्गलोहयोः ॥ दारुचापप्रमाणं तु श्रेष्ठं हस्तचतुष्टयम् ॥ ३ ॥ तदर्धसमहीने तु प्रोक्ते मध्यकनीयसी ॥ सुष्टिग्राह्याणि वृत्तानि मध्ये सर्वाणि कारयेत् ॥ ४ ॥ स्वल्पा कटिस्तु वृक्षाणां शार्ङ्गेलोहमयी द्विज ॥ कामिनीभ्रू लताकारा कोटिः कार्या सुसंस्कृता ॥५॥ पृथुवा दारुमिश्रो वा लोहशार्ङ्गे तु कारयेत् ॥ शार्ङ्गं बाणोचितं कार्यं रूक्ष्मविन्दुवि भूषितम् ॥ ६ ॥ कुटिलस्फुटितं चापं सच्छिद्रं च न शस्यते ॥ हस्तिभग्ना द्रुमा ये च विबुद्धग्वास्तथा च ये ॥ ७ ॥ आगमद्व्रतावक्षमतापना
१ 'महुत्त्वा' इत्यादि पाठः । २ 'कुर्कैतनम्' इति ख० ।