विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
प्रथमखण्डे मा०सं० महाकल्पवर्णनो नाम सप्तसप्ततितमोऽध्यायः ॥ ७७ ॥
प्रथमखण्डे मा०सं० महाकल्पवर्णनो नाम सप्तसप्ततितमोऽध्यायः ॥ ७७ ॥
वज्र उवाच ॥ ॥ सप्तमस्ते महाभाग जातस्य दिवसस्त्वयम् ॥ वर्तते ब्रह्मणो ब्रह्मँस्तत्र मन्वन्तरक्षये ॥ १ ॥ कथं कालस्त्वया नीतः पुरा कल्पक्षये तदा ॥ एतन्मे संशयं छिन्धि त्वं समः परमेष्ठिनः ॥ २ ॥
मार्कण्डेय उवाच ॥ नैर्गेतेन मया नीतः कालो मन्वन्तरक्षये ॥ भूयोभूयो महाभाग देवदेवप्रसादतः ॥ ३ ॥ कल्पक्षयमनुप्राप्य दाहकाल उपस्थिते ॥ जनलोकगतेनाथ कालो नीतस्त्व वै मया ॥ ४ ॥ दाहकाले तदा वृत्ते प्रलयाम्भोभिसंप्लवे ॥ जनलोकादहं भ्रष्टः पतितो धरणीतले ॥ ५ ॥ नूनं तस्यैव देवस्य सा माया भीमविक्रमा ॥ एकार्णवे भूमितले पतितस्यापि मे नृप ॥ ६ ॥ जीवितं न परिभ्रष्टं नूनं तस्य प्रसादतः ॥ तदार्ह नदविद्यानः पतितोऽभसि दारुणे ॥ ७ ॥ उह्यमानोम्बुकल्लोलैस्तिरश्चँश्च धाड्व ॥ अपश्यमानो जगतो सशैलवनकाननाम् ॥ ८ ॥ निर्व्वेदं जीवितै दीर्घे तदा प्राप्तोऽस्मि शत्रुहन् ॥ सोऽहमाताऽऽथ निर्विण्णस्तस्मिंस्तूत्दकसंप्लवे ॥ ९ ॥ पश्यामि जलमध्यस्थं विपुले वटपादपम् ॥ महाशाखं घनच्छायं स्निग्धपल्लवशोभितम् ॥ १० ॥ तमहं बाहुभिर्गत्वा तस्मिन्प्र्यग्थवापादपे ॥ (शाखांसक्तं तु पश्यामि सवितारं तथोज्ज्वलम् ॥ ११॥ दिव्यं पश्यामि पर्य्यङ्कं सर्वरत्नोपशोभितम् ॥) पर्य्यङ्के तत्र पश्यामि बालं कमलोचनम् ॥ १२॥ अतसीपुष्पसंकाशं पीतवाससमच्युतम् ॥ पद्मपत्रा भवचरणं तदाकारकरं तथा ॥ १३ ॥ अलङ्कृतं चामरणैः शिखण्डैश्चविभूषितम् ॥ एकं साहस्रमध्येस्थं भ्राजमानमिव श्रिया ॥ १४ ॥ स मां दृष्ट्वा तदा बालः स्मितपूर्वमुवाच ह ॥ यदि श्रान्तोऽसि धर्मज्ञ विप्रर्षे वदनेन मे ॥ १५ ॥ प्रविश्य विश्रमस्वाद्य यावद्वा रुचितं तव ॥ एवमुक्तस्य सञ्जाता व्रीडा यडुकुलोद्वह ॥ १६ ॥ ततोऽहमवशास्तस्य प्रविष्टो नृप विग्रहम् ॥ जगतो तत्र पश्यामि सशैलवनकाननाम् ॥ १७ ॥ यथापूर्वं महा भाग नगराकारशालिनीम् ॥ देवदैत्योगराकीर्णां समुद्रवरभूषणााम् ॥ १८ ॥ नृपराष्ट्रसमाकीर्णां वर्णिगभिरुपशोभिताम् ॥ द्विजाध्ययनसंयुष्टां वर्णाश्रमसमाकुलाम् ॥ १९॥ सरित्पर्वतवृक्षाढ्यां यज्ञोत्सवसमाकुलाम् ॥ तां दृष्ट्वा कौतुकं जातं तस्य बालस्य कर्मणा॥२०॥ द्रष्टुमिच्छामि तस्यान्तं भ्रममाणस्ततस्ततः ॥ यदा नासाद्याम्यत्र तस्य बालस्य चेष्टितम् ॥२१॥ पूर्णं युगसहस्रेऽपि तमेवाहं तदा शिशुम् ॥ संप्राप्तः शरणं राजब्र्हं भाव्यर्थं चोदितः ॥ २२ ॥ ततोऽहं वदनात्तस्य निर्गतश्शिरसिन्निभात् ॥ यदा तस्योदरेऽपश्यं त्रैलोक्यं सचराचरम् ॥ २३ ॥ तथा पश्यामि सकलं बहिर्भूमि
१ 'योगेन मया नीतः' इति ख० । २ 'मन्वन्तराश्च वै' इति क० । ३ 'सोऽहं शान्तोऽथ निर्विण्णः' इति ख० । ४ कोष्ठान्तर्गतः पाठः कपुस्तके नास्ति । ५ 'नगराद्दालशालिनीम्' इति ख० । ६ 'मम' इति ख० । ७ 'नूनमव्यक्तचोदितः' इति ख० ।
पश्यतम् ॥ ततोऽहं पतितस्तस्य पादयोस्सुमहात्मनः ॥ २४॥ ततस्सोऽन्तर्हितो बालस्सह तेनैव शाखिना॥ एवं मया तस्य निशा नरेन्द्र संप्राप्य पुण्यं जले हि नीता ॥ महाशरीरस्य महाद्युभाव महाप्रमेयस्य पितामहस्य ॥ २५॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० बालप्रभावकथनो नामाष्टसप्त- तितमोऽध्यायः ॥ ७८॥ वज्र उवाच ॥ कस्त्वसौ बालवेषेण कल्पान्तेषु पुनःपुनः ॥ दृष्टोऽपि न त्वया ज्ञातस्तत्र कौतूहलं महत् ॥ १॥ मार्कण्डेय उवाच ॥ भूयोऽप्यस्त्वसौ दृष्टो मया देवो जगत्पतिः ॥ कल्पक्षये न विज्ञातस्तन्मायामोहितेन वै ॥ २॥ कल्पक्षये व्यतीते तु तं देवं पितामहान् ॥ अनिरुद्धं विजानामि पितरं ते जगत्पतिम् ॥ ३॥ वज्र उवाच ॥ ज्ञातवानसि तं देवं कथं द्वैपायनात्महात ॥ दुर्विज्ञेयं जगद्धानिं सर्वभूतभवो- द्भवम् ॥ ४॥ मार्कण्डेय उवाच ॥ मायया मोहितस्तस्य बालस्यामिततेजसः ॥ दृष्टोदरे जगत्कृत्स्नं विस्मयान्विचेतनः ॥ ५॥ गत्वोद्रे ब्रह्मणोऽहं पृष्टवांस्तं पितामहम् ॥ एकार्णवे मया लोके दृष्टोऽयं जगतःपतिः ॥ ६॥ दृष्टो बालो महातेजास्तस्यास्यादहमवशस्ततः ॥ प्रविष्टो जठरं रम्यं दृष्टं मया चराचरम् ॥ ७॥ मया दृष्टं जगत्सर्वं न च जानामि बालकम् ॥ ध्रुवं तं भगवाञ्छेत्ति सर्वज्ञत्वाज्जगद्गुरुः ॥ ८॥ एवं पृष्टो मया ब्रह्मा मामुवाच जगद्गुरुः ॥ मार्कण्डेय विजानासि ह्यनिरुद्धं जगद्गुरुम् ॥ ९॥ त्वं च तं वेत्थ तत्त्वेन न च कल्पक्षये मुने ॥ त्वया दृष्टं यथा तन्मूर्त्या लोकं कृत्वेद- भुवनं मुने ॥ १०॥ तथा दृष्टं मया तस्य जगद्योनिरहंमहात्मनः ॥ मदीयञ्च दिनस्यान्ते कदाचिद्भृगुनन्दन ॥ ११॥ एकार्णवे तदा लोके नष्टे स्थावरजङ्गमे ॥ नागपर्यङ्कशयने पश्यामि पुरुषं तदा ॥ १२॥ तस्मिन्काले न जानामि तमहं तेन मोहितः ॥ ततः पृच्छामि तं देवं को भवानिति विस्मितः ॥ १३॥ स मामुवाच प्रहसन्ममेदं सकलं जगत् ॥ न तु मां वेत्सि तत्त्वेन जगतामीश्वरेश्वरम् ॥ १४॥ मयाऽप्युक्तः स दुर्वृत्ता रुष्ट- सकलं जगत् ॥ वृथा प्रलपस्यैते मत्तोऽसि विशेषतः ॥ १५॥ विप्रत्ययश्च यदि ते प्रविश्य जठरं मम ॥ त्रैलोक्यमखिलं पश्य पश्यत- न्मया स्वयम् ॥ १६॥ एवमुक्तस्तु मया तस्य केनापि हेतुना ॥ प्रविश्य जठरं मे स क्षणमात्राद्विनिर्गतः ॥ १७॥ निर्गम्य मानवश्रेष्ठ दृष्टं त्रिभुवनं मया ॥ तवोदरे जगन्नाथ त्वं च पश्य ममोदरे ॥ १८॥ एवमुक्त्वा स सुष्वाप भोगिभोगासने तदा ॥ अहमप्यथवक्त्रेणमस्य प्रविष्टो जठरं तदा ॥ १९॥ पश्यामि जगतो बह्वन्शैलवनकाननाम् ॥ मग्नसुदृन्दिदीपेलेकपातालसुपितामहान्॥२०॥ दृष्ट्वाहं पृथिवीं रम्या तथा जठरग्निस्थिताम्यथा ॥ निर्गमिष्यन्पश्यामि शरीरं तस्य भार्गव ॥२१॥ अन्तर्ऋक्षं प्रपश्यामि निगलत्वं पश्चिमद् ॥ पश्चिमप्रमणित्वेतोऽस्मि तमेव शरणं गतः ॥ २२ ॥ ततस्तु तस्य पश्यामि रन्ध्रहन्तिं तु विग्रहम् ॥ तस्य दक्षिणनिर्गतुं शक्तोनामितितथा च मे ॥२३॥ रन्ध्रहन्तान्तसभाभाग तमेव शरणं गतः ॥ ततोऽहं
गत्वात्वदङ्गं भ्रातं मयानघ ॥ २४ ॥ यत्प्रमादापि सूक्ष्मं ततोऽहं तेन निर्गतः ॥ पद्मनालेन निष्क्रान्तं पश्याम्यात्मानमात्मना ॥ २५ ॥
नाभिसरसि तत्पद्मं जातं देवस्य शार्ङ्गिनः ॥ शप्तरत्नार्कशैवालैः विकसितदलं महत् ॥ २६ ॥ ततोऽहं पद्मजन्मेति लोके ख्यातिमुपागतः ।
नाभिजातं च यत्पद्मं तस्य देवस्य भार्गव ॥ २७॥ तन्महामण्डलं क्लृप्तं मेरुस्तस्य च कर्णिका ॥ तत्राहं तस्य संभूतो देवदेवस्य चक्रिणः॥ २८॥
देवस्य विष्णोर्जगतामधीशः सर्वेश्वरः सर्वजगत्प्रधानः ॥ यो बालरूपी भवतान्तकाले दृष्टोऽस्य सर्वस्य चराचरस्य ॥ २९ ॥ एवं हि तस्योदरसं
स्थितेन मयोषितं जातकौतूहलेन ॥ तस्यैव मायापारिमोहितेन कल्पान्तकालेषु सदा नरेन्द्र ॥ ३० ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे
मा० सं० पद्मनाभोपाख्याने नामैकोनाशीतितमोऽध्यायः ॥ ७९ ॥ वज्र उवाच ॥ ब्रह्मणोऽस्य समुत्पत्तिर्मया सुमहाद्युते ॥ कालस्य
गतिमिच्छामि श्रोतुं भृगुकुलोद्वह ॥ १ ॥ मार्कण्डेय उवाच ॥ स्वेनाहोरात्रमानेन ब्रह्मणोऽस्य जगत्पतेः ॥ समाष्टकं गतं राजन्यञ्चमास्यास्तथैव
च ॥ २ ॥ अहोरात्रचतुष्कं च वर्तमानदिनाद्गतम् ॥ अतः परं प्रवक्ष्यामि तन्मे निगदतः शृणु ॥ ३ ॥ मंतवः षड् गतास्तत्त सप्तमश्च
तथा गताः ॥ सप्तविंशदतीताश्च तथैव च चतुर्युगाः ॥ ४ ॥ युगद्वयं तथातीतं वर्तमानचतुर्युगात् ॥ संवत्सराणां दुर्गेयं
तथा कलियुगाद्गतम् ॥ ५ ॥ वा तावन्मे कल्पकोऽस्मिन्सह यक्षण यादृव ॥ भविष्याणामतीतानां ब्रह्मणो भूरिदक्षिण ॥ ६ ॥ अन्तः
दिमत्त्वात्कालस्य संख्यां वक्तुं न शक्यते ॥ गङ्गायाः सिकता धारा यथा वर्षति वासवः ॥ ७ ॥ शक्या गणयितुं राजन्न व्यतीताः पितामहाः ॥
अन्तवत्तां बुधो बुद्ध्वा सर्वस्य जगतोपते ॥ ८ ॥ तन्मार्गं परिमार्गेत यद्विष्णोः परमं पदम् ॥ वज्र उवाच ॥ कियत्कालपरिमाणं मया शास्त्या
वसुन्धरा ॥ ९ ॥ परीक्षिता च धर्मज्ञ तन्मे ब्रूहि भृगूत्तम ॥ मार्कण्डेय उवाच ॥ अद्यप्रभृति राजेन्द्र समाप्तप्रशशर्के गते ॥ १० ॥ परीक्षिति महाराज
दिवं प्राप्ते कुरुद्वहे ॥ परीक्षिद्वेति लोकेऽस्मिन्प्राणितं त्वं तु शक्ष्यसे ॥ ११॥ महाप्रस्थानमाविश्य नागलोकं गमिष्यसि ॥ स्वर्गते त्वयि राजेन्द्र
परीक्षिति तथा नृपे ॥ १२ ॥ राजा नागपुरे भावी परीक्षित्जनमेजयः ॥ मथुश्यां तथा भावी तव पुत्रोऽचलो नृपः ॥ १३ ॥ नगरं खाण्डवप्रस्थं
भयाद्दिविनिवर्जितम् ॥ पालयिष्यति धर्मात्मा पुत्रस्ते भीमविक्रमः ॥ १४ ॥ दानवेन्द्रो मयः पूर्वं फाल्गुनेन प्रयात्यता ॥ महाप्रस्थानमित्युक्तौ
राजंस्त्वत्प्रियकाम्यया ॥ १५ ॥ यावद्धत्री महीं भुङ्क्ते खाण्डवप्रस्थमाश्रितः ॥ तावत्तन्मेयं मन्दस्य त्वया मधुपुरोधतः ॥ १६॥ मेयं संक्ष्यते तेन
१ 'मनवश्च' इति कृ० ।
२ 'परीक्षित् महाराज' इति कृ० ।
वि० ध० ॥ ४८ ॥
प्र० खं० अ० ८१
प्रतिज्ञाय धनञ्जये ॥ त्वयि नाकमनुप्राप्ते सम्मेयं मयशासनात् ॥ १७ ॥ हिमाचलं तु तेऽभ्यन्ति यत्र बिन्दुसरः सरः ॥ राक्षसाः किङ्करा नाम यत्तस्मान्निर्मिता पुरा ॥ १८ ॥ उक्तं हि ते कालगतं मयैतदायूःप्रमाणं च तथा तवोक्तम् ॥ अतः परं धर्मभृतां वरिष्ठ वदस्व किं ते कथयामि राजन् ॥ १९ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० यानकालवर्णनो नामाशीतितमोऽध्यायः ॥ ८० ॥ वज्र उवाच ॥ त्वयोदितानां धर्मज्ञ समासेन पृथक्पृथक् ॥ कालस्यावयवानां च श्रोतुमिच्छामि देवताः ॥ १ ॥ मार्कण्डेय उवाच ॥ पौरुषं यदहोरात्रं श्रुतवानसि यादव ॥ कालात्मा पुरुषस्तस्य सर्वभूतपतिः प्रभुः ॥ २ ॥ कल्पस्य देवतं ब्रह्मा यत्स्येदं सकलं जगत् ॥ क्रमान्मन्वन्तराणां तु मनवस्तु चतुर्दश ॥ ३ ॥ स्वायम्भुवस्तु प्रथमो मनुः स्वारोचिषस्तथा ॥ वैवस्वतस्ततोऽथ सावणिर्ब्रह्मपुत्रस्तथैव च ॥ ४ ॥ धर्मपुत्रो रुद्रपुत्रो दक्षपुत्रश्च यादव ॥ रौच्यो भौत्यश्च विश्वात्मा मनवस्तु चतुर्दश ॥५॥ वज्र उवाचाथ एते भवता प्रोक्ता मनवश्च चतुर्दश ॥ नित्यं ब्राह्मे दिने प्राप्ते एत एव क्रमाद्विज ॥६॥ भवन्त्युतान्ये धर्मज्ञ एतन्मे च्छिन्धि संशयम् ॥ अथवा वर्तमानेऽस्मिन्सम्वता मम कीर्तिताः ॥ ७ ॥ मार्कण्डेय उवाच ॥ एत एव महाराज मनवस्तु चतुर्दश ॥ कल्पेकल्पे त्वया ज्ञेया नात्र कार्या विचारणा ॥८॥ एकरूपास्त्रयः कल्पा ज्ञातव्यास्सर्व एव हि ॥ क्वचित्किंचिदिहास्माञ्च मायया परमेष्टिनः ॥९॥ ज्ञातव्यमेकरूपत्वम्बद्धानां च तथा त्वया ॥ कल्पेकल्पे महाराज मनूनां च विशेषतः ॥ १० ॥ वज्र उवाच ॥ कल्पानां जनसादृश्ये मुक्तिनैवाप पद्यते ॥ कदाचिदपि धर्मज्ञ तत्र पश्यामि कारणम् ॥ ११ ॥ एकस्मिन्भवन्तरे मुक्तिं कल्पेकल्पे गते द्विज ॥ प्रभविष्यज्जगच्छून्यं कालंत्वनादंग भावतः ॥ १२ ॥ मार्कण्डेय उवाच ॥ जीवस्यात्यन्तय सर्गेण नरे मुक्तिमुपागते ॥ अचिन्त्यशक्तिर्भगवान्जाग्रत्यूयते सदा ॥ १३ ॥ ब्रह्मणा सह मुच्यन्ते ब्रह्मलोकमुपागताः ॥ मुज्यन्ते च महाकल्पे तद्विश्याश्चापरे जनाः ॥ १४ ॥ ते प्राप्ताः परमं स्थानं येषां जन्म न विद्यते ॥ समजीवप्रमाणाश्च सर्वे कल्पास्तथा नृप ॥ ब्रह्मलोके विष्णुलोके रुद्रलोके च ये गताः ॥ १५ ॥ विष्णुलोकात्सुभवो रुद्रलोकान्तथैव च ॥ श्वेत द्वीपाद्या ये च तेषां जन्म न विद्यते ॥ १६ ॥ न तु सर्वेषु राजेन्द्र तेषु मुक्तिः प्रकीर्तिता ॥ ब्रह्मलोकोपगैश्चाद्यै ये लोका गन्धर्वगणपाः ॥ १७॥ मयोदितास्तयोगेनत्वा पुनर्जन्म न विद्यते ॥ महाकल्पक्षये जीवाः मवे तं परमेश्वरम् ॥ १८ ॥ प्राप्यापि विनिवर्तन्ते विना ज्ञानेन यादव ॥ भूय एव तदा लोकान्सर्गे सृजति तान्प्रभुः ॥ १९ ॥ कल्पमध्ये तु कल्पान्ते ज्ञानोज्ज्वलकलेवराः ॥ प्राप्नुवन्ति परं स्थानं तद्विष्णोः परमं
॥ ४८ ॥
१ 'कालस्यैव प्रभावतः' इति ख०।
पद्मम् ॥ २० ॥ जीवबीजान्यसंगेण तत्स्थानं परमेश्वरः ॥ प्रपूरयति धर्मज्ञ राजन्केनापि हेतुना ॥ २१ ॥ वज्र उवाच ॥ कल्पानां सति सादृश्ये यो भेदो भृगुनन्दन ॥ तमहं श्रोतुमिच्छामि तत्र मे कौतुकं महत् ॥ २२ ॥ मार्कण्डेय उवाच ॥ कल्पानां सति सादृश्ये शृणु भेदं नराधिप ॥ समतीते यथा कल्पे षष्ठे मन्वन्तरे गते ॥ २३ ॥ सप्तमस्य चतुर्विंशे राजंस्त्रेतायुगे तदा ॥ यदा रामेण समरे सगणो रावणो हतः ॥ २४ ॥ रामेणैव तदा राजन्कुम्भकर्णो निपातितः ॥ वर्तमाने तु यद्वृत्तं कल्पे यदुकुलोद्वह ॥ २५ ॥ रामस्य चरितं बद्धं तदा वाल्मीकिना शुभम् ॥ अतीतकल्पे यद्वृत्तं मया तत्काव्यके वने ॥ २६ ॥ युधिष्ठिराय कथितं धर्मपुत्राय पार्थिव^१ ॥ कल्पानां सति सादृश्ये भेद एष तवेरितः ॥ २७ ॥ तेषां स्वरूपं च तथा तथा राजन्शुभक्रमम् ॥ ब्रह्मजन्मविसर्गश्च तथा तस्य पृथग्विधाः ॥ २८ ॥ कार्तिकेयस्य लक्ष्म्याश्च तथा देवस्य शूलिनः ॥ एवमाद्याः प्रभेदास्तु त्वया ज्ञेया नु पार्थिव ॥ कल्पादीनां महाराज चान्यत्रापि यदृदृहे ॥ २९ ॥ सादृश्येभेदविद् भूमिपाल कल्पस्यकल्पस्य मर्यादेतो ते ॥ युगादिभिन्नस्य च दैवतानि वक्ष्याम्यतस्तानि निबोध राजन् ॥ ३० ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं०कल्पासादृश्यो ना- मैकाशीतितमोऽध्यायः ॥ ८१ ॥ मार्कण्डेय उवाच ॥ भगवान्वासुदेवश्च तथा संकर्षणः प्रभुः ॥ प्रद्युम्नश्चानिरुद्धश्च कृतादीनां च देवताः ॥ ॥ १ ॥ तथा खण्डयुगानीह द्वादशोक्तानि भूपते ॥ षष्टाब्दं च विवर्त्तन्ते पञ्चाब्दानि पृथक्पृथक् ॥ २ ॥ तेषां तव प्रवक्ष्यामि दैवतान्यु पृथ- क्पृथक् ॥ विष्णुर्बृहस्पतिश्शक्रो वह्निस्त्वष्टा तथैव च ॥ ३ ॥ अहिर्बुध्न्यश्च पितरो विश्वेदेवा निशाकरः ॥ इन्द्राग्नी चैव नासत्यौ भगश्चैव महा- बलः ॥ ४ ॥ इति द्वादश ते प्रोक्ता मया खण्डयुगेश्वराः ॥ अथ षष्ट्यब्दनामानि निबोध गदतो मम ॥ ५ ॥ वर्तमाने तथा कल्पे षष्ठे मन्वन्तरे गते ॥ तस्यैव च चतुर्विंशे राजंस्त्रेतायुगे तदा ॥ ६ ॥ यदा रामेण समरे सगणो रावणो हतः ॥ लक्ष्मणेन तथा राजन्कुम्भकर्णो निपातितः ॥ ७ ॥ माधुशुक्लँ समारभ्य चन्द्रार्को वासपक्षगो ॥ जीवयुक्तौ यदा स्यातां षष्ट्यब्दादिस्तदा स्मृतः ॥ ८ ॥ प्रभवे विभवः शुकुः प्रमोदश्च प्रजापतिः ॥ वैष्णवे तु युगे पञ्च प्रोक्तास्संवत्सराश्शुभाः ॥ ९ ॥ अङ्गिरा श्रीमुखो भावो युवा धाता तथैव च ॥ अब्दा जीवयुगे पञ्च येषामाद्याश्शुभाह्वयः ॥ ॥ १० ॥ ईश्वरो बहुधान्यश्च प्रमाथी विक्रमो वृषः ॥ शक्राब्दाः पञ्च निर्दिष्टा येषामाद्याशुभो शुभौ ॥ ११ ॥ वह्निस्त्वभावानुत्तरणो वारिंदश्च तथाऽव्ययः ॥ आग्नेयाः पञ्च निर्दिष्टा द्वितीयं तेष्वशोभनम् ॥ १२ ॥ सर्वजित्सर्वधारी च विरोधी विकृतिः खरः ॥ त्वादू पञ्च युगे तेषां द्वितीयं तु
^१ 'पार्थिवश्च' इति ख० ।
चि० घ० ॥४१॥ प्र० सं० अ० ८२
शुभप्रदम् ॥ १३ ॥ नन्दनो विजयश्चैव जयः कामश्च दुर्मुखः ॥ आहिर्बुध्न्ये युगे पञ्च येषामद्या हिताह्वयः ॥१४॥ हेममाली विलम्बी च विकारी शर्वरी प्लवः ॥ पञ्चैते पञ्चयुगे तेषां पञ्चमश्च शुभप्रदः ॥ १५ ॥ शोककृच्छुभकृत्क्रोधी विश्ववसुपरावसू ॥ वैश्वे पञ्च शुभा ज्ञेया मन्दो राजनिदून चभौ ॥१६॥ प्लवङ्गः कीलकस्सौम्यस्सोमो रोधकएव च ॥ सौम्ये पञ्च शुभावोषां प्रथमान्तनराहुभौ ॥१७॥ धावनं मथनं वीरं राक्षसं चानलं तथा ॥ इन्द्राग्निदैवते पञ्च सर्व एव शुभप्रदाः ॥१८॥ पिङ्गलः काल्युक्तश्च सिद्धार्थो रौद्रदुर्मती ॥१ आश्विनेऽपि युगे पञ्च चतुर्थस्तेषु शस्यते ॥१९॥ दुन्दुभ्य द्गारकौ रक्तः क्रोधश्चापि क्षयस्तथा ॥ भाग्ये पञ्च शुभास्सर्वे विशेषेण तु पञ्चमः ॥ २० ॥ अतः परं चारवशादेवाहोचार्यस्य पार्थिव ॥ द्वादशाब्दाधिपांस्तूभ्यं कथयामि फलान्वितान् ॥ २१ ॥ आग्नेयकरणे जीवे वर्षं स्याद्वह्निदैवतम् ॥ अहितं तद्दिनिर्दिष्टं गोद्विजाभ्युपजीवि नाम् ॥ २२ ॥ सौम्यरोद्रोपगे जीवे सौम्यवर्षमुदाहृतम् ॥ ईतयस्सकला यत्र चानावृष्टिमयं तथा ॥ २३ ॥ आदित्यपुष्योगे चान्द्रो विज्ञेयो गुरु दैवतः ॥ शुभाङ्करो हितो लोके क्षमारोग्यसुभिक्षद्ः ॥ २४ ॥ सार्पपैत्र्योपगे जीवे पैत्र्यं वर्षमुदाहृतम् ॥ हार्द्दं वृष्टिमदं लोके शिवंसौम्यिच्छकार कम् ॥ २५ ॥ फाल्गुनीद्वयहस्तस्थे वर्षं भाग्यमुदाहृतम् ॥ चौराग्निवाल्यकं घोरं नारीदोषविपत्कारकम् ॥ २६ ॥ चित्रास्वातिगते जीवे त्वाष्ट्रः संवत्सरः शुभः ॥ शुक्रधान्यक्षयकरः शिविधान्यविवर्धनः ॥ २७ ॥ इन्द्राग्निदैवतं जीवे विशाखामैत्रसंस्थिते ॥ यज्ञाक्रियाप्रवृत्तानां हितं मुदितमानवम् ॥ २८ ॥ ज्येष्ठामूलगते जीवे शाक्रमब्धमुदाहृतम् ॥ शुकधान्यक्षयंकरं भूतानां भयवर्धनम् ॥ २९ ॥ आषाढाद्वयगे जीवे वैश्वदेवमुदाहृतम् ॥ नाशुभं न शुभं लोके राज्ञां विग्रहकारकम् ॥ ३० ॥ वैष्णवावासवस्थे तु वैष्णवं परिकीर्तितम् ॥ क्षेमसौभिक्षद्ं लोके पापीडापिपीडनम् ॥ ३१ ॥ प्रौष्ठपादद्वयगते जीवे वारुणसंस्थिते ॥ पूर्वधान्यप्रदं त्वाजं पश्चाद्धान्यविनाशनम् ॥ ३२ ॥ पौष्णश्विय्याम्यगे जीवे वर्ष स्यादश्विदैवतम् ॥ सुवृष्टिक्षेमदं लोके सर्वतोङ्गितिवर्जितम् ॥ ३३ ॥ चैत्रशुक्लसमारम्भे जगतां जगदीश्वर ॥ सर्व चक्रं तदा राजंस्ततस्तिथ्यात्सदा दिने ॥ ३४ ॥ संवत्सरशः क्रियते ब्रह्मणा तु सदा ग्रहः ॥ नागो यक्षश्च धर्मश्च गन्धर्वश्च तथैव च ॥ ३५ ॥ सत च्छिन्न्रे तु यः ज्ञेयः कल्पायतसमागणे ॥ आदित्यादित्य बोद्धव्यो ग्रहः संवत्सराधिपः ॥ ३६ ॥ आदित्येन सहानन्तो नागो भवति भूमिप ॥ चित्राङ्गदश्च गन्धर्वो दुर्धर्षो निशाचरः ॥३७॥ सौम्येन वासुकित्पन्नंगः पूर्णभद्रो निशाचरः ॥ चित्रसेनश्च गन्धर्वः समाश्वासी प्रकीर्तिताः ॥३८॥
१ 'हेमलंबी' इति ख०।
॥ ४१ ॥
भौमेन तक्षको नागो मणिभद्रो निशाचरः ॥ तदा चित्ररथो नाम गन्धर्व्वश्चाभिषिच्यते ॥ ३९ ॥ बुधेन नागः कार्कोटो यक्षभद्रो निशा- चरः ॥ तुम्बुरुर्नाम गन्धर्वः समासस्वाम्यभिषिच्यते ॥४०॥ जीवेन नागः पद्मांस्तु दीर्घबाहुर्निशाचरः ॥ गन्धर्व्वश्च महातेजास्तथा शालिशिरः प्रभुः ॥ ॥ ४१ ॥ महापद्मस्तु शुक्रेण नागो भवति भूपते ॥ नारदश्चैव गन्धर्वो महाबाहुर्निशाचरः ॥ ४२ ॥ सौरेण नागः शङ्खस्तु महाकर्णो निशाचरः ॥ ऊर्णायुश्चैव गन्धर्वः समासस्वाम्यभिषिच्यते ॥ ४३ ॥ अतः परं प्रवक्ष्यामि समासारूपं महीपते ॥ ग्रहस्वामिभवं तूर्यं शेषसर्व्वं तदाश्रयाः ॥ ४४ ॥ तीक्ष्णार्कस्त्वल्पमत्स्यश्च गतमेघोऽतिभास्करः ॥ बहुनागव्याधिगणो भास्कराब्दे रणोऽकुलः ॥४५॥ बहुवर्षोऽतिसस्यश्च गवां क्षीरप्रदायकः ॥ चन्द्रा- ब्दः कामिनामिष्टः चित्तवृद्धिमहीतलेः ॥ ४६ ॥ अग्नितस्कररोगाढ्यो नृपविमर्ददायकः ॥ गतसस्यो बहुव्यालो भौमाब्दो बालहा भृशम् ॥४७॥ विपक्षिक्षत्रियस्यानां जनानां च कलावृतम् ॥ बुद्धिप्रदोऽब्दो बौधस्तु बहुसस्याकरः क्षितौ ॥ ४८ ॥ बहुयज्ञोऽतिसस्यश्च गोगजाश्वहितस्तथा ॥ बहुवृष्टिमदः सौम्यो जीवाब्दो द्विजपुष्टिदः ॥ ४९ ॥ सस्याढ्यो धर्मबहुलो गतातंको बहूदकः ॥ कामिनां कामदः कामः सिताब्दो नृपशर्मदः ॥ ५० ॥ दुर्भिक्षमरकारोगान्नकरोति पवनस्तथा ॥ शनैश्चराब्दः शोकांश्च विग्रहाणि च भूसुजाम् ॥ ५१ ॥ क्रमेण परिवर्तन्ते पञ्च याद्व वत्सराः ॥ तेषामधिपतीन्वक्ष्ये नामानि च फलानि च ॥ ५२ ॥ पञ्च भक्ते तु यच्छेषं तिष्ठेद्गणने गते ॥ संवत्सरायः संज्ञेयो नित्यं संवत्सरो बुधैः ॥ ५३ ॥ आद्यः संवत्सरो नाम द्वितीयः परिवत्सरः ॥ इडाख्यश्च तृतीयोऽत्र चतुर्थश्चानुवत्सरः ॥ इद्वत्सरस्त्वयः कथितः तथा चैवात्र पञ्चमः ॥ ५४ ॥ संवत्सरोऽग्निः परिवत्सरोऽर्क इडाभिधानो भगवान्छशाङ्कः ॥ ब्रह्मा स्वयंभूरनुवत्सरोऽपि इद्वत्सरः शैलसुतापतिश्च ॥ ५५ ॥ वृष्टिः समाल्पे कथिता द्वितीये प्रभूततोया कथिता तृतीये ॥ पञ्चाज्जल मुञ्चति यश्चतुर्थः स्वल्पो- दकं पञ्चममब्दमुक्तम् ॥ ५६ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० स० अब्दफलनिर्देशो नाम द्व्यशीतितमोऽध्यायः ॥ ८२ ॥ मार्कण्डेय उवाच ॥ उत्तरं त्वयनं दिव्यं पित्र्यं स्याद्दक्षिणायनम् ॥ वसन्तश्चाग्निदैवत्यः शाक्रो ग्रीष्म उदाहृतः ॥ १ ॥ वैश्वदेवी तथा प्रावृट्प्रभाजा पत्या शरत्स्मृता ॥ हेमन्तो वैष्णवः प्रोक्तो मारुतः शिशिरः स्मृतः ॥ २ ॥ त्वाष्ट्रश्चैत्रस्तु वैशाखो मासश्चैवाग्निदैवतः ॥ ज्येष्ठश्चाक्रस्मृतो मास आषाढो वैश्वदेवतः ॥३॥ श्रावणो विश्वेदेवत्य आजो भाद्रपदस्तथा ॥ अश्वयुक्त्वाश्विनो मास आग्नेयः कार्त्तिकः स्मृतः ॥४॥ मार्गशीर्षस्तथा सौम्यः पौषस्त्याजीवदैवतः ॥ पैत्र्यो मासस्स्मृतो माघः फाल्गुनो भगदैवतः ॥ ५ ॥ मासेषु मासदेवत्या शुक्लपक्षाः प्रकीर्तिताः ॥ वक्ष्यामि
वि० ध० ॥ ६० ॥
प्र० सं० अ० ८३
कृष्णपक्षाणां दैवतानि तवानघ ॥ ६ ॥ चैत्रो वायव्यस्मृतो राजन्नाग्नेयश्चाप्यनन्तरः ॥ ज्येष्ठो रौद्रः स्मृतः पक्षस्त्वषाढः सार्प उच्यते ॥ ७ ॥ पित्र्यश्च श्रावणो मासः सावित्रश्चाप्यनन्तरः ॥ मैत्रश्चाश्वयुजो मासः शाक्राश्व्याश्विद्वैवतः ॥ ८ ॥ तथा च नैर्ऋतः सौम्यः पौषः स्याद्विष्णुदैवतः ॥ वारुणश्च तथा चैत्रः फाल्गुनः पौष्ण उच्यते ॥ ९ ॥ अतः परं प्रवक्ष्यामि गृहेषो गृहभूः स्मृतः ॥ अग्निरर्कस्सुतस्सोमो वरुणः परिकीर्तितः ॥ १० ॥ अङ्गारकः कुमारश्च बुधश्च भगवान्हरिः ॥ बृहस्पतिस्स्मृतः शक्रः शुक्लो देवी च पार्वती ॥ ११ ॥ प्रजापतिश्शनैश्चरो राहुज्ञेयो गणाधिपः ॥ विश्वकर्मा स्मृतः केतुर्ये ग्रहास्ते पुरः स्मृताः ॥ १२ ॥ अतः परं प्रवक्ष्यामि तव नक्षत्रदेवताः ॥ कृत्तिका चाग्निदैवत्या रोहिण्यर्कैश्वरा स्मृता ॥ १३ ॥ इन्दुक्षं सौम्यदैवत्यो रौद्रा चार्द्रा तथा स्मृता ॥ पुनर्वसुस्तथादित्यो पुष्यश्च गुरुदैवतः ॥ १४ ॥ आश्लेषा सर्पदेवत्या मघा च पितृदेवता ॥ भाग्याश्च पूर्वफाल्गुन्य आर्यमश्च तथोत्तराः ॥ १५ ॥ सावित्रश्च तथा हस्तोश्चित्रा त्वाष्ट्री प्रकीर्तिता ॥ स्वातिश्च वायुदैवत्या नक्षत्रे परिकीर्तिता ॥ १६ ॥ इन्द्राग्नीदैवता प्रोक्ता विशाखा यदुनन्दन ॥ मैत्रमृक्षमणूराधा शाक्रं ज्येष्ठा प्रकीर्तिता ॥ १७ ॥ तथा नैर्ऋत्यदैवत्यो मूलश्च तदुदाहृतम् ॥ आप्यस्त्वाषाढापूर्वाः स्युश्चोत्तरा विश्वदेवताः ॥ १८ ॥ ब्राह्मी चैवाभिजित्प्रोक्ता श्रवणो वैष्णवः स्मृतः ॥ वासवं च तथा ऋक्षं धनिष्ठा प्रोच्यते बुधैः ॥ १९ ॥ तथा शतभिषक्प्रोक्तं नक्षत्रं वारुणं नृप ॥ अजं भद्रापदापूर्वा आहिर्बुध्न्यं तथोत्तरा ॥ २० ॥ पौष्णं च रेवती चार्क्षमश्विनी चाश्विदैवतम् ॥ भरण्यश्च तथा याम्यं प्रोक्तास्ते ऋक्षदेवताः ॥ २१ ॥ ब्रह्मा प्रजापतिर्विष्णुर्यमस्सोमस्तथैव च ॥ कुमारो मुनयस्त्व ष्टाष्टा च मनवस्तथा ॥ २२ ॥ पिशाचश्च तथा धर्मो रुद्राश्चैकादश स्मृताः ॥ आदित्या द्वादश तथा कामदेवस्तथैव च ॥ २३ ॥ यक्षाश्च पितरश्चैव प्रतिप्रभृतिर्नृप ॥ तिथीश्वरास्तथा प्रोक्ता करणानामतः शृणु ॥ २४ ॥ तिष्यश्चभोणि करणं सदा भवति पार्थिव ॥ स्थिराणि तेषां चत्वारि सप्त विद्धि चराणि च ॥ २५ ॥ अन्ते कृष्णचतुर्दश्यां द्वितीयं शकुनिः स्मृतः ॥ प्रथमे पक्षद्वय्यर्थे कृष्णे प्रोक्तं चतुष्पदम् ॥ २६ ॥ तस्यैव चापरे राजंश्चात्पात्यं करणं मतम् ॥ शुक्लप्रतिपदर्धे तु किस्तुघ्नं करणं मतम् ॥ २७॥ एतानि राजन्प्रोक्तानि स्थिराणि करणानि तु ॥ कलिर्धर्मस्तथा सर्पो यंषां वायुश्च दैवतम् ॥ २८॥ शुक्लप्रतिपादार्थे तु द्वितीये यदुनन्दन॥ २९॥ पञ्चम्यों च तथा ह्यर्थे तत्पञ्चम्यां च तथा परे ॥ द्वादश्यथं तथा पूर्वं पौर्णमा स्यां तथा परौ॥ ३०॥ कृष्णपक्षचतुर्थ्यां तु प्रथमेऽर्द्ध तथैव च ॥ सप्तम्यां चापरे त्वर्थे ह्येकादश्यां तथाधिके॥३१॥करणं तु बवं नाम कथितं शक्रदैवत म् ॥ द्वितीयार्धे तथाह्य तु पञ्चम्यर्थे तथा परे ॥ ३२ ॥ नवम्यर्थे तथा पूर्वं द्वादश्यर्धे तथा परे ॥ कृष्णप्रतिपदायर्थे चतुर्थ्यर्थे तथा परे ॥ ३३॥
॥ ५० ॥
अष्टम्यर्थे तथा पूर्वे ह्येकादश्यां तथा परे ॥ बालवं नाम करणं कथितं ब्रह्मदैवतम् ॥ ३४ ॥ शुक्लपक्षे द्वितीयार्धे षष्ठ्यर्थे प्रथमे तथा ॥ नवम्यर्थे
तथैवान्ते त्रयोदश्यां तथाऽर्धके ॥ ३५ ॥ कृष्णप्रतिपदादिषु पञ्चम्यां प्रथमे तथा ॥ द्वितीयार्धे तथाप्यष्ट्यां द्वादश्यां प्रथमे तथा ॥ ३६॥ कौलवं नाम
करणं कथितं मित्रदैवतम् ॥ आद्ये शुक्लतृतीयार्धे षष्ठ्यर्थे च तथा परे ॥ ३७ ॥ कृष्णद्वितीयाप्रथमे पञ्चम्यर्थे तथा परे ॥ नवम्यर्थे तथा पूर्वे
द्वादश्यर्थे तथा परे ॥३८॥ तैतिलं नाम करणमार्यमणं कथितं बुधैः ॥ अन्ते शुक्लतृतीयार्धे सप्तम्यां प्रथमे तथा ॥ ३९॥ दशम्यर्थे तथैवान्ते चतुर्दश्यां
तथाऽर्धके ॥ कृष्णपक्षद्वितीयान्ते षष्ठ्यर्थे प्रथमे तथा ॥ ४० ॥ नवम्यां च तथैवान्ते त्रयोदश्यां तथाऽर्धके॥ गराभिधानं करणं पृथिवीदैवतं स्मृतम् ॥ ४१॥
शुक्लपक्षचतुर्थ्यर्थे सप्तम्यां च तथा परे ॥ एकादश्यां तथा पूर्वे चतुर्दश्यां तथा परे ॥ ४२ ॥ कृष्णतृतीयाप्रथमे षष्ठ्यर्थे च तथा परे ॥
दशम्यर्थे तथा पूर्वे त्रयोदश्यां तथा परे ॥ ४३ ॥ वणिजं नाम करणं श्रीदेवमभिधीयते ॥ शुक्लपक्षे चतुर्थ्यन्ते ह्यष्टम्यां प्रथमे तथा ॥ ४४ ॥
एकादश्यपरे चार्धे पौर्णमास्यां तथार्धके ॥ अन्ते कृष्णतृतीयार्धे सप्तम्यां प्रथमे तथा ॥ ४५ ॥ द्वितीये च दशम्यर्थे चतुर्दश्यां तथाऽर्धके ॥
विष्टिरेत्येव करणं कथितं मृत्युदैवतम् ॥ ४६ ॥ सर्वकर्मसु राजेन्द्र सर्वदा गर्हितं च तत् ॥ चतुर्विंशत्यहोरात्रे राजन्होराः प्रकीर्त्तिताः ॥ ४७ ॥
सूर्योदयादारभ्य दिनपाद्याः क्रमेण ताः॥४८॥ षट्क्रमेण च तथा क्रमं तासां निबोध मे ॥ अर्कशुक्रार्कशीघ्रेश-
ग्रहेशदेवगन्धर्वनगनागेश्वरप्रभाः ॥ ४९ ॥ सर्वासां च तथा काले राहुर्मुङ्क्ते महाग्रहः ॥ कुलिकश्च तथा नागो यक्षः पञ्चेतितेविदुः ॥ ५० ॥ अङ्गारपर्णश्च
तथा गन्धर्वश्चाभिधीयते ॥ कुलिकस्य तु या वेला सा वर्ज्या सर्वकर्मसु ॥ ५१ ॥ तस्यां भुक्ते भवेद्व्याधिर्विषं भुक्तं न जीर्यते ॥ प्रत्यक्षमापि
तादृक्स्य तस्यां दृष्टो न जीवति ॥ ५२ ॥ भुक्तं तस्यां न तु भेषज्यं न तु कार्यकरं भवेत् ॥ सा तु कुलिविदा ज्ञेया मन्त्रिणा भिषजा तथा ॥ ५३ ॥
अविज्ञाय तु तां वेलां ग्रस्ते राजपुङ्गव ॥ वैफल्यकरणात्सूढाः प्राप्नुवन्त्यपयशो महत्ताम्॥५४॥ प्रत्येकस्यैव वेलायां ग्रहोभोगं निबोध मे ॥ एकैका
तु भवेद्धोरा सार्धं विघटिकाशतम् ॥५५॥ विनाडिकाः सप्तषष्ट्या रवः षोडश कीर्त्तिताः॥ होरांकुलिकवेलास्तु शेषः कालो रखेःस्मृतः ॥ ५६ ॥
स्वहोरान्ते तथा वेलाश्वतस्तस्तु विनाडिकाः ॥ राहोश्चक्रस्य कथिताः शेषः कालः सितस्य च ॥५७॥ सौम्येहोरासमारम्भे चषको द्वौ प्रकीर्तितौ॥
होरा कुलिकवेला तु शेषः कालो बुधस्य च ॥ ५८ ॥ एकसप्ततिसुङ्ख्येय होरायां तु निशाभृतः ॥ अर्द्धौ तु कुलिकस्याक्ताः शेषः कालो निशा
१ 'घोरा' इति ख० ।
वि०ध० || ५१ ||
प्र० खं० अ० ८४
भूतः ॥ ५९॥ षडशीतिमतिक्रम्य चषकान्प्राग्विजस्य तु ॥ यच्छेषन्तद्दिनादिस्थः कालस्तु कुलिकस्य च ॥ ६० ॥ सप्तसप्तत्यतिक्रम्य सार्धान्तु
चषकानुरौ ॥ राहोस्तु चषको होरा शेषकालो गुरोर्मतः ॥६१॥ भौमेहोरासमारम्भे द्वात्रिंशत्तु विनाडिकाः ॥ वेला तु कुलिकस्योक्ता शेषः कालः
कुजस्य तु ॥ ६२ ॥ जीवशुक्रहोरासु सर्वकर्माणि कारयेत् ॥ क्रूरासु च तथान्यासु न किञ्चित्कुलिकस्य च ॥ ६३ ॥ अतः परं मुहूर्तानां
देवतानि निबोध मे ॥ सर्वकर्माणि विवर्त्तन्ते ह्यहोरात्रेण पार्थिव ॥६४॥ सततं ते विनिर्दिष्टा मुहूर्तास्त्रिंशदेव तु ॥ वज्र उवाच ॥ अष्टाविंशतिरिक्तानि
त्यक्त्वा तानि ममानघ ॥ ६५ ॥ त्रिंशन्मुहूर्ताश्च कथं त एव द्विजसत्तम ॥ मार्कण्डेय उवाच ॥ दिनरात्र्योस्समत्वे ह्यर्धं भवति पार्थिव ॥ ६६ ॥
तयोर्मध्ये च सप्ततमभिजिन्नामविधीयते ॥ तयोर्हिन्वान्वया त्रिंशन्मुहूर्ता विहितास्तव ॥ ६७ ॥ नक्षत्रेष्वाप्येतेषां देवताः परिकीर्तिताः ॥ केवलं
क्रमाह्वितश्च क्रमस्तेषां निबोध मे ॥ ६८ ॥ रौद्रस्सर्पस्तथा मैत्रः पित्रो वासव एव च ॥ आप्यो वैश्वस्तथा राजंश्चेश्वरः शक्रदैवतः ॥ ६९ ॥
ऐन्द्राग्नौ नैर्ऋतस्तु वारुणश्च महीपते ॥ आर्यम्णस्तु तथा भाग्यो मुहूर्तेस्तु दिवाचराः ॥ ७० ॥ रौद्रोऽजडोवहिश्चैवः पौष्णाश्विन एव च ॥
याम्योऽग्निदैवतश्चैव ब्राह्मस्सौम्यस्तथैव च ॥ ७१ ॥ आदित्यो जीवदेवत्यो वैष्णवः सूर्यदैवतः ॥ त्वाष्ट्रश्चैवाथ वायव्यो मुहूर्तो
रात्रिवारिणः ॥ ७२ ॥ अतः पञ्चदशो भागो रात्रेश्च यदुनन्दन ॥ मुहूर्त्तसंज्ञः कथितो मुनिभिस्तत्त्वदर्शिभिः ॥ ७३ ॥
महाकल्याद्यथास्थ्य कालावयवदेवताः ॥ उक्तास्तव मुहूर्त्ताश्च तेषां काले स्वकेऽर्चनम् ॥ ७४ ॥ महाफलं हि निर्दिष्टं स्याद्वियोगे विशेषतः ॥
स्वकाले देवताः पूज्याः सोपचारैर्विशेषतः ॥ तस्यास्सकाशादिष्टम्ये कामयदिष्टमहंफलम् ॥ ७५ ॥ काले स्वके यः प्रयतस्तु भक्त्या देवान्यथावत्स
मृपैति राजन् ॥ सपर्धया तस्य दिशन्ति देवाः फलानभीष्टान्यृतु लोहिताक्ष ॥७६॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० कालावयवदैवतानां
माहात्म्यवर्णनो नाम त्र्यशीतितमोऽध्यायः ॥ ८३ ॥ मार्कण्डेय उवाच ॥ लग्नानि द्वादशैतानि दिनरात्रेण नित्यशः ॥ यथादित्यः स्थितो राशौ
तंदद्यानि नराधिप ॥ १ ॥ मेषो वृषोथ मिथुनः कुलिङ्गस्सिंह एव च ॥ कन्या तुला तथा कीटो धन्वी मकर एव च ॥ २ ॥ कुम्भो मीनश्च राजेन्द्र
लग्ना द्वादश कीर्तिताः ॥ कुजशुक्रो बुधश्चेन्दुः सूर्य्यशुक्रौन्दिसत्तथा ॥ ३ ॥ भौमो जीवश्च सौरश्च शनिजीवौन्दवश्च च ॥ मेषादीनां क्रमेणोक्ताः
प्रभावः पृथिवीपते ॥४॥ लग्नस्यार्धं स्मृता होरा तयोर्विपमराशिषु ॥ आदित्यचन्द्रौ चन्द्रार्कौविषमे समराशिषु ॥ ५ ॥ लक्षात्रिभागो दृष्काणः
॥ ५१ ॥
१ 'व्याधियोगे' इति ख० । २ 'खोपवासैः' इति ख० । ३ 'बुद्यादिषु' इति ख० । ४ 'भौमो जीवस्सनैश्चारी सोरो जीवस्तथैव च' इति ख० ।
क्रमात्तेषां तथेश्वराः ॥ लग्नेशः¹ पंचमेशश्च नवमेशस्तथैव च ॥६॥ मेशाद्याः कथिता नित्यं मेषसिंहधनुर्धराः ॥ मकराद्यास्तथा प्रोक्ता वृषकन्यामृगा
स्तथा ॥७॥ तुलाद्या मिथुनस्तौली कुम्भश्च वसुधाधिप ॥ कुलीरश्च कोटौ मीनस्तथैव च ॥८॥ आवृत्तौ राशिप्रभृति गणनीया नवांशकाः॥
राशीनां तु यथोक्तानां क्रमाच्च नवेश्वराः ॥ ९ ॥ स्वराशितस्तथारभ्य क्रमेणैव नवेश्वराः ॥ राशीश्वराः प्रोक्ता राशीनां द्वादशांशकाः ॥ १० ॥
पंच भौमस्य सौरस्य पंच त्रिंशंशका मताः ॥ जीवस्याष्टौ विनिर्दिष्टाः सप्त प्रोक्ता बुधस्य तु ॥ ११ ॥ शुक्रस्योक्तास्तथापञ्च राशौ विषम
संज्ञके ॥ आद्यास्तु पञ्च शुक्रस्य ततस्सप्त बुधस्य च ॥ १२ ॥ जीवस्याष्टौ तथा प्रोक्ताः पञ्च सौरस्य चाप्यथ ॥ कुजस्य तु तथा पञ्च
राशौ तु समसंज्ञके ॥ १३ ॥ लग्नं च होरा च तथा द्रिकाणं नवांशकं द्वादशभागसंज्ञम् ॥ त्रिंशांशकं चाप्यथ पञ्चमद्रमाहुर्मुनेयञ्च
लग्नम् ॥ १४ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० षड् लग्नवर्णनो नाम चतुरशीतितमोऽध्यायः ॥८४॥ वज्र उवाच ॥ शुभो वाप्यशुभो
वापि कथं काले महीतले ॥ ज्ञायते भार्गवश्रेष्ठ तन्ममाचक्ष्व पृच्छतः ॥ १ ॥ मार्कण्डेय उवाच ॥ कृत्तिका याम्यवायव्ये नागवीथ्युत्तरोत्तरे ॥
गजवीथीतुहृदये प्राजापत्यादयस्त्रयः ॥२॥ ऐरावणे द्वुङ्भागे³ अहोरात्रचतुष्टयम् ॥ मध्ये वरे तथावीथी फल्गुनीऋक्षयोर्द्वयोः ॥३॥ मध्यमध्ये तु
गोवीथी अजायं भचतुष्टयम् ॥४॥ मध्यान्ते जरद्गः स्यात्त्रितयं श्रवणादिकम् ॥४॥ याम्योत्तरेण तु मृगा हस्तचित्रे प्रकीर्तिते ॥ अजदक्षिणमध्ये तु
विशाखा मैत्रेयस्सुताः ॥५॥ आविकायाम्थयाम्ये तु शक्राद्यं भचतुष्टयम् ॥ वैश्वानरपथं प्राहुस्तमेवात्यन्तदारुणम् ॥६॥ उद्यास्तमयामयां च
चारेण च तथा ग्रहाः ॥ उत्तरासु⁵ शुभाः प्रोक्ता दक्षिणास्वशुभावहाः ॥७॥ सुप्रभारश्मिमन्तश्च नागवीथ्यां यदा ग्रहाः ॥ न तदस्ति शुभं लोके
यत्र पश्यन्ति मानवाः ॥ ८ ॥ विरस्मयो विवर्णाश्च वैश्वानरपथाश्रिताः ॥ न तदस्ति शुभं राम यन्न कुर्य्युर्जगत्त्रये ॥ ९ ॥ रोहिणीशकटं भित्त्व
ग्रहा यदि भवेत्तदा ॥ नाशः प्रजानां क्रूरैश्च विशेषेणान्न लक्ष्येतो॥ १०॥ सौरराहुसूर्याः क्रूरास्तु तथा क्षीणश्च चन्द्रमाः॥ क्रूरैर्युक्तो बुधश्चैव राहुः केतुस्तथैव
चा॥ ११॥ शेषास्सौम्याग्रहाः प्रोक्ता मुनिभिस्तत्वदर्शिभिः॥ रोहिणी कृत्तिका पित्र्यं वैष्णवं मैत्रमेव वा ॥१२॥ पीडयन्तो ग्रहा हन्युर्देशं वरुणपालिताम्॥
पूर्वस्यां दिशि दृश्यन्ते सर्वतारग्रहा यदि ॥ १३ ॥ प्राच्यानां तु तदा राज्ञां भवेत्पीडा सुदारुणा ॥ मध्ये च यदि दृश्यन्ते मध्यदेशनिवासि
नाम् ॥ १४ ॥ वारुण्यां यदि दृश्यंते² तां दिशं पीडयन्ति च ॥ हीनाधिकं चरन्तश्च व्योम्ने वाऽदर्शनं गताः ॥१५॥ धूमायन्तो ज्वलन्तो वा वद्यन्ति
¹ 'तदा मध्ये' इति ख० । ² 'दृश्यन्तु' इति क० । ³ 'बुद्ध्याने' इति ख० । ४ 'भे' इति ख० । ५ 'उत्तरायां शुभाः' इति क० ।
वि० घ० ॥ ५२ ॥ प्र० सं० अ० ८५
महद्भयम् ॥ एकान्तरितनक्षत्रगताः स्युश्चेद्ग्रहा दिवि ॥ १६॥ मालारूढामे भवद्योगो मध्यदेशक्षितीशहा ॥ प्रासर्के धनुर्वत्रे सत्यानां क्षुद्विधायिनाम् ॥ १७॥ ग्रहा भयावहा नित्यं शृङ्गाटकपुरोगमाः ॥ भवेद्युरेकेर्शगतास्त्रिभिर्ऋद्धं यदा ग्रहाः ॥ १८॥ विनाशायैव लोकानां विज्ञेयासुमहत्क्षिताम् ॥ एकेन यदि वा द्वाभ्यां ग्रहाभ्यां सहितो गुरुः ॥ १९ ॥ शनैश्चरो वा दृश्येत तदा दुर्भिक्षमादिशेत् ॥ चित्रायां लोहितो यत्र मूले देवगुरुस्तथा ॥ ॥ २० ॥ भार्गवश्च श्रविष्ठासु तदा घोरं भयं भवेत् ॥ कृत्तिकासु शनैश्चारी विशाखासु बृहस्पतिः ॥ २१ ॥ स्थितौ प्रजानां पीडायै वृष्टिमन्त- र्द्दिवं भवेत् ॥ प्राग्द्वारेषु चरन्भेषु सौरो वक्रामियाद्यदि ॥ २२ ॥ पृथिवीं पीडयेत्सर्वां पूर्वदेशं विशेषतः ॥ रौद्रे हस्ते तथैवाप्ये आदिहस्त्ये शनै- श्चरः ॥ २३ ॥ यदोदयं प्रपद्येत तदा नश्यन्ति पार्थिवाः ॥ सौम्ये त्वाष्ट्रे श्रविष्ठासु स्थिते सौरे महीक्षितः ॥ २४ ॥ सर्वपीडां समर्चन्ति यथा यान्ति यमान्तिकम् ॥ पूर्वा पराशरा संप्राप्तौ भुञ्जीयौ परस्परम् ॥ २५ ॥ सप्तमर्क्षगतौ स्यातां तदा देवो न वर्षति ॥ अपवर्णि शशाङ्कार्को सद्योनाम महाग्रहः ॥ २६ ॥ आवृणोति तमः श्यामः सर्वलोकविपत्तये ॥ उदयास्तमये भानोश्चन्द्रस्य च यदा भवेत् ॥ २७ ॥ परिवेषस्तदा राजा क्षिप्रं वधमवाप्नुयात् ॥ सकलं चेद्रवौसूर्यो रात्रिं चेत्सकलो शशी ॥ २८ ॥ परिवेषी भवेद्राजा तत्रापि वधमर्हति ॥ द्विसूर्ये गगने वृद्धिं क्षत्रियाणां विनिर्दिशेत् ॥ २९ ॥ द्विचन्द्रे ब्राह्मणानां तु चाधिक्यं प्रलयाय तु ॥ ३० ॥ उदयास्तमयो यत्र सोमार्कौ रक्तमण्डलो ॥ ३० ॥ न चात्रा अपि दृश्यन्ते तन्महाभयलक्षणम् ॥ चन्द्रामा जन्म नक्षत्रं परित्यजति यस्य तु ॥ ३१ ॥ स्थायो रूपोपसव्यं तु तस्य विद्यादुपद्रवम् ॥ अन्यन्ता दर्शने राहोस्तथा चात्यन्तदर्शने ॥ ३२ ॥ प्रजापीडा विनिर्द्देश्या व्याधिदुर्भिक्षतस्करैः ॥ यन्नक्षत्रगतो गृह्येत चन्द्रमाभानुको ॥ ३३ ॥ प्रजा- तानां भवेत्पीडा ये नराश्शान्तिवर्जिताः ॥ ग्रहोपसृष्टे नक्षत्रे ग्रहणं तु यदा भवेत् ॥ ३४ ॥ तदा पीडा विनिर्द्देश्या सैनिकानां नृपस्यतु ॥ गृह्णीतो राहुणा चन्द्रः सूर्यो वा गगनाच्च्युतः ॥ ३५ ॥ उल्कानि हन्यात्तत्रान्यो राजा राज्यं करिष्यति ॥ गृहीतो परिवेषे तो यदा चन्द्रदिवाकरौँ॥३६॥ समन्तातपीड्यते देशः शस्त्राकोपश्च जायते ॥ मेघेस्संछाद्यते राहुस्सूर्त्तवत्तपति वा यदा ॥ ३७ ॥ अकालजस्तदा राज्ञो भयं विद्यादुपस्थितम् ॥ यत्र क्षत्रागते सूर्ये छिद्रं वै संप्रपद्यते ॥ ३८ ॥ तज्जातः पार्थिवः क्षिप्रं यमलोकं गमिष्यति ॥ तत्रानुङ्कुमरुक्षाम्रो घृतदग्धाग्निसन्निभः ॥ ३९ ॥ वन्धु- जीविनिभो भानुः शिशिराद्येषु शस्यते ॥ अस्यच्छवर्णः परुषो वर्णैतः खण्डमण्डलः ॥४०॥ संच्छिद्र रस्रा ध्वस्त उल्काधूपहतोपि वा ॥ मण्डला
॥ ५२ ॥
१ 'बालार्वे' इति ख० । २ 'प्रपद्येत्' इति क० । ३ 'महीतलात्' इति क० । ४ 'रतिवद्वितन्वदा भवेत्' इति ख० ।
दन्यसंस्थानं मैत्रैश्चायुधसन्निभैः ॥ ४१ ॥ उदयास्तमये च्छन्नः पार्थिवानां न शस्यते ॥ पक्षादौ चापसंस्थाने युद्धं शशिनि निर्दिशेत् ॥ ४२ ॥
लाभस्तेषां जयस्तेषां यत्र दृष्टं भयं ततः ॥ समकोटिविशालश्च किंचिदाप्लुत्तरोन्नतः ॥ ४३ ॥ मासादौ चन्द्रमाः शस्तो वाम एव विपर्य्ययः ॥
मण्डलेनान्तरिकुर्व्वञ्छृङ्गे सा यदि वा स्पृशेत् ॥ ४४ ॥ तारामहं तदा कुर्य्याद्व्यं जनपदं शशी ॥ शुक्लपक्षस्य या वृद्धिलौके क्षेमसुभिक्षदा ॥ ४५ ॥
सा सितेतरपक्षस्य पृथिव्यां नैव शस्यते ॥ श्रवणेऽभ्युदितो भौमः पुष्ये वक्रमियाद्यदि ॥ ४६ ॥ प्राजापत्युदितश्चन्द्रो नाशाय स्यान्महीक्षिताम् ॥
गतागतं यदा कुर्य्यान्मघामध्येन लोहितः ॥ ४७ ॥ तदा भवतयनावृष्टिः पाण्ड्यो राजा विनश्यति ॥ फल्गुन्योदयमुद् गत्वा वक्रः स्याद्वैश्रदेवके ॥ ४८ ॥
प्रजापत्ये प्रवासश्च त्रैलोक्यं तत्र पीड्यते ॥ ध्रुवेषु वैष्णवे मूले शाक्रे च विचरन्कुजः ॥ ४९ ॥ घोरं करोत्यनावृष्टिं कृत्तिकासु मघासु च ॥
कार्त्तिकेऽभ्युदते पौषे चाषाढे श्रावणे बुधः ॥ ५० ॥ दृष्टो लोके भ्याय स्यान्माघवैशाखयोस्तथा ॥ अकस्माच्च दृश्येत दिवा देवपुरोहितः ॥ ५१ ॥
राजा वा म्रियते तत्र स वा देशो विनश्यति ॥ अहस्सर्व्वं यदा शुक्लो दृश्यतेऽथ महाग्रहः ॥ ५२ ॥ तदा त्वग्न्यादिभिर्मान्यान्बाधते
नगराणि च ॥ कार्त्तिके तु यदा मासि कुर्व्वीतास्तमयोदयौ ॥ ५३ ॥ तदर्द्धं नवतिं पूर्णं भुवि देवो न वर्षति ॥ शनैश्चरो देशपीडां
देशनक्षत्रपीडने ॥ ५४ ॥ ध्रुवं करोति राजेन्द्र नित्यं चारवशेन तु ॥ सप्ताहान्तर्गता ये वै दिव्यान्तरिक्षनामसाः ॥ ग्रहोपरागणे तीव्रास्त्यूरुपत्पाताः
स्वफलेषु ते ॥ ५५ ॥ एकस्मिन्यदि मासे स्याद्ग्रहणं चन्द्रसूर्य्ययोः ॥ ब्रह्मक्षत्रविरोथाय विपरीतविवृद्धये ॥ ५६ ॥ यस्मिन्दृश्येत नक्षत्रे विशाखायां
प्रधूपवत ॥ तद्देशजाता पीडा स्याद्बुधकेतुमहाग्रहाः ॥ ५७ ॥ उल्काभिर्निहते सूर्ये केतुभिर्वा विदूमिते ॥ अगस्त्ये वा ध्रुवे वापि प्रजापीडां
विनिर्दिशेत् ॥ ५८ ॥ उल्काभिमहता रूक्षा स्फुलिङ्गा रजसा युताः ॥ ऋषयस्तस्त लोकानां विनाशाय च भूभृताम् ॥ ५९ ॥ कृत्तिकाभिस्म
होदेति शांकरीं दिशमाश्रितः ॥ कुमारीप्रतितीतो हन्याल्लोके नृपकुमारकान् ॥ ६० ॥ समागमे ग्रहाणां तु चन्द्रमाः शस्यते बुधक ॥
नक्षत्राणां च राजेन्द्र दक्षिणेन न शस्यते ॥ ६१ ॥ राहुः केतुः कुजः शुक्रश्चन्द्रेण सह यायिनः ॥ बुधो जीवश्च सौरश्च नागरा रविणा सहा ॥ ६२ ॥
यायिना विजिते पौरे राज्ञां स्याद्यायिनां जयः ॥ यायिभृद्दे पौरजिते पुरा राज्ञां जयो मृधे ॥ ६३ ॥ पौरेण विजिते पौरे पौरः पौरक्षयं वदेत् ॥
यायिना यायिनो हन्ते यायिनो यायिनां क्षयः ॥ ६४ ॥ ग्रहाणां चेद्भवत्साम्यं साम्यं राज्ञां विनिर्दिशेत् ॥ जयाजयौ नरेन्द्राणां निर्दिश्ये
१ 'उद्येत्तमये भानुः' इति ख०। २ 'पृष्ठमयम्' इति ख०। ३ 'नित्यमेवे' इति ख०। ४ 'यदा'इति ख०। ५ 'स्फुरणा' इति क०। ६ 'पुराज्ञाम्' इति क०। ७ 'पौरेण विजिते चौरे चौरौश्चक्षयं वदेत्' इति ख०।
वि० ध० ॥ ६३ ॥ प्र० खं० अ० ८७
ग्रहवृद्धैः ॥ ६६ ॥ महाह्रस्वस्तुस्तस्यानात्स्फुरेण विजितो ग्रहः ॥ विजितो जयलिङ्गैश्च कृष्णः श्यामद्युतिस्तथा ॥ ६६ ॥ उद्धमार्गगतिः स्निग्धो विमलो विमलप्रभः ॥ बृहस्पतिश्शुक्रश्च विजयी कथितो ग्रहः ॥ ६७ ॥ न दैवमेतच्चपलस्य लोके न नास्तिकस्याप्यधमपुरुष्य ॥ गुह्यं मुनीनामपि पार्थिवेन्द्र मयोदितं कालविनिश्चयं तो ॥ ६८ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० ग्रहशुभाशुभपरिज्ञानवर्णनं नाम पञ्चाशीतितमोऽध्यायः ॥ ८५ ॥ वज्र उवाच ॥ प्रतिदेशं महाभाग कथं प्राप्तेऽनुपद्रवम् ॥ विज्ञायते द्विजश्रेष्ठ तन्ममाचक्ष्व पृच्छतः ॥ १ ॥ मार्कण्डेय उवाच ॥ कृत्तिकां रोहिणीं सौम्यं मध्यदेशस्य निर्दिशेत् ॥ पीडिते त्रितयेऽतस्मिन्मध्यदेशः प्रपीड्यते ॥ २ ॥ आर्द्रा पुनर्वसुं पुष्यं पूर्वदेशस्य निर्दिशेत् ॥ पीडिते त्रितये तस्मिन्पूर्वदेशः प्रपीड्यते ॥ ३ ॥ आश्लेषां तु मघां पूर्वा चाग्नेय्यां दिशि निर्दिशेत् ॥ पीडिते त्रितये तस्मिन्नाग्नेयी पीड्यतेऽथ दिक् ॥ ४ ॥ आर्य्यणमथ हस्तं च त्वाष्ट्रं स्वातिदिशि दक्षिणे ॥ पीडिते त्रितये तस्मिन्पीड्यते दक्षिणा च दिक् ॥ ५ ॥ स्वातिं विशाखां मैत्रं च नैर्ऋत्यां दिशि निर्दिशेत् । पीडिते त्रितये तस्मिन्पीड्यते नैर्ऋती च दिक् ॥ ६ ॥ वायव्यां दिशि निर्द्दिष्ट्वा वैष्णवष्णववासवाः । पीडिते त्रितये तस्मिन्वायवी पीड्यते च दिक् ॥ ७ ॥ वारुणं चाजदैवत्यं चाहर्बुध्न्यं तथोत्तरे ॥ पीडिते त्रितये तस्मिन्नुत्तरा दिक्प्रपीड्यते ॥ ८ ॥ रेवती चाश्विनी याम्येशानी दिक् प्रपीडिता ॥ पीडिते त्रितये तस्मिन्नीशानी दिक् प्रपीड्यते ॥ ९ ॥ आदित्यो भृगुजौ भौमो राहुस्सौरौ निशाकरः ॥ बुधो बृहस्पतिश्चैव प्राच्यादीशाः प्रकीर्तिताः ॥ १० ॥ विध्वस्तवपुषस्ते च ग्रहयुद्धे पराजिताः ॥ नीचाः पितृगृहस्थाश्च स्वां दिशं पीडयन्ति ते ॥ ११ ॥ वज्र उवाच ॥ स्वदेशपीडनं कुर्व्वन्स्ततः पीडतः कथम् ॥ सर्वमेतन्ममाचक्ष्व सर्वधर्मभृतां वर ॥ १२ ॥ मार्कण्डेय उवाच ॥ शनैश्चरार्को भारेण वक्रेणाङ्गारको ग्रहः ॥ उपरागेण राहुश्च केतुश्चारूमनोदयैः ॥ १३ ॥ उदयास्तमयाभ्यां च जीवशुक्रशशाङ्कजाः ॥ संच्छादनेन च शशी ह्यन्यन्यश्चैव योगतः ॥ १४ ॥ तथा यस्मिंश्च नक्षत्रे दिग्यपार्थिवनामभाः ॥ दृश्यन्ते तु महीपालाः स्वां दिशं संप्रपीडयेत् ॥ १५ ॥ देशेषु सर्वेषु मयोक्तं ते शुभाशुभं यादवमुख्यनाथ ॥ अतः परं धर्मभृतां वरिष्ठ वदस्व किं ते कथयामि राजन् ॥ १६ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०मु० प्रतिदेशपीडावर्णनं नाम षडशीतितमोऽध्यायः ॥ ८६ ॥ ॥ वज्र उवाच ॥ शुभाशुभपरिज्ञानं भवतानुकृपं प्रति ॥ तत्तोहं श्रोतुमिच्छामि तन्ममाचक्ष्व पृच्छतः ॥ १ ॥
१ 'विजये' इति क० । २ 'प्राप्तं' इति ख० । ३ 'कीर्तितम्' इति क० ख० ।
॥ ६३ ॥
मार्कण्डेय उवाच ॥ जन्माश्रितस्त्रिपञ्चश्च सप्तमो दशमस्तथा ॥ एकादशः शशी येषां तदा तेषां शुभं भवेत् ॥ २॥ जन्मून्यथ चतुर्थे च साष्टमे दशमे तथा ॥ एकादशे बुधो येषां तेषामपि शुभं वदेत् ॥ ३ ॥ द्विषट्त्रिभगतेा जीवस्सप्तमो नवमस्तथा ॥ एकादशस्तथा ह्येषां तेषामपि शुभं वदेत् ॥ ॥ ४ ॥ षष्ठसप्तमगः शुक्लो दशमे न च शोभनः ॥ द्वादशश्च तथा ह्येषां तेषां पीडां विनिर्दिशेत् ॥ ५ ॥ तृतीये दशमे षष्ठे तथा चैकादशे शुभाः ॥ सौरारातीक्ष्णकिरणा येषां तेषां शुभं वदेत् ॥ ६ ॥ यस्मिन्हि जननं यस्य जन्मक्षं तस्य तत्स्मृतम् ॥ चतुर्थं मानसं तस्मा- द्दशमं कर्मसंज्ञितम् ॥ ७ ॥ संघांतकं षोडशं स्यात्सासुदायिकम् ॥ वैनाशिकं तु नक्षत्रं कर्मक्षं यत्त्रयोदशम् ॥ ८ ॥ षण्णक्षत्रस्तु पुरुषस्त्वंः प्रोक्तो महीपते ॥ राजा च नवनक्षत्रो नक्षत्रत्रितयं शृणु ॥ ९ ॥ नित्यमभ्यधिकं पञ्च्यः पार्थिवस्य नृपोत्तम ॥ देशाभिषेकनक्षत्रौ जातिनक्षत्रमेव च ॥ १० ॥ जात्याश्रितानि वक्ष्यामि नक्षत्राणि तवानघ ॥ पूर्वत्रयमथाम्नेयं ब्राह्मणानां प्रकीर्तितम् ॥ ११ ॥ उत्तरात्रितयं पुष्यं क्षत्रियाणां प्रकीर्तितम् ॥ पौष्णं मैत्रं तथा पित्र्यं प्राजापत्यं विशां स्मृतम् ॥ १२ ॥ आदित्यमाश्विनं हस्तः शूद्राणामभिजि- त्तथा ॥ सार्पं विशाखा याम्यं च वैष्णवं च नराधिप ॥ १३ ॥ प्रतिलोमभवानां च सर्वेषां परिकीर्तितम् ॥ ईदृहे ह्यर्हतानिस्त्यान्जन्मक्ष- च्चोपतापिते ॥ १४ ॥ कर्मक्ष कर्मणां हानिः पीडा मनसि मानसे ॥ मूर्तिद्रविणबन्धूनां हानिसंघातिके हते ॥ १५ ॥ संतेते सानुदायक्ष मित्रभृत्यार्थसंक्षयः ॥ वैनाशिके विनाशस्स्याद्देहद्रविणसंपदाम् ॥ १६ ॥ पीडिते चाभिषेकक्षं राज्यभ्रंशं विनिर्दिशेत् ॥ देशक्ष पीडिते पीडा देशस्य च पुरस्य च ॥ १७ ॥ पीडिते जातिनक्षत्रे राज्ञो व्याधिं विनिर्दिशेत् ॥ १८ ॥ ग्रहसंजातां समावाप्य पीडां पूजा तु कार्या विधिना स्वकेनेन ॥ ततश्शुभं विन्दति राजसिंह विद्रुतपापः पुरुषस्तदैव ॥ १९॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० प्रतिपुरुषाङ्गाभिनिर्देशो नाम सप्ताशीतितमोऽध्यायः ॥ ८७ ॥ वज्र उवाच ॥ ग्रहाणां भृगुशार्दूल नक्षत्राणां तथैव च ॥ पूजने विधिमाचक्ष्व तत्र मे संशयो महान् ॥ १ ॥ मार्कण्डेय उवाच ॥ ग्रहस्याधिपतिः कार्यों नित्यं मण्डळके बुधैः ॥ नक्षत्रऋन्दसहितस्तथा सावित्पतिर्नृप ॥ २ ॥ संख्याता तारकास्तस्य यथावन्मनुजेश्वर ॥ तेषां तारकसंख्यानं निबोध गदतो मम ॥ ३ ॥ रौद्रं पुष्यं तथा त्वाष्ट्रं वायव्यं वारुणं तथा ॥ पौष्णं च पार्थिवश्रेष्ठ कथितं त्वेकतारकम् ॥ ४ ॥ द्वितारं फल्गुनीयुग्मं तथा भाद्रपदाद्वयम् ॥ आदित्यं च तथा मूलं चैन्द्राग्नं चाश्विनं तथा ॥ ५ ॥ त्रितारं भरणी सौम्यमैन्द्रं
१ 'सांघातिकम्' इति ख० । २ 'सप्तसमुदयं स्तहम्' इति ख० । ३ 'वैनाशिकम्' इति ख० । ४ 'समुदयं' इति ख० ।
| वि० ध० | पृ० सं० |
|---|---|
| ॥ ६४ ॥ | अ० ८१ |
ब्राह्मं सर्वैष्णवम् ॥ चतस्रस्तामथाषाढे द्वे मैत्रे यदुनन्दन ॥ ६ ॥ पञ्चतारः स्मृतो हस्तः प्राजापत्यं च वासवम् ॥ सार्प पित्र्यमथार्यम्यं पञ्चतारं परिकीर्तितम् ॥ ७ ॥ आदित्यमण्डलं कार्यं पद्मवर्णं नराधिप ॥ श्वेतं चन्द्रमसः कार्यं रक्तं कार्यं कुजस्य च ॥ ८ ॥ नीलं बुधस्य कर्तव्यं पीतवर्णं बृहस्पतेः ॥ श्वेतं शुक्रस्य कर्तव्यं कृष्णं सौरस्य पार्थिव ॥ ९ ॥ आकाशवर्णं तमसः केतोर्धूम्रभं तथा ॥ रक्तवर्णं कृत्तिकानां फाल्गुनीद्वितयस्य च ॥ १० ॥ हस्तस्य च सपौष्णस्य मैत्रस्य च नराधिप ॥ पीतं पुष्यस्य केश्यस्य शाक्राडवायोस्तथा ॥ ११ ॥ श्वेते सौम्यस्य रौद्रस्य आप्यवारुणयोस्तथा ॥ आदित्यसार्पिषण्णां ब्राह्मवायव्ययोस्तथा ॥ १२ ॥ प्रौष्ठपादद्वयस्याथ श्वेतमेवाभिधीयते ॥ विचित्रवर्णं त्वाष्ट्रस्य वैश्वदेवस्य चाप्यथ ॥ १३ ॥ आश्विनस्य तथा कार्य नित्यमेव नराधिप ॥ कृष्णं याम्यस्य मूलस्य पालाशं श्रवणस्य च ॥ १४ ॥ विशाखायां पीतरक्तं कर्तव्यं नृपमण्डलम् ॥ १५ ॥ यथोक्तेनार्चनं नरेन्द्र कृत्वा पूर्वं ग्रहस्थानथ मण्डलं स्वम् ॥ ऋक्षस्य वा पूज्यत- मस्य राजन्पूजा विधेया तदनन्तरं च ॥ १६ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० ग्रहमण्डलनिवेशो नामाकाशीतितमोऽध्यायः ॥ ८८॥
मार्कण्डेय उवाच ॥ शकृन्मूत्रं तु संगृह्य श्वेतस्य वृषभस्य च ॥ श्वेतगोः पयसा सार्धं स्नातव्यं कुशवारिणा ॥ १ ॥ जन्मऋक्षपीडायां तत्स्नानोपा- द्विमुच्यते ॥ शिरीषचन्दनाश्वत्थताटनागसुभिर्नरः ॥ २ ॥ स्नानञ्चेन्मानसे तते तस्माद्दोषा विमुच्यते ॥ सिद्धार्थकान्प्रियङ्गुं च शतपुष्पां शतावरीम् ॥ ३ ॥ स्नातव्यमम्भसि क्षित्त्वा कर्मक्षै नृप पीडिते ॥ प्रियङ्गुर्विल्वसिद्धाथैयवाध्वत्यसुराह्वाय् ॥ ४ ॥ चन्दनादुकसंयुक्तं स्नाने सांघातिके हिते ॥ सर्वगन्धोदकैः स्नानं तथा सिद्धार्थकैः शुभैः ॥ ५ ॥ पीडिते सामुदायर्क्षे पुंसां कल्मषनाशनम् ॥ वृषशृङ्गोद्धृतमृदा तथा विल्वोदकैः शुभैः ॥ ६॥ शतपुष्पासमामोहैः स्नानं वैनाशिके भवेत् ॥ पीडिते चाभिषेकर्क्ष सर्वगन्धोदकैस्तथा ॥ ७ ॥ पीडिते देशऋक्षे युद्धेस्नानं विधीयते ॥ मृत्तिकाश्च प्रवक्ष्यामि गदतः शृणु मे नृप ॥ ८ ॥ नदीकूलद्वयान्मध्यात्संगमात्सप्तनदात्तथा ॥ अश्व- स्थानाद्गजस्थानाद्गोस्थानाद्धद्रिमस्तकात् ॥ ९ ॥ सर्पस्थानात्सवल्मीकाद्वाजस्थान्हादरालयात ॥ गजशृङ्गोद्धृतां चैव वृषशृङ्गोद्धृतां तथा॥१०॥ सर्वबीजोदकमातो जातिलक्षणापीडने ॥ मुच्यते किल्विषाइद्राजन कार्या विचारणा ॥ ११ ॥ इदमापः प्रवततः स्नानमन्त्राः प्रकीर्तिताः ॥१२॥ स्नातस्त्वैवं नृपचन्द्र पश्चात्स्नानं प्रकुर्वीत ग्रहोपदिष्टम् ॥ पीडाकरम्याथ ततस्तु कार्यं नक्षत्रयागाभिहितं यथावत ॥ १३ ॥ पूजा महेन्द्रम्य
१ 'स वै पौष्णः' इति क० । २ 'मित्राणाय्' इति ख० । ३ 'पीडिते' इति क० 'पीडनन्' इति ख० ।
नरेन्दुश्च पीडाकरस्याथ ततस्तु कार्या ॥ तं पूजयित्वाऽथ चन्द्रद्युतं ततः स दोषान्सकलाञ्जहाति ॥ १४ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० नक्षत्रस्नाने नवैकोननवतितमोऽध्यायः ॥ ८९ ॥ ॐ वज्र उवाच ॥ ग्रहाणां भार्गवश्रेष्ठ नक्षत्राणां तथैव च ॥ पूजाविधिमहं त्वत्तः श्रोतुमिच्छामि तत्त्वतः ॥ १ ॥ मार्कण्डेय उवाच ॥ ग्रहं वाप्यथ नक्षत्रं यं पूजयितुमिच्छति ॥ उपस्पृश्य शुचिर्भूत्वा कृत्वा तस्याथ मण्डलम् ॥ २ ॥ मण्डले कल्पितं वापि स्वयं दैवविदा नृप ॥ पूज्यस्नानेन विधिवत्स्नातः प्रयतमानसः ॥ ३ ॥ विधिनोपसमादाय प्रयतो जातवेदसम् ॥ अथ वोपसमादाने कृते तत्र पुरोधसा ॥ ४ ॥ प्राङ्मुखे च कृते तत्र चक्षुष्पथे यथाविधि ॥ मण्डलात्पश्चिमे भागे प्राङ्मुखः प्रयतश्शुचिः ॥ ५ ॥ मण्डलस्य तु शौचार्थं पश्चगव्यं प्रकल्पयेत् ॥ अभ्युक्ष्य पश्चगव्येन मण्डलं प्रयतं शुचिः ॥ ६ ॥ अर्घ्यादिकल्पनां कुर्यात्पाद्यान्तां तदनन्तरम् ॥ जीवादानं ततः कुर्याज्जीवस्यावाहनं ततः ॥ ७ ॥ पूज्यस्यावाहनं कुर्यात्ततोऽर्घ्यं विनिवेदयेत् ॥ पाद्यं निवेदयेत्पश्चादासनं च निवेदयेत् ॥ ८ ॥ दत्त्वावाचमनीयं च मधुपर्कं निवेदयेत् ॥ ततोऽनुलेपनं दद्यात्ततो दद्याद्विभूषणम् ॥ ९ ॥ ततो यज्ञोपवीतं च ततः प्रतिसराञ्छुभान् ॥ वस्त्रं तथा पताकां च पुष्पं धूपं तथैव च ॥ १० ॥ दीपं च दत्त्वा नैवेद्यं मुखवासं च पार्थिव ॥ ततोऽभिहवनं कुर्याद्यस्य यस्य यथा भवेत् ॥ ११ ॥ कृत्वैतत्तत्त्वं च दत्त्वा पूर्णाहुतिं ततः ॥ तद्युक्तं दक्षिणां दत्त्वा मण्डले प्रतिपादयेत् ॥ १२ ॥ हेतवेत्रियुगे देयं गौस्सुवर्णं तथैव च ॥ ग्राह्यं कालविदा तच्च यद्दत्तं ग्रहमण्डले ॥ १३ ॥ यथाशक्ति च दातव्या ब्राह्मणानां च दक्षिणा ॥ विसर्जनं ततः कार्यं ततो ब्राह्मणभोजनम् ॥ ॥ १४ ॥ युक्तवस्तु च विप्रेषु प्रमादाद्यन्मण्डले भवेत् ॥ अर्घ्यपुष्पादिकं सर्वं जले प्रक्षिप्य पार्थिव ॥ १५ ॥ अद्भिरत्र तर्पणं कार्यं पूजा स्यात्तदनन्तरम् ॥ १६ ॥ पूजाविधिस्ते गदितो मयाद्य समासतः पार्थिवसत्तमस्य ॥ अतः परं किं कथयामि तुभ्यं तन्मे वदस्वाखिलराजसिंह ॥ ॥ १७ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० ग्रहऋक्षपूजाविधिवर्णनं नाम नवतितमोऽध्यायः ॥ ९० ॥ वज्र उवाच ॥ ग्रहाणां भार्गवश्रेष्ठ नक्षत्राणां पृथक्पृथक् ॥ स्नानानि श्रोतुमिच्छामि तत्पीडाशमनान्यहम् ॥ १ ॥ मार्कण्डेय उवाच ॥ मञ्जिष्ठां मातुलुङ्गं च कुंकुमं रक्तचन्दनम् ॥ पूर्णकुम्भे कृते ताम्रे सूर्यस्नानं विधीयते ॥ २ ॥ उशीरं च शिरीषं च पद्मकं चन्दनं तथा ॥ शंखे न्यस्तमिदं स्नानं चन्द्रदोषनिवारणम् ॥ ॥ ३ ॥ खदिरं देवदारुं च तिलान्यामलकानि च ॥ पूर्णकुम्भे कृते रौप्ये भौमपीडाविनाशनम् ॥ ४ ॥ नदीसंगमतोयानि
१ 'धैर्यु' इति ख० । २ 'शुभं दानम्' इति क० । ३ 'द्याम्यातमादत्तम्' इति ख० । ४ 'ताम्रे' इति घ० ।
वि० ध०
प्र० खं०
अ० ९२
॥ ५६ ॥
तन्मृदा सहितानि च ॥ न्यस्तानि कुम्भे माहेये बुधपीडाविनाशनम् ॥ ५ ॥ गोरोचनं नागगदं शतपुष्पा शतावरी ॥ विल्वस्य सर्जते कुम्भे शुक्रपीडानिवारणम् ॥ ६ ॥ तिलान्माषान्म्रियंगुं च गन्धपत्रं तथैव च ॥ न्यस्तं कार्ष्णायसे कुम्भे सौरिपीडानिवारणम् ॥ ७ ॥ गुग्गुलुं हिङ्गुलं तालं शुभां चैव मनःशिलाम् ॥ शृंगे च माहिषे न्यस्तं राहुपीडाविनाशनम् ॥ ८ ॥ वाराहनष्टदंतां राजनपर्वतान्मृदं तथा ॥ छागं क्षीरं वज्रपात्रे केतुपीडाविनाशनम् ॥ ९ ॥ ग्रहास्नानमिदं प्रोक्तमृक्षस्नानमतः शृणु ॥ येन सम्यक्प्रयुक्तेन मुच्यते किल्विषान्नराः ॥ ॥ १० ॥ वटाश्वत्थशिरीषाणां पत्राणि तु तिलैस्सह ॥ सर्वगन्धोपपन्नानि कृत्तिकासु विधीयते ॥ ११ ॥ सर्वबीजोदकस्नानं रोहिणीषु प्रशस्यते ॥ सर्वरत्नोदकस्नानं मृगशीर्षे विधीयते ॥ १२ ॥ वचा च गन्धा कान्ताभिः स्नानं रौद्रे प्रकीर्तितम् ॥ गोधूमैरुद्गमयस्नानमादित्ये पापनाशनम् ॥ १३ ॥ सर्वौषध्यः पद्मगव्यं तथा गौरश्व शालयः ॥ सिद्धार्थकास्सर्वगन्धास्तिष्यस्नाने शुभप्रदाः ॥ १४ ॥ वल्मीकामृदा स्नानं तथा सार्पे शुभप्रदम् ॥ सतिलं देवनिर्माल्यं स्नानं शस्तं मघासु च ॥ १५ ॥ फल्गुनीषु च पूर्वांसु शार्दलं लवणं घृतम् ॥ उत्तरासु तथा स्नानं शिम्बिकुस्ताम्रपिष्ट्याभिः ॥ १६ ॥ हस्ते स्नानं प्रशंसन्ति पर्वतप्रसरोद्भवैः ॥ चित्रासु देवनिर्माल्यं स्वातौ पुष्पेजलैर्द्रवैः ॥ १७ ॥ विशाखासु प्रशंसन्ति रौद्रचन्दनपद्मकैः ॥ नदीकूलद्वयान्मृद्भिर्मैत्रे स्नानं प्रकीर्तितम् ॥ १८ ॥ ज्येष्ठोदकेन ज्येष्ठासु सुवर्णसहितं हितम् ॥ सर्वमूलजलैः स्नानमप्ये मुक्ताफलोदकैः ॥ १९ ॥ वैश्वदेवे प्रशंसन्ति पद्मोशीरहरिचन्दनैः ॥ सर्वौषधेश्चाभिजिति श्रवणे संगमोदकैः ॥ २० ॥ नदोवापापजालयुतैर्वारुणे तु प्रशस्यते ॥ आजे श्रीवासकं स्नानं कान्ता पुरोहितं हितम् ॥ २१ ॥ आहिर्बुध्न्ये तथा स्नानं पद्मोशीरहरिचन्दनैः ॥ कुङ्कुमागुरुकर्पूरैः सहितं पापनाशनम् ॥ दूर्भैर्युतैः पौष्णे हरिद्राद्वयचन्दनैः ॥ २२ ॥ नागाश्वगन्धा मदवन्तिका च क्षोद्राञ्चिता चाश्विनके प्रदिष्टा ॥ सुगन्धि काष्ठं रजनीद्वयं च स्नानं वचामिः सहितं च याम्यम् ॥ २३ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० ग्रहनक्षत्रस्नानविविधवर्णनं नामक नवतितमोऽध्यायः ॥ ९१ ॥
॥ छ ॥
॥ वज्र उवाच ॥
॥ प्राक्तनोत्तरतन्त्रौ द्वौ संवपामभिकामणाम् ॥ त्वत्तोऽहं श्रोतुमिच्छामि सर्वधर्मभृतां वर ॥ १ ॥
मार्कण्डेय उवाच ॥
उद्धृत्योर्विमयीं शुद्धे देशे वेदिं च कारयेत् ॥ प्रागुदक्प्रवणं शुद्धामथायातपदसप्तकम् ॥ २ ॥ पूर्वभागे च विधीया विस्तारात्पदपञ्चकम् ॥ पश्चिमे च तथा भागे विस्तारात्स्याच्चतुष्टयम् ॥ ३ ॥ आग्नायंदेशे च तथा विन्वृता सा पदत्रयम् ॥ पूर्वभागा
^१ 'प्रथियत्कर्म' इति ख० ।
^२ 'गन्ध्या' इति ख० ।
^३ 'याम्यं' इति ख० ।
दतिकृत्य पश्चात्पदचतुष्टयम् ॥ ४ ॥ याम्येनोत्तरतश्चैव विज्ञेयं तु पदं पदम् ॥ अगारात्पश्चिमे भागे वेदी ज्ञेया पदद्वयम् ॥ ५ ॥ वेदिमेवं विधां कृत्वा स्नात्वाचम्य प्रयत्नतः ॥ सौवर्णान्भाजसांस्ताम्रानानयेद्वापि महीमयान् ॥ ६ ॥ सूत्राद्यैर्माल्यगन्धैश्च सफ़लैः पल्लवैर्यु- तान् ॥ पूर्णोदकुम्भांश्चतुरो विदिक्षु सुदृढं न्यसेत् ॥ ७ ॥ वेद्यासुल्लिखनं कार्यमैन्द्रीभिर्नृपसप्तम ॥ उदुम्बरस्य शाखाभिः प्रागग्राभिः समन्ततः ॥ ८ ॥ शुल्केन्धनसमुद्भूस्तु ततः कार्यों हुताशनः ॥ न धमेत्तालवृन्तेन न शूर्पेण न वाससा ॥ ९ ॥ मुखेनो- पधमेदम्रिं मुखादग्निर्विजायत ॥ परिसमुह्य पर्युक्ष्य परिषिच्य परिस्तरेत् ॥ १० ॥ हुताशनं बोधयित्वा भूयश्चावाहयेद्बुधः ॥ वक्ष्यामि बोधने मन्त्रं तथा चावाहनं नृप ॥ ११ ॥ उद्बुध्यस्वाग्ने बोधयन्ति देवतास्तास्सवासवाः ॥ ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः ॥ १२ ॥ वरुणो वायुराकाशं चन्द्रादित्यो प्रभाकरौ ॥ ऋषयश्च महाभागास्त्रैलोक्यामलदर्शनाः ॥ १३ ॥ वेदाश्च वेदमाता च सावित्री पापनाशिनी ॥ ओषध्योऽथ वषट्कारो मन्त्राश्च विविधास्तथा ॥ १४ ॥ कालस्यावयवास्सर्वे दिशश्च विदिशस्तथा ॥ उद्बुद्ध्य यजमानस्य सर्वान्कामान्प्रयच्छ वै ॥ १५ ॥ (ओम्) आवाहयाम्यहं देवं देवदेवं हुताशनम् ॥ जगतोऽस्य समुत्पत्तिस्थितिसंहार कारकम् ॥ १६ ॥ वेदमूर्तिं तदाधारं सर्वदेवसुखं विभुम् ॥ पिङ्गाक्षं पिङ्गटं धूम्रकेतं विभावसुम् ॥ १७ ॥ शुकयानगमं देवं सर्वभरणभू- षितम् ॥ सर्वगं वरदं भानुं जठरस्थं च देहिनाम् ॥ १८ ॥ तेजोमूर्तिं दुराधर्षं सप्ताजिह्रं महाबलम् ॥ सप्ताचिषं सप्तार्चिकं च समिस्तमककञ्च्चु- तम् ॥ १९ ॥ विष्णोरंशमनिद्देश्यं भावनं जातवेदसम् ॥ पावनं प्रवृद्धं सौम्यं भक्तानां भूतवर्धनम् ॥ २० ॥ तद्दतमाहुतिगणं संप्रतीच्छु जगद्गुरो ॥ तेन भावय देवेश यथाहे देवतागणान् ॥ २१ ॥ याजकं यजमानं च पुष्ट्या विप्रज संर्वशः ॥ इदमर्घ्यमिदं पाद्यं धूपं दीपं प्रगृह्यताम् ॥ २२ ॥ एवमावाहनं कृत्वा पाद्यार्घ्यं विनिवेदयेत् ॥ वेद्यामेव न तौ देयौ वह्नौ यडुकुलोद्वह ॥ २३ ॥ गन्धपुष्पादिकं देयं सकळआतवेद्दसि ॥ धूपं दीपं सनैवेद्यं वेद्यामेव निवेदयेत् ॥ २४ ॥ ततस्तु प्रस्तरेद्दर्भामक्षतांश्चः कुशोद्भिजान् ॥ उपमूलादधोलूनैः प्रागग्रैः प्रयतः शुचिः ॥ २५ ॥ पूर्वं च प्राग्दक्षिणातः पश्चात्सैवोपसव्यतः ॥ उत्तरेण ततः कुर्यात्प्रस्तरस्य समापनाम् ॥ २६ ॥ मूर्लच्छिद्रन्नतु दातव्यं प्रस्तरे भृशतां वर ॥ ओषध्यः फलवन्त्यश्च पर्ववन्त्यस्तथैव च ॥ २७ ॥ दर्भाभावे प्रशंसन्ति तिलस्तन्न च वर्जयेत् ॥
१ 'सूत्राद्यै' इति ख० । २ 'दर्शिनः' इति ख० । ३ कोष्ठान्तर्गतः पाठः खपुस्तके नास्ति । ४ 'सप्तशक्तिमत्' इति ख० ।
वि० ध० प्र० खं० अ० १२
राजसीरवरकं¹ च परिबार्धमथोक्तम् ॥ २८ ॥ विष्णुर्मनसा पूते स्तो मन्त्रेणानेन सुव्रत ॥ दर्भं पवित्रमुत्सृज्य ताम्र्यां च तदनन्तरम् ॥ २९ ॥
देवोव इत्यनेनैव उत्पुपूयुदकं शुचि ॥ स्रुक्स्रुवावथ पालाशौ शमीन्धन्योधिसंभवौ ॥ ३० ॥ उदुम्बरमयौ ताम्रौ रूप्यरुक्ममयौ तथा ॥
आज्यस्थाली च कर्तव्या तैजसैर्मुद्रसम्मवा ॥ ३१ ॥ माहेयी वापि भूपाल नित्यं सर्वार्थकर्मसु ॥ हस्तमात्रः स्रुवः कार्यो स्रुवबाहुसमंतथा ॥ ३२ ॥
अङ्गुष्ठमध्यप्रतिर्म होमस्थानं स्रुवस्य तु ॥ आज्यस्थाल्याः प्रमाणन्तु यथाकामन्तु कारयेत् ॥ ३३ ॥ ग्रामं पृथ्व्यापयोस्रीति मन्त्रेणाज्यं
नराधिप ॥ आज्यस्थाल्याः पयोत्पूतं पश्चानामिति पञ्चकम् ॥ ३४ ॥ पठन्गृह्णीत राजेन्द्र अजैत्यमनाविवेशयेत् ॥ आज्यस्याथ पवित्रेण कार्यं²
स्रुत्स्रुक्वनं द्विज ॥ ३५ ॥ अभिसंज्ञेहिति सततं हविरस्तुपवनान्तरम् ॥ अक्षीपन्तु³ न कर्तव्यं सततं पार्थिवोत्तम ॥ ३६ ॥ शुभाभ्यां स्रुक्स्रुवो
राजनप्रत्यगुद्घमिति भावय ॥ पवित्रस्यायदाभ्रेण आयुरित्येव मानद ॥ ३७ ॥ प्रतिमार्जं स्रुवं पश्चाद्भूरित्येव पार्थिव ॥ प्रतिमार्ष्टि स्रुवं ताँश्च
दर्भान्वह्नावथोत्सृजेत् ॥ ३८ ॥ इमौत्संगं पठन्मन्त्रमिमं पार्थिवसत्तम ॥ दिवि शिल्पमवतंतं पृथिव्याः कक्षिभिः श्रितम् ॥ ३९ ॥ तेन सहस्रकाण्डेन
द्विपन्तं तापयामसि ॥ द्विपन्तस्तप्यतां चोक्त्वा क्षिपेद्धर्भांहुताशने ॥ ४० ॥ इध्मद्वयं ततो देयं याजिषुद्युमदसम्भवम् ॥ पलाशः खदिरो बिल्वः शम्य
ऋत्व्यत्वतास्तथा ॥ ४१ ॥ उदुम्बरमपामार्गः फल्गुश्च क्रमुकस्तथा ॥ चन्दनं देवदारुश्च द्रुमा द्वादश याज्ञियाः ॥ ४२ ॥ चतुर्गृहीतं विन्यस्य सुचि पूर्वं
विचक्षणः ॥ इध्मद्वये प्रज्वलिते सौम्यभागे नराधिप ॥ ४३ ॥ प्रजानाम्पतये स्वादावाहुतिं मनसा न्यसेत् ॥ चतुर्गृहीते मुद्धौते³ दया दक्षिणातो भवन्तः ॥
॥ ४४ ॥ युक्तः परस्तादित्यादि पञ्चकं जुहुयात्ततः ॥ सन्ततीश्र्च जयाह्यास्तान्त्वा गद्द्भूस्तो नृप ॥ ४५ ॥ वातंश्चा चाज्यभागौ च दातव्यौ पार्थिवोत्तम ॥
अथोदुम्बरपात्राणां वेदो⁴ दक्षिणतो नृप ॥ ४६ ॥ सव्ये पद्मपात्राणामथवापि महीपते ॥ आवाहनं तु कर्तव्यं देवस्य परमेष्ठिनः ॥ ४७ ॥ आवाह-
याम्यहं देवं ब्रह्माणं परमेष्ठिनम् ॥ जगतोऽस्य समुत्पत्तिस्थितिसंहारकारकम् ॥ ४८ ॥ चंर्तुवेदं चर्तुर्वक्रं चातुर्वर्ण्यप्रभुं प्रभुम् ॥ चतुराश्रमगोप्तारं वरदं
भूतभावनम् ॥ ४९ पद्मयौनिं जगद्यौनिं यज्ञयोनिं जगत्पतिम् ॥ आत्मयोनिमनाधृष्यं यज्ञवाहं जगत्पतिम् ॥ ५० ॥ यज्ञेशं यज्ञभर्त्तारं च
त्रैलोक्यस्यैतत्कारणम् ॥ सर्वगं वरदं सौम्यं परमं परमेश्वरम् ॥ ५१ ॥ भूतभव्यभवं नाथं योगेज्ञेयं सनातनम् ॥ आगच्छ भगवन्ब्रह्म-
न्न्यजमानस्य वृद्धये ॥ ५२ ॥ इदमर्घ्यमिदं पाद्यं धूपं चेदं प्रगृह्यताम् ॥ ब्रह्मलिङ्गोक्तमंतो मन्त्राअप्सुदत्त्या समाहितः ॥ ५३ ॥ आपोहिष्ठेति
॥ ५६ ॥
१ 'द्रवं' इति क० । २ 'कर्तुम्' इति ख० । ३ 'नोदेति' इति ख० 'नोवेति' इति क० । ४ 'अन्तर्वेदिम्' इति ख० ।