विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 158, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध०
प्र० खं०
अ० ९२
॥ ५६ ॥
तन्मृदा सहितानि च ॥ न्यस्तानि कुम्भे माहेये बुधपीडाविनाशनम् ॥ ५ ॥ गोरोचनं नागगदं शतपुष्पा शतावरी ॥ विल्वस्य सर्जते कुम्भे शुक्रपीडानिवारणम् ॥ ६ ॥ तिलान्माषान्म्रियंगुं च गन्धपत्रं तथैव च ॥ न्यस्तं कार्ष्णायसे कुम्भे सौरिपीडानिवारणम् ॥ ७ ॥ गुग्गुलुं हिङ्गुलं तालं शुभां चैव मनःशिलाम् ॥ शृंगे च माहिषे न्यस्तं राहुपीडाविनाशनम् ॥ ८ ॥ वाराहनष्टदंतां राजनपर्वतान्मृदं तथा ॥ छागं क्षीरं वज्रपात्रे केतुपीडाविनाशनम् ॥ ९ ॥ ग्रहास्नानमिदं प्रोक्तमृक्षस्नानमतः शृणु ॥ येन सम्यक्प्रयुक्तेन मुच्यते किल्विषान्नराः ॥ ॥ १० ॥ वटाश्वत्थशिरीषाणां पत्राणि तु तिलैस्सह ॥ सर्वगन्धोपपन्नानि कृत्तिकासु विधीयते ॥ ११ ॥ सर्वबीजोदकस्नानं रोहिणीषु प्रशस्यते ॥ सर्वरत्नोदकस्नानं मृगशीर्षे विधीयते ॥ १२ ॥ वचा च गन्धा कान्ताभिः स्नानं रौद्रे प्रकीर्तितम् ॥ गोधूमैरुद्गमयस्नानमादित्ये पापनाशनम् ॥ १३ ॥ सर्वौषध्यः पद्मगव्यं तथा गौरश्व शालयः ॥ सिद्धार्थकास्सर्वगन्धास्तिष्यस्नाने शुभप्रदाः ॥ १४ ॥ वल्मीकामृदा स्नानं तथा सार्पे शुभप्रदम् ॥ सतिलं देवनिर्माल्यं स्नानं शस्तं मघासु च ॥ १५ ॥ फल्गुनीषु च पूर्वांसु शार्दलं लवणं घृतम् ॥ उत्तरासु तथा स्नानं शिम्बिकुस्ताम्रपिष्ट्याभिः ॥ १६ ॥ हस्ते स्नानं प्रशंसन्ति पर्वतप्रसरोद्भवैः ॥ चित्रासु देवनिर्माल्यं स्वातौ पुष्पेजलैर्द्रवैः ॥ १७ ॥ विशाखासु प्रशंसन्ति रौद्रचन्दनपद्मकैः ॥ नदीकूलद्वयान्मृद्भिर्मैत्रे स्नानं प्रकीर्तितम् ॥ १८ ॥ ज्येष्ठोदकेन ज्येष्ठासु सुवर्णसहितं हितम् ॥ सर्वमूलजलैः स्नानमप्ये मुक्ताफलोदकैः ॥ १९ ॥ वैश्वदेवे प्रशंसन्ति पद्मोशीरहरिचन्दनैः ॥ सर्वौषधेश्चाभिजिति श्रवणे संगमोदकैः ॥ २० ॥ नदोवापापजालयुतैर्वारुणे तु प्रशस्यते ॥ आजे श्रीवासकं स्नानं कान्ता पुरोहितं हितम् ॥ २१ ॥ आहिर्बुध्न्ये तथा स्नानं पद्मोशीरहरिचन्दनैः ॥ कुङ्कुमागुरुकर्पूरैः सहितं पापनाशनम् ॥ दूर्भैर्युतैः पौष्णे हरिद्राद्वयचन्दनैः ॥ २२ ॥ नागाश्वगन्धा मदवन्तिका च क्षोद्राञ्चिता चाश्विनके प्रदिष्टा ॥ सुगन्धि काष्ठं रजनीद्वयं च स्नानं वचामिः सहितं च याम्यम् ॥ २३ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० ग्रहनक्षत्रस्नानविविधवर्णनं नामक नवतितमोऽध्यायः ॥ ९१ ॥
॥ छ ॥
॥ वज्र उवाच ॥
॥ प्राक्तनोत्तरतन्त्रौ द्वौ संवपामभिकामणाम् ॥ त्वत्तोऽहं श्रोतुमिच्छामि सर्वधर्मभृतां वर ॥ १ ॥
मार्कण्डेय उवाच ॥
उद्धृत्योर्विमयीं शुद्धे देशे वेदिं च कारयेत् ॥ प्रागुदक्प्रवणं शुद्धामथायातपदसप्तकम् ॥ २ ॥ पूर्वभागे च विधीया विस्तारात्पदपञ्चकम् ॥ पश्चिमे च तथा भागे विस्तारात्स्याच्चतुष्टयम् ॥ ३ ॥ आग्नायंदेशे च तथा विन्वृता सा पदत्रयम् ॥ पूर्वभागा
^१ 'प्रथियत्कर्म' इति ख० ।
^२ 'गन्ध्या' इति ख० ।
^३ 'याम्यं' इति ख० ।