विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 159, कुल 1001 में से
संदर्भ में पढ़ेंदतिकृत्य पश्चात्पदचतुष्टयम् ॥ ४ ॥ याम्येनोत्तरतश्चैव विज्ञेयं तु पदं पदम् ॥ अगारात्पश्चिमे भागे वेदी ज्ञेया पदद्वयम् ॥ ५ ॥ वेदिमेवं विधां कृत्वा स्नात्वाचम्य प्रयत्नतः ॥ सौवर्णान्भाजसांस्ताम्रानानयेद्वापि महीमयान् ॥ ६ ॥ सूत्राद्यैर्माल्यगन्धैश्च सफ़लैः पल्लवैर्यु- तान् ॥ पूर्णोदकुम्भांश्चतुरो विदिक्षु सुदृढं न्यसेत् ॥ ७ ॥ वेद्यासुल्लिखनं कार्यमैन्द्रीभिर्नृपसप्तम ॥ उदुम्बरस्य शाखाभिः प्रागग्राभिः समन्ततः ॥ ८ ॥ शुल्केन्धनसमुद्भूस्तु ततः कार्यों हुताशनः ॥ न धमेत्तालवृन्तेन न शूर्पेण न वाससा ॥ ९ ॥ मुखेनो- पधमेदम्रिं मुखादग्निर्विजायत ॥ परिसमुह्य पर्युक्ष्य परिषिच्य परिस्तरेत् ॥ १० ॥ हुताशनं बोधयित्वा भूयश्चावाहयेद्बुधः ॥ वक्ष्यामि बोधने मन्त्रं तथा चावाहनं नृप ॥ ११ ॥ उद्बुध्यस्वाग्ने बोधयन्ति देवतास्तास्सवासवाः ॥ ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः ॥ १२ ॥ वरुणो वायुराकाशं चन्द्रादित्यो प्रभाकरौ ॥ ऋषयश्च महाभागास्त्रैलोक्यामलदर्शनाः ॥ १३ ॥ वेदाश्च वेदमाता च सावित्री पापनाशिनी ॥ ओषध्योऽथ वषट्कारो मन्त्राश्च विविधास्तथा ॥ १४ ॥ कालस्यावयवास्सर्वे दिशश्च विदिशस्तथा ॥ उद्बुद्ध्य यजमानस्य सर्वान्कामान्प्रयच्छ वै ॥ १५ ॥ (ओम्) आवाहयाम्यहं देवं देवदेवं हुताशनम् ॥ जगतोऽस्य समुत्पत्तिस्थितिसंहार कारकम् ॥ १६ ॥ वेदमूर्तिं तदाधारं सर्वदेवसुखं विभुम् ॥ पिङ्गाक्षं पिङ्गटं धूम्रकेतं विभावसुम् ॥ १७ ॥ शुकयानगमं देवं सर्वभरणभू- षितम् ॥ सर्वगं वरदं भानुं जठरस्थं च देहिनाम् ॥ १८ ॥ तेजोमूर्तिं दुराधर्षं सप्ताजिह्रं महाबलम् ॥ सप्ताचिषं सप्तार्चिकं च समिस्तमककञ्च्चु- तम् ॥ १९ ॥ विष्णोरंशमनिद्देश्यं भावनं जातवेदसम् ॥ पावनं प्रवृद्धं सौम्यं भक्तानां भूतवर्धनम् ॥ २० ॥ तद्दतमाहुतिगणं संप्रतीच्छु जगद्गुरो ॥ तेन भावय देवेश यथाहे देवतागणान् ॥ २१ ॥ याजकं यजमानं च पुष्ट्या विप्रज संर्वशः ॥ इदमर्घ्यमिदं पाद्यं धूपं दीपं प्रगृह्यताम् ॥ २२ ॥ एवमावाहनं कृत्वा पाद्यार्घ्यं विनिवेदयेत् ॥ वेद्यामेव न तौ देयौ वह्नौ यडुकुलोद्वह ॥ २३ ॥ गन्धपुष्पादिकं देयं सकळआतवेद्दसि ॥ धूपं दीपं सनैवेद्यं वेद्यामेव निवेदयेत् ॥ २४ ॥ ततस्तु प्रस्तरेद्दर्भामक्षतांश्चः कुशोद्भिजान् ॥ उपमूलादधोलूनैः प्रागग्रैः प्रयतः शुचिः ॥ २५ ॥ पूर्वं च प्राग्दक्षिणातः पश्चात्सैवोपसव्यतः ॥ उत्तरेण ततः कुर्यात्प्रस्तरस्य समापनाम् ॥ २६ ॥ मूर्लच्छिद्रन्नतु दातव्यं प्रस्तरे भृशतां वर ॥ ओषध्यः फलवन्त्यश्च पर्ववन्त्यस्तथैव च ॥ २७ ॥ दर्भाभावे प्रशंसन्ति तिलस्तन्न च वर्जयेत् ॥
१ 'सूत्राद्यै' इति ख० । २ 'दर्शिनः' इति ख० । ३ कोष्ठान्तर्गतः पाठः खपुस्तके नास्ति । ४ 'सप्तशक्तिमत्' इति ख० ।