विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 157, कुल 1001 में से
संदर्भ में पढ़ेंनरेन्दुश्च पीडाकरस्याथ ततस्तु कार्या ॥ तं पूजयित्वाऽथ चन्द्रद्युतं ततः स दोषान्सकलाञ्जहाति ॥ १४ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० नक्षत्रस्नाने नवैकोननवतितमोऽध्यायः ॥ ८९ ॥ ॐ वज्र उवाच ॥ ग्रहाणां भार्गवश्रेष्ठ नक्षत्राणां तथैव च ॥ पूजाविधिमहं त्वत्तः श्रोतुमिच्छामि तत्त्वतः ॥ १ ॥ मार्कण्डेय उवाच ॥ ग्रहं वाप्यथ नक्षत्रं यं पूजयितुमिच्छति ॥ उपस्पृश्य शुचिर्भूत्वा कृत्वा तस्याथ मण्डलम् ॥ २ ॥ मण्डले कल्पितं वापि स्वयं दैवविदा नृप ॥ पूज्यस्नानेन विधिवत्स्नातः प्रयतमानसः ॥ ३ ॥ विधिनोपसमादाय प्रयतो जातवेदसम् ॥ अथ वोपसमादाने कृते तत्र पुरोधसा ॥ ४ ॥ प्राङ्मुखे च कृते तत्र चक्षुष्पथे यथाविधि ॥ मण्डलात्पश्चिमे भागे प्राङ्मुखः प्रयतश्शुचिः ॥ ५ ॥ मण्डलस्य तु शौचार्थं पश्चगव्यं प्रकल्पयेत् ॥ अभ्युक्ष्य पश्चगव्येन मण्डलं प्रयतं शुचिः ॥ ६ ॥ अर्घ्यादिकल्पनां कुर्यात्पाद्यान्तां तदनन्तरम् ॥ जीवादानं ततः कुर्याज्जीवस्यावाहनं ततः ॥ ७ ॥ पूज्यस्यावाहनं कुर्यात्ततोऽर्घ्यं विनिवेदयेत् ॥ पाद्यं निवेदयेत्पश्चादासनं च निवेदयेत् ॥ ८ ॥ दत्त्वावाचमनीयं च मधुपर्कं निवेदयेत् ॥ ततोऽनुलेपनं दद्यात्ततो दद्याद्विभूषणम् ॥ ९ ॥ ततो यज्ञोपवीतं च ततः प्रतिसराञ्छुभान् ॥ वस्त्रं तथा पताकां च पुष्पं धूपं तथैव च ॥ १० ॥ दीपं च दत्त्वा नैवेद्यं मुखवासं च पार्थिव ॥ ततोऽभिहवनं कुर्याद्यस्य यस्य यथा भवेत् ॥ ११ ॥ कृत्वैतत्तत्त्वं च दत्त्वा पूर्णाहुतिं ततः ॥ तद्युक्तं दक्षिणां दत्त्वा मण्डले प्रतिपादयेत् ॥ १२ ॥ हेतवेत्रियुगे देयं गौस्सुवर्णं तथैव च ॥ ग्राह्यं कालविदा तच्च यद्दत्तं ग्रहमण्डले ॥ १३ ॥ यथाशक्ति च दातव्या ब्राह्मणानां च दक्षिणा ॥ विसर्जनं ततः कार्यं ततो ब्राह्मणभोजनम् ॥ ॥ १४ ॥ युक्तवस्तु च विप्रेषु प्रमादाद्यन्मण्डले भवेत् ॥ अर्घ्यपुष्पादिकं सर्वं जले प्रक्षिप्य पार्थिव ॥ १५ ॥ अद्भिरत्र तर्पणं कार्यं पूजा स्यात्तदनन्तरम् ॥ १६ ॥ पूजाविधिस्ते गदितो मयाद्य समासतः पार्थिवसत्तमस्य ॥ अतः परं किं कथयामि तुभ्यं तन्मे वदस्वाखिलराजसिंह ॥ ॥ १७ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० ग्रहऋक्षपूजाविधिवर्णनं नाम नवतितमोऽध्यायः ॥ ९० ॥ वज्र उवाच ॥ ग्रहाणां भार्गवश्रेष्ठ नक्षत्राणां पृथक्पृथक् ॥ स्नानानि श्रोतुमिच्छामि तत्पीडाशमनान्यहम् ॥ १ ॥ मार्कण्डेय उवाच ॥ मञ्जिष्ठां मातुलुङ्गं च कुंकुमं रक्तचन्दनम् ॥ पूर्णकुम्भे कृते ताम्रे सूर्यस्नानं विधीयते ॥ २ ॥ उशीरं च शिरीषं च पद्मकं चन्दनं तथा ॥ शंखे न्यस्तमिदं स्नानं चन्द्रदोषनिवारणम् ॥ ॥ ३ ॥ खदिरं देवदारुं च तिलान्यामलकानि च ॥ पूर्णकुम्भे कृते रौप्ये भौमपीडाविनाशनम् ॥ ४ ॥ नदीसंगमतोयानि
१ 'धैर्यु' इति ख० । २ 'शुभं दानम्' इति क० । ३ 'द्याम्यातमादत्तम्' इति ख० । ४ 'ताम्रे' इति घ० ।